________________
१५६
बृहत्कल्प-छेदसूत्रम् -३-४/११४ [भा.५१४] महिलासहावो सर-वन्नभेओ, मेण्डं महंतं मउता य वाया।
ससद्दगंमुत्तमफेणगंच, एयाणि च प्पंडगलक्खणाणि ।। वृ-पण्डको वक्ष्यमाणनीत्या महिलास्वभावो भवति । स्वर-वर्णभेदश्चतस्य भवति । स्वरभेदो नाम-पुरुषस्य स्त्रियाश्च स्वराद् विलक्षणस्तस्य स्वरो भवति । वर्णग्रहणेन गन्ध-रस-स्पर्शा अपि गृह्यन्ते, ततो वर्णभेदो नाम-वर्णादयः तस्य स्त्र-पुरुषविलक्षणा अन्याशा भवन्ति । 'मेढम्' अङ्गादानं तच्च ‘महत्' प्रलम्बं भवति।वाक्च मूदुका' कोमला भवति ।मूत्रं सशब्दमफेनकंच भवति । एतानि षट् पण्डकलक्षणानि मन्तव्यानि । “महिलास्वभावः' इति पदं व्याचष्टे[भा.५१४५] गती भवे पञ्चवलोइयं च, मिदुत्तया सीयलगत्तया य।
धुवं भवेदोक्खरनामधेजो, सकारपच्चंतरिओ ढकारो॥ वृ-गति स्त्रीव मन्दा सविनमा च भवति । पार्वतः पृष्ठतश्च प्रत्यवलोकितं कुर्वन् गच्छति। शरीरस्य च त्वम् मृद्वी भवति । 'शीतलगात्रताच' अङ्गोपाङ्गानां शीतलः स्पर्शो भवति । एतानि स्त्रिया इव लक्षणानि दृष्ट्वा मन्तव्यम्-'ध्रुवं' निश्चितमयं व्यक्षरनामधेयो भवेत् । तच्चाक्षरद्वयं सकारप्रत्यन्तरितो ढकार इति प्रतिपत्तव्यम्, प्राकृतशैल्या 'संढः' संस्कृते तु षण्डः' इति भावः। किञ्च[भा.५१४६] गइ भास वत्थ हत्थे, कडि पट्ठिभुमा य केसऽलंकारे।
पच्छन्न मन्जनानि य, पच्छत्रयरंच नीहारो॥ वृ-“गई"त्ति यथा स्त्री तथा शनैः सविकारं गच्छति । स्त्रीव भाषांभाषते। तथा वस्त्र यथा स्त्री तथा परिधत्ते, शिरोवा वस्त्रेण स्थगयति । “हत्थे"त्ति हस्तौ कूपराधो विन्यस्य कपोलयोर्वा निवेश्य जल्पति । अभीक्ष्णं च कटीभङ्गकरोति, पृष्ठं वा वस्त्रण सुस्थगितं करोत । भाषमाणश्च सविभ्रम भ्रयुगलमुत्क्षिपति, धू-रोमाणि वास्त्रसशानि । स्त्रवत् केशानामोटयति । महिलानामलङ्कारान् पिनह्यति । प्रच्छन्ने च प्रदेशे 'मज्जनानि' स्नानादीनि करोति । प्रच्छन्नतरंच 'नीहारः' उच्चार-प्रश्रवणात्मकस्तेन क्रियते ॥ [भा.५१७] पुरिसेसुभीरु महिलासुसंकरो पमयकम्मकरणो य।
तिविहम्मि वि वेदम्मि, तियभंगो होइ कायव्वो ॥ वृ- 'पुरुषेषु' पुरुषमध्ये 'भीरु' सभयः शङ्कमान आस्ते । महिलासु 'सङ्करः' सम्मिलनशीलो निशङ्को निर्भयस्तिष्ठति प्रमदाः-स्त्रियः तासांयत् कर्म-ण्डन-दलन-पचन-परिवेषणोदकाहरणप्रमार्जनादिकं तत् स्वयमेव करोतिति प्रमदाकर्मकरणः, कृत् "बहुलम्" इति वचनात् कर्तरि अनट्प्रत्ययः। एवमादिकं बाह्यलक्षणंपण्डकस्यमन्तव्यम्। आभ्यन्तरंतुलक्षणंतस्यतृतीयवेदोदयः। स च नपुंसकवेदस्त्रविधेऽपि वेदे भवति, यत आह-त्रिविधेऽपि वेदे प्रत्येकं त्रिकभङ्गः कर्तव्यो भवति । कथम् ? इति चेद् उच्यते-पुरुषः पुरुषवेदं वेदयति, पुरुषः स्त्रीवेदं वेदयति, पुरुषो नपुंसकवेदं वेदयति, एवं स्त्री-नपुंसकयोरपि वेदत्रयोदयो मन्तव्यः ।। __ आह यद्येवं ततो यदुच्यते 'स्त्र-पुरुष-नपुंसकवेदा यथाक्रमं फुम्फका-दवाग्नि-महानगरदाहसमानाः तदेतद् व्या-हन्यते ? अत्रोच्यते
[भा.५१४८] उस्सग्गलक्खणं खलु, फुफग तह वनदवे नगरदाहे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org