SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ११८ बृहत्कल्प-छेदसूत्रम् -१ जयणाए' इति 'पुरुषालोके' पुरुषालोकवति गन्तव्यम्, तत्र यतनया भवति कर्त्तव्यमाचमनादि। तामेव यतनामाह- "मत्तग अपमजण डगल कुरुग" त्ति प्रत्येकं मात्रकं ग्रहीतव्यम्, प्रत्येकं च प्रचुरं द्रवम्, डगलकानां चाप्रमार्जनम् न तानि डगलकानि प्रमार्ण्यन्ते हीलादोषसम्भवात्, कुरुकुचाश्चाचमनान्तरं कर्तव्या । "तिविहे दुविहमेओ' इति, त्रिविधे प्रत्येकं द्विविधो भेदो द्रष्टव्यः । इयमत्र भावना-त्रिविधः परपक्षः, तद्यथा- पुरुषः स्त्री नपुंसकः । एकैकः पुनर्द्विधाशौचवादी अशौचवादी च, अथवाऽन्यथा प्रत्येकं द्विभेदत्ता- श्रीवकोऽश्रावकश्च । अथवा त्रिविधो भेदो नाम स्थविरो मध्यमस्तरुणञ्च, यदि वा प्राकृतः कौटुम्बिको दण्डिकश्च । एते च त्रयो भेदा यथा पुरुषस्य तथा स्त्री- नपुंसकयोरपि द्रष्टव्याः । तेषु यतनया गन्तव्यम् ॥ कथम् ? इत्यत आह[मा. ४६४] तेन परं पुरिसाणं, असोयवादीण वन आवायं । इत्थि - नपुंसालोए, परम्मुहो कुरुकुया सा यथ ॥ वृ- 'ततः' पुरुषालोकवतः स्थण्डिलात् 'परतः' पुरुषालोकवतः स्थण्डिलस्यासति पुरुषाणामशौचवादिनाम् 'आपातम् ' आपातवत् स्थण्डिलंव्रजेत् । तत्र च यतना प्रागुक्ता द्रष्टव्या । तस्याप्यसम्भवे शौचवादिनामप्यापातवद् गन्तव्यम् । तस्यासम्भवे स्त्र्यालोके नपुंसकालोके वा गन्तव्यम् । इयमत्र भावना- प्रथमतोऽशौचवादिनीनां स्त्रीणामालोके गन्तव्यम्, तत्र गतः सन् तासां पराङ्मुख उपविशेत्, यतना च सा कुरुकुचादिका कर्त्तव्या । तस्याप्यसम्भवे शौचवादिनीनामप्यालोके गन्तव्यम् । तदभावे नपुंसकानामशौचवादिनामालोके । तस्यासम्भवे शौचवादिनामप्यालोके । यतना सर्वत्र सैव ॥ [भा. ४६५ ] तेन परं आवायं, पुरिसेयर - इत्थियाण तिरियाणं । तत्थ वि य परिहरेज्जा, दुगुछिए दित्तऽदित्ते य ॥ वृ- 'ततः परं ' शौचवादिनामपि नपुंसकानामालोकस्यासम्भवे 'पुरुषेतरस्त्रीणां' पुरुषनपुंसस्त्रीणां तिरश्चामापाते व्रजेत्, तत्रापि द्दप्तानद्दप्तांश्च जुगुप्सितान् परिहरेत्, अपरिहारे यतनां कुर्यात् । अयमत्र भावार्थ-शौचवादिनां नपुंसकानामालोकासम्भवे तिर्यक्पुरुषाणामदुष्टानामापाते व्रजेत्, तस्यासम्भवे दुष्टानामापाते व्रजेत्, तत्रेयं यतना- दण्ड-हस्ता वारंवारेण व्युत्सृजन्ति । उक्तश्च तेन परं पुरिसाणं, असोयवादीण वच्च आवायं । पच्छित्थि - नपुंसाणं, आलोय परम्मुहा कुरुया ॥ पच्छा तिरिपुरिसाणमदुङ-दुट्ठाण वच्च आवायं । दुट्ठेसु दंड- हत्था, वारंवारेण वोसिरणं ॥ तस्याप्यभावे तिर्यकस्त्रीणामजुगुप्सितानामापातं व्रजेत् । तदसम्भवे जुगुप्सितानामप्यापातम् । तदभावे तिर्यग्नपुंसकानामजुगुप्सितानामापातम् । तदभावे जुगुप्सितानामप्यापातम्, केवलंतत्र तथोपविशन्ति यथा परस्परं सर्वे सर्वं प्रेक्षन्ते ॥ [ भा. ४६६ ] तत्तो इत्थि - नपुंसा, तिविहा तत्य वि असोयवाईणं । तहियं च सद्दकरणं, आउलगमणं कुरुकुया य ॥ कृ- ततः स्त्री - नपुंसकानामापाते गन्तव्यम् । ते च स्त्री-नपुंसकास्त्रीविधाः, तद्यथा- प्राकृताः For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy