________________
१५२
[ भा. ५१२० ] तइयस्स दोन्त्रि मोत्तुं, दव्वे भावे य सेस भयणा उ । पडिसिद्ध लिंगकरणं, कारणे अन्नत्थ तत्येव ॥
बृहत्कल्प - छेदसूत्रम् -३-४/११३
I
वृ- इह 'साधम्मियेतणियं करेमाणे" इत्यादिसूत्रक्रमप्रामाण्येन हत्थायालस्तृतीय उच्यते, स त्रिधा - हस्तातालो हस्तालम्बोऽर्थादानं चेति । तत्राऽऽद्ये द्वे पदे मुक्त्वा यत् शेषम् अर्थादानाख्यं तृतीयं पदं तत्र द्रव्यतो भावतश्च लिङ्गप्रदाने भजना भवति । कथम् ? इत्याह- "पडिसिद्ध” इत्यादि, उत्तरत्र " कारणे" इत्यभिधास्यमानत्वाद् इह निष्कारणमिति गम्यते, ततो निष्कारणे प्रतिषिद्धमर्थादानकारिणो 'लिङ्गकरणं' द्रव्यलिङ्गस्य भावलिङ्गस्य वा तत्र क्षेत्रे प्रदानम् । 'कारणे तु' भक्तप्रत्याख्यानप्रतिपत्तिलक्षणेऽन्यत्र वा तत्र वाऽनुज्ञातमेव ॥
एषा पुरातना गाथा, अत एनां विवरीषुराह[ भा. ५१२१]
हत्थातालो ततिओ, तस्स उ दो आइमे पदे मोत्तुं । अत्यायाणे लिंगं, न दिंति तत्येव विसयम्मि ।।
वृ- हस्तातालः सूत्रक्रमप्रामाण्येन तृतीयः, तस्य द्वे आदिमे हस्ताताल हस्तालम्बलक्षणे पदे मुक्त्वा यद् अर्थादानाख्यं पदं तत् वर्तमानस्य तत्रैव 'विषये' देशे लिङ्गं न ददति ॥
सच अर्थादानकारी गृहिलिङ्गीवा स्यादवसत्रलिङ्गी वा । तत्र
[ भा. ५१२२] गिहिलिंगस्स उ दोन्नि वि, ओसने न दिंति भावलिंगं तु । दिति दो वि लिंगा, उवट्ठिए उत्तिमट्ठस्स ॥
वृ-यो गृहिलिङ्ग प्रव्रज्यार्थमभ्युत्तिष्ठते तस्य 'द्वे अपि' द्रव्य-भावलिङ्गे तस्मिन् देशे न दीयेते । यः पुनरवसन्त्रस्तस्य द्रव्यलिङ्गं विद्यत एव परं भावलिङ्गं तस्य तत्रैव न ददति । यदा पुनरसावुत्तमार्थप्रतिपत्त्यर्थमुपतिष्ठते तदा तस्मिन्नपि देशे द्वयोरपि गृहस्था ऽवसन्नयोर्द्वे अपि लिङ्गे दीयेते । अथवेदं कारणम्
[भा. ५१२३] ओमा-ऽसिबमाईहि व, तप्पिस्सति तेन तस्स तत्थेव । नय असहाओ मुच्चइ, पुट्ठो य भणिज्ज वीसरियं ॥
- अवमाऽशिव-राजद्विष्टादिषु वा समुपस्थितेषु गच्छस्य 'प्रतितर्पिष्यति' उपग्रहं करिष्यति तेन कारणेन तत्रैव क्षेत्रे तस्य लिङ्गं प्रयच्छन्ति । तत्र चेयं यतना-"न य असहाओ" इत्यादि, स तत्रारोपितमहाव्रतः सन् 'असहायः' एकाकी न मुच्यते, लोकेन च निमित्तं पृष्टो भणति - विस्मृतं मम साम्प्रतं तद् निमित्तमिति । अथ साधर्मिकादिस्तैन्येषु प्रायश्चित्तमुपदर्शयति
[ मा. ५१२४ ] साहम्मिय -ऽन्नधन्मियतेत्रेसु उ तत्थ होतिमा भयणा । लहुगो लहुगा गुरुगा, अणवटुप्पो व आएसा ।।
वृ- साधर्मिकस्तैन्याऽन्यधार्मिकस्तैन्ययोस्तत्र तावदियं 'भजना' प्रायश्चित्तरचना भवतिआहारं स्तेनयतो लघुमासः, उपधिं स्तेनयतश्चतुर्लघु, सचित्तं स्तेनयतश्चतुर्गुरवः । आदेशेन वाऽनवस्थाप्यम् ॥
[मा. ५१२५ ] अहवा अनुवज्झाओ, एएस पएस पावती तिविहं ।
तेसुं चैव पएसुं, गणि-आयरियाण नवमं तु ॥
वृ- अथवा 'अनुपाध्यायः' य उपाध्यायो न भवति किन्तु सामान्यभिक्षु सः 'एतेषु पदेषु'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org