________________
उद्देशकः ४, मूलं-११६, [भा. ५१९८]
१६७ -ये पूर्वसूत्रे षट् प्रव्राजनादयो द्रव्यकल्पाः प्रतिपादिताः तेषां मध्यादेकां ग्रहणशिक्षापणां मुक्त्वा शेषाणि स्थानानि अविनीतादीनांत्रयाणां नैकान्तेन प्रतिषिद्धानि । ग्रहणशिक्षाप्रतिषेधार्थ तु प्रस्तुतं सूत्रमारभ्यते । अयमपरः सम्बन्धस्य 'कल्पः' प्रकारो भवति ।। अनेनायातस्यास्य व्याख्या-त्रयो नो कल्पन्ते वाचयितुं' सूत्रं पाठयितुमर्थं वा श्रावयितुम् । तद्यथा-'अविनीतः' सूत्रा-ऽर्थदातुर्वन्दनादिविनयरहितः । विकृतिप्रतिबद्धः घृतादिरसविशेषगृद्धः, अनुपघानकारीति भावः ।अव्यवशमिम्-अनुपशान्तंप्राभृतमिवप्नाभृतं-नरकपालकौशलिकंतीव्रक्रोधलक्षणंयस्यासी अव्यवशमितप्राभृतः ।। एतद्विपरीतास्तु त्रयोऽपि कल्पन्ते वाचयितुम् । तद्यथा-विनीतो नोविकृतिप्रतिबद्धो व्यवशमितप्राभृतश्चेति सूत्रार्थः ॥ अथ नियुक्तिविस्तरः[भा.५१९९] विगइ अविनीए लहुगा, पाहुड गुरुगा य दोसा आणादी ।
सोय इयरे य चत्ता, बितियं अद्धाणमादीसु॥ कृ-विकृतिप्रतिबद्धमविनीतंच वाचयतश्चतुर्लघुकाः अव्यवशमितप्राभृतंवाचयतश्चतुर्गुरुकाः। आज्ञादयश्च दोषाः । स च 'इतरे च' साधवः परित्यक्ता भवन्ति । तत्र स तावद् विनयमकुर्वन् ज्ञानाचारं विराधयतीति कृत्वापरित्यक्तः, इतरेच तमविनीतं दृष्टव विनयंन कुर्वन्तीति परित्यक्ताः। द्वितीयपदमत्र भवति-अध्वादिषु वर्तमानानां योऽविनीतादिरप्युपग्रहं करोति स वाचनीयः । एषा नियुक्तिगाथा ।। एनामेव भाष्यकृद् विवृणोति[मा.५२००] अविनीयमादियाणं, तिण्ह विभयणा उ अट्ठिया होति ।
पढमगभंगे सुत्तं, पढमं बितियं तु चरिमम्मि॥ वृ-अविनीतादीनांत्रयाणामपिपदानांअष्टिका भजना भवति, अष्टभङ्गीत्यर्थः । यथा-अविनीतो विकृतिप्रतिबद्धोऽव्यवशमितप्राभृतः १ अविनीतो विकृतिप्रतिबद्धो व्यवशमितप्राभृतः २ इत्यादि यावदष्टमो भङ्गो विनीतो विकृत्यप्रतिबद्धो व्यवशमितप्राभृतश्चेति । अत्र च प्रथमे भङ्गे प्रथमसूत्र निपतति, 'चरमे अष्टमे भङ्गे द्वितीयं सूत्रमिति । अथ त्रयाणामपि वाचने यथाक्रमंदोषानाह[भा.५२०१] इहरा विताव थब्मति, अविनीतो लंभितो किमु सुएण।
मा नट्ठो नस्सिहिती, खए व खारावसेओ तु॥ पृ-'इतरथाऽपि' श्रुतप्रदानमन्तरेणापितावदविनीतः स्तभ्यते' स्तब्धो भवति किं पुनः श्रुतेन लम्भितः सन्?, महिमानमिति शेषः । अतः स्वयं नष्टोऽसौ अन्यानपिमानाशयिष्यति, क्षते वा क्षारावसेको मा मूदिति कृत्वा नासौ वाचनीयः ॥अपि च. [भा.५२०२] गोजूहस्स पडागा, सयं पयातस्स वड्डयति वेगं।
दोसोदए य समणं, न होइन निदानतुलं वा ॥ वृ-इह गोपालको गवामग्रतो मूत्वा यदा पताकां दर्शयति तदाताः शीघ्रतरं गच्छन्तीति श्रुति; ततो गोयूथस्य स्वयं प्रयातस्य यथापताकावेगंवर्धयतितथा दुर्विनीतस्यापिश्रुतप्रदानमधिकतरं दुर्विनयं वर्धयति । तथा दोषाणां-रोगाणामुदये 'चः' समुच्ये 'शमनम्' षधं न दीयते, यतश्च निदानादुत्थितो व्याधितत्तुल्यं-तत्सद्दशमपि वस्तुरोगवृद्धिभयान दीयते; यद्वा दोषोदये दीयमानं शमनंन ननिदानतुल्यं भवति, किन्तु भवत्येव, ततो न दातव्यम् एवमस्यापि दुर्विनयदोषभरे वर्तमानस्य श्रुतौषधमहितमिति कृत्वा न देवम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org