________________
१५५
उद्देशकः ४, मूलं-११४, [भा. ५१३८) पण्डकादिद्धिविधेऽपि द्रव्य-भावलिङ्गे यो न स्थाप्यते स प्रतिपाद्यते । एष 'योगः सम्बन्धः ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-त्रयोनो कल्पन्ते प्रव्राजयितुम् तद्यथा- 'पण्डकः' नपुंसकः। 'वातिको नाम' यदा स्वनिमित्ततोऽन्यथा वा मेहनं काषायितं भवति तदान शक्नोति वेदंधारयितुं यावन्न प्रतिसेवा कृता । क्लीबः' असमर्थः, स च दृषिट्क्लीबादिलक्षणः । एष सूत्रार्थः । अथ भाष्यविस्तरः[भा.५१३९] वीसंतुअपव्वज्जा, निजुत्तीए उ बनिया पुवि। .
इह पुन तिहि अधिकारो, पंडे कीवे यवाईया।। पृ-'विंशतिः' बाल-वृद्धादिभेदाद् विंशतिसङ्ख्याः अप्रव्राज्याः 'पूर्व' नामनिष्पन्ने निक्षेपे 'नियुक्तौ' पञ्चकल्पे सप्रपञ्चं वर्णिताः । इह पुनस्त्रभिरेवाधिकारः-पण्डकेन क्लीबेन वातिकेन चेति, गुरुतरदोषदुष्टा अमी इति कृत्वा ।। अथ प्रव्राजनाविधिमेव तावदाह[भा.५१४०] गीयत्थे पव्वावण, गीयत्ये अपुच्छिऊण चउगुरुगा।
तम्हा गीयत्थरस उ, कप्पइ पव्वावणा पुच्छा। वृ- गीतार्थेनैव प्रव्रजना कर्तव्या नागीतार्थेन यद्यगीतार्थ प्रव्राजयति तदा चतुर्गुरुकम् । गीतार्थोऽपियदि अपृष्ट्वा' पृच्छामन्तरेणप्रव्राजयतितदातस्यापिचतुर्गुरुकाः। तस्माद्गीतार्थस्य पृच्छाशुद्धं कृत्वा प्रव्रजना कर्तुं कल्पते । पृच्छाविधिश्चायतम्-कोऽसि त्वम् ? को वा ते निर्वेदो येन प्रव्रजसि? ।। एवं पृष्टे सति[भा.५१४१] सयमेव कोति साहति, मित्तेहि व पुच्छिओ उवाएणं।
अहवा विलक्खणेहिं, इमेहि नाउं परिहरेज्जा ।। वृ-स्वयमेव कोऽपि' पण्डकः कथयति, यथा-सद्दशेमनुष्यत्वेममेद्दशः त्रैराशिकवेदः समुदीर्ण इति । यद्वा मित्रैस्तस्य निर्वेदकारणमभिधीयेत । प्रव्राजकेन वा स एवोपायपूर्वं पृष्टः कथयेत् । अथवा 'लक्षणैः' महिलास्वभावादिभि एभि' वक्ष्यमाणैत्विा तं परिहरेत् ।। तत्र पृच्छां तावद् भावयति[भा.५१४२] नजंतमनजंते, निव्वेयमसड्डे पढमयो पुच्छे।
अनाओ पुन भन्नइ, पंडाइन कप्पई अम्हं।। वृ- यः प्रव्रजितुमुपस्थितः स ज्ञायमानो वा स्यादज्ञायमानो वा । ज्ञायमानो नामअमुकोऽमुकपुत्रोऽयम्, तद्विपरीतोऽज्ञायमानः । तत्र यो ज्ञायमानः स यदि श्राद्धः श्रावको न भवति ततः प्रथमतस्तं निर्वे पृच्छेत् । यः पुनरज्ञातः स समासेन भण्यते-न कल्पतेऽस्माकं पण्डकादि प्रव्राजयितुम् ॥ स च यदि पण्डकस्तत एवं चिन्तयति[भा.५१४३] नाओ भित्ति पणासइ, निव्वेयं पुच्छिया व से मित्ता।
साहति एस पंडो, सयं व पंडोत्ति निव्वेयं ।। वृ-ज्ञातोऽस्यमीभिरितिमत्वा प्रणश्यति।अथवायानि "से" तस्य मित्रामितानि पृच्छयन्तेएष तरुण ईश्वरो नीरोगश्च विद्यते ततः केन निवेदन प्रव्रजति? एवं पृष्टानि तानि ब्रुवते-एष पण्डक इति । स्वयं वा सः ‘पण्डकोऽस्यहम्' इति निर्वेदं कथयति ॥ अथ पूर्वोल्लिङ्गितानि पण्डकलक्षणानि निरूपयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org