SearchBrowseAboutContactDonate
Page Preview
Page 1204
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ४, मूलं-११२, [भा. ५१२५] १५३ आहारोपधि-सचित्तस्तैन्यरूपेषु यथाक्रमं त्रिविधं' लघुमास-चतुर्लघु-चतुर्गुरुलक्षणं प्रायश्चित्तं प्राप्नोति । एतेष्वेव च' आहारादिषु पदेषु गणिनः-उपाध्यायस्याऽऽचार्यस्य च 'नवमम्' अनवस्थाप्यं भवति॥अत्र परः प्राह-ननुसूत्रे सामान्येनानवस्थाप्यएव भणितः नपुनर्लघुपासादिकं त्रिविधं प्रायश्चित्तम् तत् कथमिदमर्थेनाभिधीयते ? उच्यते-आर्हतानामेकान्तवादः क्वापि न भवति । तथा चाह[भा.५१२६] तुल्लम्मि वि अवराहे, तुल्लमतुल्लं व दिज्जए दोण्हं । पारंचिके वि नवमं, गणिस्स गुरुणो उतं चैव ॥ वृ-तुल्यः-सशोऽपराधः द्वाभ्यामपि-आचार्योपाध्यायाभ्यां सेवितस्तत्रद्वयोरपि तुल्यमतुल्यं वा प्रायश्चित्तं दीयते । तत्र तुल्यदानं प्रतीतमेव, अतुल्यदानं पुनरिदम्-'पाराञ्चिकेऽपि दीयते न पाराञ्चिकम्, 'गुरोः' आचार्यस्य पुनः ‘तदेव' पाराञ्चिकं दीयते । ततो यद्यपि सूत्रे सामान्येनाऽनवस्थाप्यमुक्तं तथापि तत् पुरुषविशेषापेक्षं प्रतिपत्तव्यम्, यद्वाऽभीक्ष्णसेवानिष्पन्नम् ।। तथा चाह[भा.५१२७] अहवा अभिक्खसेवी, अनुवरमं पावई गणी नवमं । पावंति मूलमेव उ, अभिक्खपडिसेविणो सेसा ॥ वृ-अथवा साधर्मिकस्तैन्यादेः 'अभीक्ष्णसेवी पुनः पुनः प्रतिसेवां यः करोति सततः स्थानाद् 'अनुपरमन्' अनिवर्तमानः 'गणी' उपाध्यायो नवमंप्राप्नोति। शेषास्तु येउपाध्यायत्वमाचार्यत्वं वा न प्राप्तातेऽभीक्ष्णप्रतिसेविनोऽपि मूलमेव प्राप्नुवन्ति नानवस्थाप्यम् ॥ [मा.५१२८] अस्थादानो ततिओ, अणवट्ठो खेत्तओ समक्खाओ। गच्छे चेव वसंता, निजूहिजंति सेसा उ॥ वृ. अष्टाङ्गनिमित्तप्रयोगेण अर्थ-द्रव्यमादत्ते इति अर्थादानः, ततोऽर्थादानाख्यो यस्तृतीयोऽनवस्थाप्यः स क्षेत्रतः समाख्यातः, तत्र क्षेत्रे नोपस्थाप्यत इत्यर्थः । शेषास्तु' हस्तातालकारिप्रभृतयो गच्छ एव वसन्तो निर्गृह्यन्ते, आलापनादिभि पदैः बहिः क्रियन्ते इत्यर्थः। अथ की शगुणयुक्तस्यानवस्थाप्यं दीयते? इत्याह[भा.५१२९] संघयण-विरिय-आगम-सुत्तत्थविहीय जो समग्गो तु। तवसी निग्गहजुत्तो, पवयणसारे अभिगयत्थो। [भा.५१३०] तिलतुसतिभागमेत्तो, वि जस्स असुभो न विज्जती भावो । नितहणाए अरिहो, सेसे निज्जूहणा नत्थि॥ [भा.५१३१] एयगुणसंपउत्तो, अणवठ्ठप्पो य होति नायव्यो । एयगुणविप्पमुक्के, तारियम्मी भवे मूलं ॥ [भा.५१३२] आसायणा जहन्ने, छम्मासुक्कोस बारस उ मासा। वासं बारस वासे, पडिसेवओ कारणे भइओ।। [भा.५१३३] इत्तिरियं निक्खेवं, काउं चऽन्नं गणं गमित्ताणं । दव्वाइ सुहे वियडण, निरुवस्सग्गट्ट उस्सग्गो।। [भा.५१३४] अप्पच्चय निब्भयया, आणाभंगो अजंतणा सगणे। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy