________________
१६६
बृहत्कल्प छेदसूत्रम् -३-४/११५ मुण्डापनादिलक्षणस्यानाचरणयोग्यः, न तद्आचरणीयमिति भावः । अथ लोभाधभिभूततया तदपि समाचरति ततः पूर्वस्मिन्-प्रव्राजनाख्ये पदे ये प्रवचनापयशःप्रवादादयो दोषा उक्तास्ते अनिवारिताः, तदवस्था एव मन्तव्या इति भावः॥ [भा.५१९९] मुंडाविओ सिय तीस सेसचउक्कं अणायरणजोग्गो।
· अहवासमायरंते पुरिमपदऽनिवारिया दोसा ।। -अनामोगादिना मुण्डापितोऽपिस्यात् ततः 'शेषचतुष्कस्य शिक्षापनादिलक्षणस्याचरणे अयोग्यः । अथ समाचरति ततः पूर्वपददोषाअनिवारिताः॥एवं तिस्रोगाथा वक्तव्याः, यथा[भा.५१९२] सिक्खाविओ सियत्ती, सेसतिगस्सा अनायरणजोग्गो।
अहवासमायरंते, पुरिमपदऽनिवारिया दोसा ॥ [भा.५१९३] उवठ्ठाविओ सियत्ती, सेसदुगस्सा अनायरणजोग्गो ।
अहवा समायरंते, पुरिमपदऽनिवारिया दोसा। [मा.५१९४] संमँजिओ सिय ती, संवासेउं अनायरणजोग्गो।
अहवा संवासिंते, पुरिमपदऽनिवारिया दोसा ।। वृ-एवं षड्विधसचित्तद्रव्यकल्पसूत्राणि क्रमेण भवन्ति । तथा चात्रामी दृष्टान्ताः[भा.५१९५] मूलातो कंदादी उच्छुविकारो यजह रसादीया।
मिप्पिंड-गोरसाण य, होति विकाराजह कमेणं ।। [मा.५१९६] जह वा निसेगमादी, गब्भे जातस्स नाममादीया।
होति कमा लोगम्मिं, तह छब्बिह कप्पसुत्ता उ॥ वृ-यथा मूलात्कन्द-स्कन्ध-शाखादयो भेदाःक्रमेण भवन्ति, इक्षुविकाराश्चरस-कक्कबादयो यथाक्रमेणजायन्ते, मृत्पिण्डस्य वायथास्थाश-कोश-कुशूलादयो गोरसस्य च दधि-नवनीतादयो विकारा यथा क्रमेण भवन्ति, यथा वा गर्ने प्रविष्टस्य जीवस्य निषेक:-ओजः-शुक्रपुद्गलाहरणलक्षणस्तदादयःआदिशब्दात्कलला-ऽर्बुद-पेशीप्रभृतयः पर्याया भवन्ति, जातस्य वा तस्यैव 'नामादयः' नामकरण-चूडाकरणप्रभृतयःक्रमाद्यथा लोके भवन्ति, तथा षडविधकल्पसूत्राणि यथाक्रममाविप्रव्राजनादिषट्कविषयाणि क्रमेण भवन्ति ॥
मू. (११६)तओ नोकप्पंति वाइत्तए, तंजहा-अविनीए, विगईपडिबद्धे, अविओसवियपाहुडे। तओ कप्पति वाइत्तए, तंजहा-विनीए, नोविगईपडिबद्धे, विओसवियपाहुडे।।
अस्य सम्बन्धमाह[मा.५१९७] पंडादी पडिकुट्ठा, छविह कप्पम्मिमा विदित्तेवं ।
अविनीयमादितितयं, पवादए एस संबंधो॥ दृ-पण्डकादयस्त्रय एव षड्विधे सचित्तद्रव्यकल्पे प्रतिकुष्टाः नापरे केचित, एवं विदित्वा 'मा अविनीतादित्रितयं प्रवाचयेद्' इति कृत्वा प्रस्तुतसूत्रमारभ्यते । एष सम्बन्धः ।।
प्रकारान्तरेण सम्बन्धमाह[मा.५१९८] सिक्खावणं च मोत्तुं, अविनियमादीण सेसगा ठाणा।
__नेगंता पडिसिद्धास अयमपरो होइ कप्पो उ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org