SearchBrowseAboutContactDonate
Page Preview
Page 1212
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं - ११४, [भा. ५१६६ ] १६१ , गृहचटक इवाऽभीक्ष्णं प्रतिसेवनां करोति । 'तत्कर्मसेवी नाम' यदा प्रतिसेविते बीजनिसर्गो भवति तदा श्वान इव तदेव जिह्वया लेढि एवं विलीनभावमासेवमानः सुखमिति मन्यते । पाक्षिकापाक्षिकस्तु स उच्यते यस्यैकस्मिन् शुक्ले कृष्णे वा पक्षेऽतीव मोहोदयो भवति, द्वितीयपक्षे तु स स्वल्पो भवति ॥ [ भा. ५१६७ ] सोगंधिए य आसित्ते, बद्धिए चिप्पिए तिय । मंतोसहिओवहते, इसिसत्ते देवसत्ते य ॥ वृ- 'सौगन्धिको नाम ' सागारिकस्य गन्धं शुभं मन्यते, स च सागारिकं जिघ्रति मलयित्वा वा हस्तं जिघ्रति । "आसित्तो नाम" स्त्रशरीरासक्तः, स मोहोत्कटतया योनी मेहनमनुप्रविश्य नित्यमास्ते । एते सर्वेऽपि निरुद्धवस्तयः कालान्तरेण नपुंसकतया परिणमन्ति। एतेच पण्डकादयो दशापि प्रव्राजयितुमयोग्याः । तथा 'वर्द्धितो नाम' यस्य बालस्यैव च्छेदं दत्त्वा द्वौ भ्रातरावपनीतौ । 'चिपितस्तु' यस्य जातमात्रस्यैवाङ्गुष्ठ-प्रदेशिनी - मध्यमाभिर्मलयित्वा वृषणद्वयं गालितम् । अपरस्तु मन्त्रेणोपहतो भवति । अन्यः पुनरौषध्या उपहतः । कश्चिद् ऋषिणा शप्तो भवति-मम तपःप्रभावात् पुरुषभावस्ते मा भूयात् । एवमपरो देवेन रुष्टेन शप्तः । एते वर्द्धितादयः षडपि यद्यप्रतिसेवकास्तदा प्रव्राजयितव्याः ॥ अथैतेषां प्रव्राजने प्रायश्चित्तमाह [भा. ५१६८ ] दससु वि मूलाऽऽयरिए, वयमाणस्स वि हवंति चउगुरुगा । सेसाणं छण्हं पी, आयरिए वदंति चउगुरुगा ।। वृ- पण्डकादीन् आसिक्तान्तान् दशापि नपुंसकान् यः प्राजयति तस्याऽऽचार्यस्य दशस्वपि प्रत्येकं मूलम् । तेष्वेव दशसु यो वदति 'प्रवाजयत' तस्याऽपि चतुर्गुरुका भवन्ति । 'शेषाणां' वर्द्धितादीनां षनामपि प्रतिसेवकानां प्रव्राजने आचार्यस्य चतुर्गुरुकम् । यो वदति 'प्रव्राजयत' तस्यापि चतुर्गुरुकम् ॥ अथ शिष्यः प्रश्नयति [ भा. ५१६९ ] थी - पुरिसा जह उदयं, धरेति झाणोववास-नियमेहिं । एवमपुमं वि उदयं, धरिज्ज जति को तहिं दोसो || वृ- यथा स्त्री-पुरुषा ध्यानोपवास-नियमैरुपयुक्ता वेदोदयं धारयन्ति, एवम् 'अपुमान्' नपुंसकोऽपि यदि वेदोदयं धारयेत् ततः 'तत्र' प्रब्राजिते को दोषः स्यात् ? ॥ [ भा. ५१७०] अहवा ततिए दोसो, जायइ इयरेसु किं न सो भवति । एवं खु नत्थि दिक्खा, सवेययाणं न वा तित्थं । - अथवा युष्माकमभिप्रायो भवेत्- 'तृतीये' नपुंसके वेदोदये चारित्रभङ्गलक्षणो दोषो भवेत्, तत उच्यते- 'इतरयोः ' स्त्र-पुरुषयोरपि वेदोदये स दोषः किं न भवति ? । अपि च क्षीणमोहादीन् मुक्त्वा शेषाः सर्वेऽपि संसारस्था जीवाः सवेदकाः, तेषां च दोषदर्शनादेव भवदुक्तनीत्या नास्ति दीक्षा, तदभावाच्च 'न तीर्थं' न तीर्थस्य सन्ततिर्भवति ॥ सूरिराह [भा. ५१७१] थी - पुरिसा पत्तेयं, वसंत दोसरहितेसु ठाणेसु । संवास फास दिट्ठी, इयरे वत्थंवदितो ॥ 20 11 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy