________________
१६२
बृहत्कल्प-छेदसूत्रम् -३-४/११४ वृ-स्त्री प्रव्राजिता स्त्रीणांमध्ये निवसति, पुरुषः प्रव्राजितः पुरुषमध्ये वसति, एवं ती प्रत्येकं दोषरहितेषु स्थानेषु वसतः । इतरस्तु-पण्डको यदि स्त्रीणां मध्ये वसति तदा संवासे स्पर्शतो दृष्टितश्च दोषा भवन्ति, एवं पुरुषेष्वपि संवसतस्तस्य दोषा भवन्ति । वत्सा-ऽऽम्रष्टान्तश्चात्र भवति-यथा वत्सो मातरं दृष्ट्वा स्तन्यमभिलषति, माताऽपि पुत्रं दृष्ट्वा प्रस्नौति; आनं वा खाद्यमानमखाद्यमानं वा दृष्ट्वा यथा मुखं क्लियति; एवं तस्य संवासादिना वेदोदयेनाभिलाष उत्पद्यते।भुक्ता-ऽभुक्तभोगिनः साधवोवातमभिलषेयुः। यतएवमतः पण्डको नदीक्षणीयः। द्वितीयपदे एतैः कारणैः प्रव्राजयेऽपि[मा.५१७२] असिवे ओमोयरिए, रायड्ढे भए व आगाटे ।
गेलन उत्तिमढे, नाणे तहदसण चरिते ॥ इस प्रव्राजितः सन् अशिवमुपशमयिष्यति, अशिवगृहीतानां वा प्रतितर्पणं करिष्यति । एवमवमौदर्ये राजद्विष्टे बोधिकादिभये वा आगाढे ग्लानत्वे उत्तमार्थे वा ज्ञाने दर्शने चारित्रे वा साहायकं करिष्यति । एतैः कारणैः पण्डकं प्रव्राजयेत् ।। अथैनामेव गाथां व्याख्याति[भा.५१७३] राय(ट्ठ-भएसुंताणट्ठ निवस्स चेव गमनट्ठा।
विजो वसयंतस्सव, तप्पिस्सति वा गिलाणस्स ।। वृ-राजद्विष्टे बोधिकादिभयेच त्राणार्थनृपस्य वाअभिगमनार्थम्।किमुक्तंभवति?-राजद्विष्टे समापतिते देशान्तरं गच्छतां तन्निस्तारणक्षम भक्त-पानाधुपष्टम्भं करिष्यति, राजवल्लभो वा स पण्डकस्ततो राजानमनकूलयिष्यति, बोधिकादिभयेवासबलवान् गच्छस्य परित्राणंविधास्यति। ग्लानत्वद्वारे-सपण्डकः स्वयमेव वैद्यो भवेत्ततोग्लानस्य चिकित्सां करिष्यति, यद्वा सः तस्य' वैद्यस्यग्लानस्यवावेतन-भेषजादिना 'प्रतितर्पिष्यति उपकरिष्यति।वाशब्दाद्उत्तमार्थप्रतिपत्रस्य वा ममासहायस्य साहाय्यं करिष्यति, स्वयमेव वाऽसावुत्तमाय प्रतिपस्त्यते ।। [भा.५१७४] गुरुणो व अप्पणो वा, नाणादी गिण्हमाण तप्पिहिति।
चरणे देसावक्कमि, तप्पे ओमा-ऽसिवेहिं वा॥ वृ- तथा गुरोरात्मनो वा ज्ञानम् आदिशब्दाद् दर्शनप्रभावकानि शास्त्रणि गृहृतोऽसौ भक्तपानादिभिर्वस्त्रादिभिश्चोपकरिष्यति।चरणे यत्रचारित्रंपालयितुंन शक्यतेततोदेशादपक्रमणं कुर्वतां मार्गग्रामादिषुस्वजनादिबलाद्भक्त-पानादिभिस्तस्करादिरक्षणतश्चोपकरिष्यति।अवमाऽशिवयोर्वा प्रतितर्पिष्यति । अत्र चानानुपूर्व्या अपि वस्तुत्वख्यापनार्थ अवमा-ऽशिवद्वारयोः पर्यन्ते व्याख्यानम् ॥ [भा.५१७५] एएहि कारणेहिं, आगादेहिं तु जो उपव्वावे।
__ पंडाईसोलसगं, कए उ को विगिचणया ।। वृ- एतैः कारणैरागाद्वैः समुपस्थितैर्य पण्डकादिषोडशकस्यान्यतरं नपुंसकं प्रव्राजयति तेनाऽऽचार्येण 'कृते' समापिते कार्ये तस्य नपुंसकस्य 'विवेचनं' परिष्ठापनं कर्तव्यम् ।। तत्र प्रव्राजनायां तावद् विधिमाह[भा.५१७६] दुविहो जानमजानी, अजानगं पनवेंति उ इमेहिं ।
जनपच्चयट्ठयाए, नजंतमणजमाणे वि॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org