________________
१८८
बृहत्कल्प-छेदसूत्रम् -३-४/१२२ कृ-जनस्यात्मीयात्मीयगृहेषुग्रामध्ये वा मिलितस्यालापः-प्रवादो भवति-अमी साधवः परग्रामे हिण्डित्वा भिक्षामिहानयन्ति ततः केवलं वसतिरेवेह ग्रामे अमीषाम् । एवं श्रुत्वा गृहपतयः स्वस्वमहेला आदिशन्दि-ये बालादयोऽत्र बालादयोऽत्र हिण्डन्ते तेषामादरेणसविशेष प्रयच्छत। एवं विधायां चिन्तायां प्राघूर्णकादिकारणजाते यदि देशकालेऽदेशकाले वा हिण्डन्ते तदाऽपि सुलभं भवति। [भा.५२९६] पाहुणविसेसदाने, निज्जर कित्ती य इहर विवरीयं।
पुट्विं चमढणसिग्गा, न देति संतं पि कज्जेसु ।। प्राघुर्णकस्य विशेषेण आदरेण भक्त-पानेदीयमानेपरलोकेनिर्जराइहलोकेच कीर्तिर्भवति, चशब्दात्प्रीतिवृद्धि परस्परोपकारिताच भवति। 'इतरथा प्राघुणकस्याक्रियमाणे एतदेव विपरीतं भवति, निर्जरादिकं भवतीत्यर्थः । कथं पुनस्तद् दानं न भवति? इत्याह-पूर्वं चमढनया-दिने दिने प्रविशद्भिः साधुभिः सिग्गानि-परिश्रान्तानि स्थापनाकुलानि 'सदपि' गृहे विद्यमानमपि घृतादिकं द्रव्यं प्राघूर्णकादिकार्येषु उत्पन्नेषुन प्रयच्छन्ति । एवं गुण-दोषान् विज्ञाय क्षेत्रं प्रयत्नेन रक्षणीयमिति प्रक्रमः॥अयंचापरस्तत्र गुणो भवति[भा.५२९७] बोरीइ य दिलुतो, गच्छे वायामो तहि च पतिरिकं ।
केइ पुन तत्थ भुंजण, आनेमाने भणिय दोसा।। कृ-बहिमे भिक्षाटने क्रियमाणे प्रभूतं दुग्ध-दध्यादिकं प्रायोग्यं प्राप्यते, तथा चात्र बदर्या दृष्टान्तोभवति।अपिचगच्छेएथैवसामाचारीगणधरभणिता-यद्बहिनमितरुणैर्भिक्षायामटनीयम्। व्यायामश्चमोहचिकित्सानिमित्तं तैः कृतो भवति । तत्र' बहिमिचशब्दाद् इह चग्रामे “पइरिक" एकान्तं भवति, मुत्कलमित्यर्थः । यद्वा “पइरिक" ति परं भक्त-पानं तत्रावाप्यते । केचित् पुनराचार्यदेशीया ब्रुवते-'तत्रैव' बहिमि भोजनं कर्त्तव्यम्, यतो ये पूर्वमानयतो भार-वेदनादयो दोषाभणितास्ते एवंपरिहता भवन्ति। एतत्परमतमुत्तरत्र निराकरिष्यते।।अथ बदरीष्टान्तमाह[भा.५२९८] गामऽब्मासे बदरी, नीसंदकडुप्फला यखुला य।
पक्काऽऽमाऽलस चेडा, खायंतियरे गता दूरं ।। वृ-कस्यापि ग्रामस्य ‘अभ्यासे' प्रत्यासत्तौ बदरी । सा ग्रामनिस्यन्दपानीयेन संवर्धिता ततः कटुकफला संवृत्ता। अन्यच्च सा स्वभावत एव कुब्जा ततः सुखारोहा । तस्यां न कानिचित् फलानि पक्वानि कानिचिदामानि, अथवा “पक्वाऽऽम"त्ति मन्दपक्वानि । तत्र ये अलसाः 'चेटकाः बालकास्तेतांबदरीसुखारोहामारुह्य कटुकान्यपि बदराणिभक्षयन्ति, तान्यपिस्वल्पतया न पर्याप्तानि भवन्ति । इतरे नाम' अनलसाः-उउत्साहवन्तो बालकास्ते दूरमटवीं गताः, तत्र च महाबदरीवनेषु परिपक्वानि बदराणि यथेच्छं खादन्ति॥ [भा.५२९९] सिग्घतरं ते आता, तेसिऽत्रेसिंचदिति सयमेव।
खायंति एव इहई, आय-परसुवहा तरुणा॥ -ततो यावत् तेऽलसास्तस्यां कटुकबदाँ क्लिश्यमाना आसते तावत् 'ते' दूरगामिनो बालकाआत्मनः परयाप्तं कृत्वा बदरपोट्टलकमाराक्रान्ताः शीघ्रतरमागताः तेषाम् अलसानाम् 'अन्येषां च' गृहे स्थितानां स्वजनानां बदराणि पर्याप्तया ददति, स्वयमेव च भक्षयन्ति । एवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org