________________
उद्देशकः ४, मूलं-११४, [भा. ५१५७] 'बहिः' विचारभूमौ गतानां चारित्रसम्भेदिनीं विकथां कुर्यात् ॥ इदमेव भावयति[भा.५१५८] छंदिय गहिय गुरूणं, जो न कहे जो व सिट्ठवेहेजा।
परपक्ख सपक्खे वा, जं काहिति सो तमावज्जे ।। वृ-'छन्दितो नाम' तेन पण्डकेन 'मां प्रतिसेवस्व, अहं वा त्वां प्रतिसेवे' इत्येवं यो निमन्त्रितो यश्च साधुस्तेन गृहीतः, एतौ द्वावपि यदि गुरूणां न कथयतः 'शिष्टे वा कथिते यदि गुरव उपेक्षा कुर्वन्ति तदा सर्वेषामपि चतुर्गुरु । यत्र परपक्षे स्वपक्षेवाप्रतिसेवनांकुर्वन्स पण्डक उड्डाहादिकं करिष्यति तत् ते 'आपद्यन्ते' प्राप्नुवन्ति ।। "चरित्तसंभेयणी विकह" ति पदं व्याचष्टे[भा.५१५९] इत्यिकहाउ कहित्ता, तासि अवनं पुनो पगासेति।
समलं सावि अगंधिं, खेतोय न एयरे ताई। वृ-स पण्डकः स्त्रीकथाः कथयति, यथा ताः परिभुज्यन्ते यद् वा सुखं तत्र भवति । एवं कथयित्वा पनस्तासामवर्णं प्रकाशयति, यथा-समलं श्रावि 'अगन्धि च' दुर्गन्धं तदीयं लिङगम्, तासुचपरिभुज्यमनासु पुरुषस्य खेदोजायते, “एतरे"त्तिअस्माकं पुनरास्यके 'तानि' दूषणानि न भवन्ति ॥ स च पण्डक एवंविधै; कुचेष्टितैर्लक्षयितव्यः{भा.५१६०] सागारियं निरिक्खति, तं च मलेऊण जिंघई हत्यं ।
पुच्छति सेविमसेवी, अतिव सुहं अहं चिय दुहा वि।। वृ-सागारिकमात्मनः परस्य वा सत्कमभीक्ष्णं निरीक्षते । 'तच' सागारिकं हस्तेन मलयित्वा तं हस्तं जिघ्रति । भुक्तभोगिनं च साधुं रहसि पृच्छति-नपुंसकस्य यूयं गृहवासे सेविनो वा न वा?, तस्मिन् सेव्यमाने अतीव सुखमुत्पद्यते । ततस्तस्य साधोराशयं ज्ञात्वा भणति-अहमेव नपुंसकः 'द्विधाऽपि' आस्यक-पोसकाभ्यां प्रतिसेवनीयः । एवं तं पण्डकं ज्ञात्व गुरूणामालोचनीयमिति प्रक्रमः॥ [भा.५१६१] सो समणसुविहितेसुं, पवियारं कत्थई अलभमाणो।
तो सेविउमारद्धो, गिहिणो तह अन्नतित्थी य॥ वृ- ‘सः' पण्डकः ‘श्रमणसुविहितेषु' स्वाध्याय-ध्याननिरतेषु साधुषु मैथुनप्रविचारं कुत्राप्यलभमानस्ततो गृहिणस्तथाऽन्यतीर्थिनश्च प्रतिसेवितुमारब्धः ।। तत्रैते दोषा भवेयुः[भा.५१६२] अयसो य अकित्तीया, तम्मूलागं तहिं पवयणस्स ।
तेसि पि होइ संका, सव्वे एयारिसा मन्ने । वृ"तहिं"ति 'तत्र' विवक्षिते ग्रामादौ 'तन्मूलं तद्धेतुकं प्रवचनस्यायशश्चाकीर्तिश्च भवति। तत्रायशोनाम-छायाघात, अकीर्ति-अव्णवादभाषणम्।येच भट्ट-चट्ट नर्तकप्रभृतयस्तंप्रतिसेवन्ते तेषामपि शङ्का भवति-सर्वेऽप्यमीश्रमणा 'ईशाएव' त्रैराशिका भविष्यन्ति। 'मन्ये' इति निपातो वितर्कार्थः ॥अयशःपदमकीर्तिपदं च व्याचष्टे[मा.५१६३] एरिससेवी सव्वे, वि, एरिसा एरिसो व पासंडो।
सो एसो न वि अन्नो, असंखडं घोडमाईहि ॥ वृ-प्रभूतजनमीलके लोक एवं ब्रूयात्-ईशं-नपुंसकंसेवितुंशीलं येषांतेईशसेविनः, सर्वेऽप्येते 'ईशाः' त्रैराशिकाः, 'ईशो वा' दम्मबहुल एष पाखण्डः । एवमयशःकीर्तिशब्दः सर्वत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org