________________
१५४
बृहत्कल्प-छेदसूत्रम् - ३-४/११३
परगणे न होंति एए, आणाथिरया भयं चेव ॥
वृ-गाथाषट्कं यथा पाराञ्चिके व्याख्यातं तथैव मन्तव्यम् । नवरं “दव्वाइ सुभे वियडण "त्ति द्रव्य-क्षेत्र -काल- भावेषु 'शुभेषु' प्रशस्तेषु द्रव्यतो वटव- क्षादौ क्षीरवृक्षे, क्षेत्रत इक्षुक्षेत्रादी, कालतः पूर्वाह्णे, भावतः प्रशस्तेषु चन्द्र-तारादिबलेषुः गुरूणां 'विकटनाम्' आलोचनां ददाति । तत आचार्या भणन्ति - "एयरस साहुस्स अणवट्ठष्पतवस्स निरुवसग्गनिमित्तं ठामि काउसग्गं ति अन्नत्थूससिएणं इत्यादि वोसिरामि" इति यावत् चतुर्विंशतिस्तवमुच्चार्याऽऽचार्या भणन्ति एष तपः प्रतिपद्यते ततो न भवद्भिः सार्धमा लापादिकं विधास्यति, यूयमप्येतेन सार्धमालापादिकं परिहरध्वमिति । एवं तपः प्रतिपद्य यदसौ विदघाति तद् उपदर्शयति
[भा. ५१३५]
सेहाई वंदतो, पग्गहियमहातवो जिनो चेव । विहरइ बारस वासे, अणवट्ठष्पो गणे चैव ॥
वृ- शैक्षादीनपि वन्दमानः 'जिन इव' जिनकल्पिक इव च प्रगृहीतमहातपाः, 'पारण के निर्लेपं भक्त- पानं ग्रहीतव्यम्' इत्याद्यनेकाभिग्रहयुक्तं चतुर्थ-षष्ठादिकं विपुलं परिहारतपः कुर्वन्निति भावः । एवंविधोऽनवस्थाप्यः 'गण एव' गच्छान्तर्गत एवोत्कर्षतो द्वादश वर्षाणि विहरति ॥ इदमेव भावयति[मा. ५१३६]
अणव वहमाणो, वंदइ सो सेहमादिणो सव्वे । संवासो से कप्पइ सेसा उ पया न कप्पंति ॥
वृ- परगणेऽनवस्थाप्यं वहमानः 'सः' उपाध्यायादि शैक्षादीनपि सर्वान् साधून् वन्दते । तस्य च गच्छेन सार्धमेकत्रोपाश्रये एकस्मिन् पार्श्वे शेषसाधुजनापरिभोग्ये प्रदेशे संवासः कर्तुं कल्पते। शेषाणि तु पदानि न कल्पन्ते । कानि पुनस्तानि ? इत्याह
[मा. ५१३७]
आलावण पडिपुच्छन, परियहुट्ठाण वंदनग मत्ते । पडिलेहण संघाडग, भत्तदान संभुंजणा चेव ॥
वृ-आलपनं स साधुभिः सह न करोति तेऽपि तं नाऽऽलपन्ति । सूत्रार्थयोः शरीरोदन्तस्य वा प्रतिप्रच्छनं स तेषां न करोति तेऽपि तस्य न कुर्वन्ति । एवं 'परिवर्तनम्' एकतो गुणनम् 'उत्थानम्' अभ्युत्थानं ते अपि न कुर्वन्ति । वन्दनकं तु सर्वेषामपि स करोति तस्य पुनः साधवो न कुर्वन्ति । "मत्ते"त्ति खेलमात्रादिप्रत्यर्पणं तस्य न क्रियते सोऽपि तेषां न करोति । उपकरणं परस्परं न प्रत्युपेक्षन्ते । सङ्घाटकेन परस्परं न भवन्ति । भक्तदानमन्योऽन्यं न कुर्वन्ति । एकत्र मण्डल्यां न सम्भुञ्जते । यच्चाऽन्यत् किञ्चित् करणीयं तत् तेन सार्धं न कुर्वन्ति ॥ "संघो न लभइ कर्ज-" इत्यादिगाथाः पाञ्चिकवद् द्रष्टव्याः ॥
मू. (११४) तो नो कप्पंति पव्वावित्तए, तं जहा पंडए वाईए कीवे ॥
वृ- अस्य सम्बन्धमाह - [ भा. ५१३८]
न विजई वएसुं, सज्जं एएण होति अणवडो ।
दुविहम्मि वि न ठविज्जइ, लिंगे अयमन्न जोगो उ ॥
वृ- येन तद्दोषोपरतोऽपि 'सद्यः' तत्क्षणादेवानाचरिततपोविशेषो भावलिङ्गरूपेषु महाव्रतेषु न स्थाप्यते एतेन कारणेनानवस्थाप्य इत्युच्यते, स चानन्तरसूत्रे भणितः । अयं पुनः 'अन्यः '
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org