________________
१६०
बृहत्कल्प - छेदसूत्रम् - ३-४/११४
प्रचरति । साधून् वा भिक्षा-विचारादिनिर्गतान् दृष्ट्वा युवानः केलिप्रिया ब्रुवते - अरे अरे भट्टिन् ! गोमिन् ! स एष श्रीमन्दिरकारकः । अन्यः प्राह- नाप्येष स इति । अथवा ते ब्रवीरन्-समागच्छत समागच्छत श्रमणाः ! यूयमपि तादृशं तादृशं कुरुत । एवमुक्तः कश्चिदसहिष्णस्तैर्घोटादिभिः सहासङ्घडं कुर्यात् । घोटाः-चट्टाः, आदिशब्दाद् आरामिक-मिण्ठ- गोपालादिपरिगरहः ॥ उक्तः पण्डकः, अथ क्लीबमाह
[भा. ५१६४ ] कीवस्स गोत्र नामं, कम्मुदय निरोहे जायती ततिओ । तम्मि वि सो चेव गमो, पच्छत्तुरसग्ग अववादे ॥
वृ- क्लीबस्य 'गौणं' गुणनिष्पन्नं नाम, क्लिष्यते इति क्लीवः । किमुक्तं भवति ? -मैथुनाभिप्राये वयस्याङ्गादानं विकारं भजति बीजविन्दूश्च परिगलति स क्लीबः । अयं च माहमोहकर्मोदयेन भवति । यदा च परिगलतस्तस्य निरोधं करोति तदा निरुद्धवस्ति कालान्तरेण तृतीयवेदो जायते । स च चतुर्धा द्दष्टिक्लीवः शब्दक्लीब आदिग्धक्लीबो निमन्त्रणाक्लीबश्चेति । तत्र यस्यानुरागतो विवस्त्राद्यवस्थं विपक्षं पश्यतो मेहनं गलति स दृष्टिक्लीबः । यस्य तु सुरतादिशब्दं शृण्वतः स द्वितीयः । यस्तु विपक्षेणोपगूढो निमन्त्रितो वा व्रतं रक्षितुं न शक्नोति स यथाक्रममादिग्धक्लीबो निमन्त्रणाक्लीबश्चेति । चतुर्विधोऽप्ययमप्रतिसेवमानो निरोधेन नपुंसकतया परिणमति । 'तस्मिन्नपि' क्लीबे 'स एव' प्रायश्चित्तोत्सर्गा ऽपवादेषु गमो भवति यः पण्डक स्योक्तः ॥
गतः क्लीबः, अथ वातिकं व्याचष्टे
[ मा. ५१६५ ] उदएण वादियस्सा, सविकारं जा न तस्स संपत्ती । तच्चनि-असंवुडीए, दिट्ठतो होइ अलभंते ॥
वृ- यद् सनिमित्तेनानिमित्तेन वा मोहोदयेन सागारिकं 'सविकारं' काषायितं भवति तदा न शक्नोति वेदं धारयितुं यावन्न 'तस्य' प्रतिसेवमानस्य सम्प्राप्तिर्भवति, एष वातिक उच्यते । अत्र च तच्चनिकेनासंवृताया अगार्या प्रतिसेवकेन दृष्टान्तो भवति एगो तच्चनिओ जलयरनावारूढो । तत्थ तस्स पुरओ अहाभावेण अगारी असंवुडा निविडा । तस्स य तच्चनियस्स तं दद्धुं सागारियं थद्धं । तेन वेयउक्कडयाए असहमाणेण जनपुरओ पडिगाहिया अगारी । तं च पुरिसा हंतुमारद्धा तहावि तेन न मुक्का । जाहे से बीयनिसग्गो जाओ ताहे मुक्का ।। अयमपि 'अलभमानः' अप्राप्नुवन् निरुद्धवेदो नपुंसकतया परिणमति । उक्तो वातिकः । “एकग्रहणेन तज्जातीयानां सर्वेषामपि गहणम्' इति कृत्वा अपरानपि नपुंसकभेदान् निरूपयति
[भा. ५१६६ ]
पंड वाइए कीवे, कुंभी ईसालुए ति य ।
सउनी तक्कम्मसेवी य, पक्खियापक्खिते ति य ।।
वृ- पण्डक-वातिक-क्लीबा अनन्तरमेव व्याख्याताः । कुम्भी द्विधा जातिकुम्भी वेदकुम्भी च | यस्य सागारिकं भ्रातृद्वयं वा वातदोषेण शूनं महाप्रमाणं भवति स जातिकुम्भी । अयं च प्रव्राजनायां भजनीयः यदि तस्यातिमहाप्रमाणं सागारिकादिकं तदा न प्रव्राज्यते, अथेषच्छूनं ततः प्रव्राज्यते । वेदकुम्भी नाम-यस्योत्कटमोहतया प्रतिसेंवनामलभमानस्य मेहनं वृषणद्वयं वा शूयते स एकान्तेन निषिद्धः, न प्रव्राजनीय इति । 'ईष्यालुर्नाम' यस्य प्रतिसेव्यमानं दृष्ट्वा ईर्ष्यामैथुनाभिलाष उत्पद्यते सोऽपि निरुद्धवेदः कालान्तरेण त्रैराशिको भवति । 'शकुनी' वेदत्कटतया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org