________________
उद्देशक : ४, मूलं-११६, [भा. ५२०८]
१६९ “सो य इयरे य चत्ता" इति पदं व्याख्याति[भा.५२०९] वाइजंति अपत्ता, हनुदानि वयं पि एरिसा होमो।
इय एस परिघातो, इह-परलोगेऽनवत्था य॥ वृ-स तावद् ज्ञानाचारविराधकतया संसारंपरिभ्रमतीति परित्यक्तः । इतरेऽपि साधवस्तान् वाच्यमानान् दृष्टवा चिन्तयन्ति-अहो! अपात्राण्यपि यदि वाच्यन्ते "हनुदानि"ति ततः साम्प्रतं वयमपीद्दशा भवामः; "इय" एवं तेषामपि दुनियादीप्रवर्तमानानामिह-परलोकयोः परित्यागः कृतो भवति । अनवस्था चैवं भवति, न कोऽपि विनयादिकं करोतीत्यर्थः ।।
अथ "द्वितीयपदमध्वादिषु भवति' इति यदुक्तं तद् व्याचष्टे[भा.५२१०] अद्धाण-ओमादि उवग्गहम्मिं, वाए अपत्तं पितु वट्टमाणं।
वुच्छिज्जमाणम्मि व संथरे वी, अन्नासतीए वितु तं पिवाए। वृ-अध्वनि वाअवमौदर्ये वा आदिशब्दाद् राजद्विष्टादिषुवा भक्त-पानादिना गच्छस्योपग्रहे वर्तमानम् 'अपात्रमपि' दुर्विनीतादिकं लब्धिसम्पन्नं वाचयेत् । अथवा किमप्यपूर्व श्रुतं तस्याऽऽचार्यस्य समस्ति, पात्रभूतश्च शिष्यो न प्राप्यते, तच्चान्यत्रासकाम्यमाणं व्यवच्छिद्यते, ततःसंस्तरणेऽपिअपात्रं वाचयेत् । यद्वा नास्ति तस्यान्यः कोऽपि शिष्यस्ततोऽन्यस्याभावे 'मा सूत्रार्थो विस्मरताम्' इति कृत्वा 'तमपि' अपात्रभूतं वाचयेत् ।।
मू. (११७) तओ दुस्सन्नप्पा पत्रत्ता, तं जहा-दुढे मूढे बुग्गाहिए। वृ.अस्य सम्बन्धमाह[भा.५२११] सम्मत्ते वि अजोग्गा, किमु दिक्खण-वायणास दुट्ठादी।
दुस्सन्नप्पारंभो, मा मोह परिस्समो होज्जा ॥ वृ-दुष्टादयस्त्रयः सम्यक्त्वग्रहणेऽप्ययोग्याः किं पुनर्दीक्षण-वाचनयोः?,अतस्तेषांप्रज्ञापने 'मोघः' निष्फलः प्रज्ञापकस्य परिश्रमो मा भूदिति दुःसंज्ञाप्यसूत्रमारभ्यते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयः दुःखेन-कुच्छ्रेण संज्ञाप्यन्ते-प्रतिबोध्यन्त इति दुःसंज्ञाप्याःप्रज्ञप्ताः। तद्यथा-'दुष्टः' तत्त्वं प्रज्ञापकं वा प्रति द्वेषवान्, स चाप्रज्ञापनीयः, द्वेषेणोपदेशाप्रतिपत्तेः । एवं 'मूढः'गुण-दोषानभिज्ञः । व्युद्ग्राहितोनाम' कुप्रज्ञापकढीकृतविपरीतावबोधः । एष सूत्रार्थः। अथ भाष्यविस्तर:[मा.५२१२] दुस्सनप्पो तिविहो, दुट्ठाती दुट्टो वन्नितो पुट्विं ।
मूढस्स य निक्खेवो, अट्ठविहो होइ कायव्यो॥ वृ-दुःसंज्ञाप्यो दुष्टादिभेदात् त्रिविधः। तत्र दुष्टः 'पूर्व पाराञ्चिकसूत्रेयथा वर्णितः तथाऽत्रापि मन्तव्यः । मूढस्य पुनरष्टविधो निक्षेपो वक्ष्यमाणनीत्या कर्तव्यो भवति।।
तत्र पदत्रयनिष्पन्नामष्टभङ्गी तावदाह[मा.५२१३] . दुढे मूढे वुगाहिए य भयणा उ अहिया होइ ।
पढमगभंगे सुत्तं, पढमं विइयं तु चरिमम्मि ॥ वृ-दुष्टो मूढो व्युद्ग्राहित इति त्रिभि पदैरष्टिका भजना भवति, अष्टौ भङ्गा इत्यर्थः । अत्र च प्रथमे भङ्गे प्रथमं सूत्रं निपतति, 'चरमे' अष्टमे भले 'अदुष्टोऽमूढोऽव्युग्राहितः' इत्येवंलक्षणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org