________________
१९०
बृहत्कल्प-छेदसूत्रम् - ३-४/१२२ हृदयम्- सर्वोऽपि तपो-नियमादिकः प्रयासोऽस्माकं संसारनिस्तरणार्थम्, ते च तपःप्रभृतयो गुणा गुरूपदेशमन्तरेण न सम्यगवगम्यनते, न वा निरवशेषा अपि यथावदनुष्ठातुं शक्यन्ते, अतः संसारनिस्तरणार्थमाचार्याणां प्रायोग्यानयनादिना कर्तव्यमेव वैयावृत्यमिति । अपि च[भा. ५३०५] जति ताव लोइय गुरुस्स लहुओ सागारिओ पुढविमादी । आनयने परिहरिया, पढमा आपुच्छ जतणाए ।
वृ- यदि तावल्लीकिका अपि यो गुरु-पिता ज्येष्ठाबन्धुर्वा कुटुम्बं धारयति तस्मिन्नभुक्ते न भुञ्जते, यचोत्कृष्टं शाल्योदनादिकं तत् तस्य प्रयच्छन्ति; ततः किं पुनर्यस्य प्रभावेन संसारो निस्तीर्यते तस्य प्रायोग्यमदत्त्वा एवमेव भुज्यते ? । यस्तु भङ्के तस्य मासलघु । वसतेरभावाच्च तत्र भुञ्जानान् सागारिको यदि पश्यति तदा चतुर्लघु, आज्ञादयश्च दोषाः । अस्थण्डिले च समुद्दिशतां पृथिव्यादिविराधना । आनयने तु सर्वेऽप्येते दोषाः परिह्नता भवन्ति, अतो गुरुसमीपमानेतव्यम् । द्वितीयपदे प्रथमालिकां कुर्वन्तो गुरुमापृच्छय गच्छन्ति । यतनया च यथा संसृष्टं न भवति तथा प्रथमालिका कर्तव्या ॥
[भा. ५३०६]
चोगवयणं अप्पाऽनुकंपिओ ते य मे परिचत्ता । आयरिए अनुकंपा, परलोए इह पसंसणया ॥
- 'नोदंकवचनं नाम' परः प्रेयति यावत् ते ततो ग्रामात् प्रत्यागच्छन्ति तावत् तृष्णाक्षुधाक्लान्ता अतीव परिताप्यन्ते, एवं प्रस्थापयद्भिर्भवद्भिरात्मा अनुकम्पितः 'ते च' साधवः परित्यक्ता भवति । गुरुराह - ननु मुग्ध ! त एवानुकम्पिताः, कथम् ? इत्याह- "आयरिए" इत्यादि, यद् आचार्यवैयावृत्ये नियुक्ता एषा पारलौकिकी तेषामनुकम्पा, इहलोकेऽपि तेऽनुकम्पिताः, यतो बहुभ्यः साधु-साध्वीजनेभ्यः प्रशंसामासादयन्ति ॥ परः प्राह
[भा: ५३०७ ] एवं पि परिचत्ता, काले खमए य असहुपुरिसे य कालो गिम्हो उ भवे, खमओ वा पढम-बितिएहिं ॥
वृ- यतस्ते बुभुक्षित-तृषिता भाराक्रान्ताः शीत-वाता ऽऽतपैरभिहताः पन्थानं वहन्ति, यूयं तु शीतलच्छायायां तिष्ठथ, तत एवमपिते परित्यक्ताः । सूरिराह तेषामपि कालं क्षपकमसहिष्णुपुरुषं च प्रतीत्य प्रथमालिकाकरणमनुज्ञातम् । तत्र कालः- ग्रीष्मलक्षणस्तस्मिन् प्रथमालिकां कृत्वा पानकं पिबन्ति, क्षपको वा प्रथम द्वितीयपरीषहाभ्यामतीव बाधितः प्रथमालिकां करोति, एवम सहिष्णुरपि बुभुक्षार्तः प्रथमालिकां कुर्यात् ।। अत्र परः प्राह
[भा. ५३०८]
जइ एवं संस, अप्पत्ते दोसियाइणं गहणं ।
लंबण भिक्खा दुविहा, जहन्नमुकोस तिय पनए ।
वृ- यद्येवमसौ बहिरेव प्रथमालिकां करोति ततो भक्तं संसृष्टं भवति, संसृष्टे च गुर्वादीनां दीयमानेऽभक्ति कृता भवति । गुरुराह अप्राप्ते देश-काले दोषानादेर्ग्रहणं कृत्वा येषु वा कुलेषु प्रभाते वेला तेषु पर्यटय प्रथमालिकां कुर्वन्ति, भाजनस्य च कल्पं कुर्वन्ति । प्रथमालिकाप्रमाणंच द्विधा-लम्बनतो भिक्षातश्च । तत्र जघन्येन त्रयः 'लम्बना: ' कवलास्तिस्रश्च मिक्षाः, उत्कर्षतः पञ्च लम्बनाः पञ्च वा भिक्षाः । शेषं सर्वमपि मध्यमं प्रमाणम् ॥
अथ तैः कुत्र किं ग्रहीतव्यम् ? इति निरूपयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org