SearchBrowseAboutContactDonate
Page Preview
Page 1200
Loading...
Download File
Download File
Page Text
________________ उद्देशकः४, मूलं-११२, [भा. ५१०७] १४९ [भा.५१०७] विनयस्स उगाहणया, कन्नामोड-खड्डुगा-चवेडाहिं। सावेक्ख हत्थतालं, दलाति मम्माणि फेडिंतो।। वृ. इह विनयशब्दः शिक्षायामपि वर्तते, यत उक्तम्-"विनयः शिक्षा प्रणत्योः" इति । ततोऽयमर्थः-'विनयस्य' ग्रहणशिक्षायाआसेवनाशिक्षायावाग्राहणायांक्रियमाणायांकर्णामोटकेन खडुकाभिः चपेटाभिर्वा सापेक्षः जीवितापेक्षां कुर्वन्अत एव 'मर्माणिस्फेटयन् येषुप्रदेशेष्वाहतः सन् म्रियते तानि परिहरन् आचार्य क्षुल्लकस्य हस्तातालं ददाति । अत्र परः प्राह-ननु परस्य परितापे क्रियमाणेऽसातवेदनीयकर्मबन्धो भवति तत् कथमसावनुज्ञायते? उच्यते[भा.५१०८] कामं परपरितावो, असायहेतू जिनेहि पन्नत्तो। आत-परहितकरो पुन, इच्छिज्जइ दुस्सले स खलु ॥ वृ-'कामम्' अनुमतमिदमस्माकम्-परपरितापो जिनैरसातहेतुःप्रज्ञप्तः, परं सः' परपरितापः 'दुःशले' वाच्छिक्षया दुग्रह दुर्विनीते शिष्ये खलु' निश्चितमिष्यतएव । कुतः? इत्याह-"आयपरहियकरो"त्ति हेतौ प्रथमाभावप्रधानश्च निर्देशः, ततोऽयमर्थ-आत्मनः परस्य चहितकरत्वात्। तत्राऽऽसनः शिष्यं शिक्षा ग्राहयतः कर्मनिर्जरालाभः, परस्य तु सम्यग्गृहीतशिक्षस्य यथावत् घरम-करणानुपालनादयो भूयांसो गुणाः । पुनःशब्दो विशेषणे, स चैतद् विशिनष्टि-यो दुष्टाध्यवसायतया परपरितापः क्रियते स एवासातहेतुः प्रज्ञप्तः, यस्तु शुद्धाध्यवसायेनाऽऽत्मपरहितकरः क्रियते स नैवासातहेतुरिति ।अमुमेवार्थ दृष्टान्तेन द्रढयति[भा.५१०९] सिप्पंनेउणियहा, घाते विसहंति लोइया गुरुणो । नयमधुरनिच्छया ते, न होति एसेविहं उवमा ।। वृ- "सिप्पं"ति मकारोऽलाक्षणिकः, शिल्पानि-रथकारकर्मप्रभृतीनि नैपुण्यानि च-चिलिगणितादिकलाकौशलानि तदर्थ लौकिकाः शिक्षकाः 'गुरोः' आचार्यस्य घातानपि सहन्ते, नच 'ते' घातास्तदानींदारुणाअपि'मधुरनिश्चयाः' सुन्दरपरिणामानभवन्ति, किन्तुशिल्पादिपरिज्ञाने वृत्तिलाभ-जनपूजनीयतादिनापरिणामस्तेषां सुन्दरोभवतीति भावः । एषैवोपमा 'इह' प्रस्तुतार्थे मन्तव्या, यथा तेषां ते घाता हितास्तथा प्रस्तुतस्यापि दुर्विनीतस्य शिष्यस्येति भावः । अत्रायं बृहद्भाष्योक्तः सोपनयोऽपरो दृष्टान्तः अहवा वि रोगियस्सा, ओसह चाडूहि पिज्जए पुग्छि । पच्छा तालेत्तुमवी, देहहियहाए दिज्जइसे । इह भवरोगत्तस्स वि, अनुकूलेणं तु सारणा पुट्विं । पच्छा पडिकूलेन वि, परलोहियट्ठ कायव्वा ।। "ओसह"त्ति विभक्तिलोपादौषधमिति मन्तव्यम् ।।अत एव साधुरेवंविधो भवेत्[भा.५११०] संविग्गो मद्दविओ, अमुई अनुयत्तओ विसेसन्नू । उजुत्तमपरितंतो, इच्छियमत्थं लहइ साहू॥ वृ-'संविग्नः' मोक्षाभिलाषी, 'मार्दविकः' स्तब्धताविकलः, अमोचि' गुरूणाममोचनशीलः, 'अनुवर्तकः' तेषामेव च्छन्दोऽनुवर्ती, 'विशेषज्ञः' वस्त्ववस्तुविभागवेदी, उद्युक्तः स्वाध्यायादी, अपरितान्तो वैयावृत्यादौ, एवंविधः साधुरीप्सितमर्थमिह परत्र च लभते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy