________________
१४८
बृहत्कल्प-छेदसूत्रम् -३-४/११३ अवमंदुर्भिक्षं तत्र वा भक्त-पानं न लभेरन्, 'विहम्' अध्वानं वा प्रवेष्टुकामास्ततो वा उत्तीर्णान संस्तरेयुः, ततः स्वलिङ्गिनां या स्थलिका-देवद्रोणी तस्यां याचन्ते, यदि ते न प्रयच्छन्ति तदा बलादपिगृह्णन्ति ।अथबलवन्तस्ते दारुणप्रकृतयो वा ततोऽन्यतीर्थिकानामपिस्थलीषु याच्यते, यदिन प्रयच्छन्ति ततः स्वयमेव प्रकटं प्रच्छन्नं वा गृहीयुः । एवं गृहस्थेष्वपि याचितमलभमानाः स्वयमपि गृह्णन्ति । असंस्तरणे उपधिरप्येवमेव स्तैन्यरयोगेण ग्रहीतव्यः ।। [भा.५१०२] नाऊण य वोच्छेदं, पुव्वगते कालियानुतोगे य।
गिहि अत्रतित्थियं वा, हरिज एतेहि हेतूहिं ।। कृ-पूर्वगतेकालिकानुयोगे वा व्यवच्छेदं ज्ञात्वायोगृहस्थक्षुल्लकोऽन्यतीर्थिकक्षुल्लको वा ग्रहणधारणामेधावीस याचितो यदा न लभ्यते तदा स्वयमपि गृह्णीयात्। ऐतैः' एवमादिभिः 'हेतुभिः' कारणैर्गृहस्थमन्यतीर्थिकंवाहरेत् ।।गतमन्यधार्मिकस्तैन्यम्।अथ 'हत्यादालंदलेमाणे" इत्यादि पाठत्रयं विवरीषुराह[भा.५१०३] हत्थाताले हत्थालंबे, अत्थादाने य होति बोधव्ये।
एतेसिं नाणत्तं, वोच्छामि अहानुपुब्बीए॥ वृ-हस्तातालो हस्तालम्बोऽर्थादानं चेति त्रिधापाठोऽत्रबोद्धव्यः । एतेषांत्रयाणामपिनानात्वं वक्ष्यामि यथाऽऽनुपूर्व्याऽहम् ॥ तत्र हस्तातालं तावद् विवृणोति[भा.५१०४] उग्गिन्नम्मिय गुरुगो, दंडोपडियम्मि होइ भयणा उ।
एवं खुलोइयाणं, लोउत्तरियाण वोच्छामि॥ कृ-इह हस्तेनउपलक्षणत्वात्खङ्गादिभिश्च यद् आताडनंसहस्तातालः । स च द्विधा-लौकिको लोकोत्तरिकश्च । तत्र लौकिके हस्ताताले पुरुषवधाय खड्गादावुद्गीर्णे 'गुरुकः' रूपकाणामशीतिसहस्रलक्षणो दण्डो भवति । पतिते तु प्रहारे यदि कथमपि न मृतस्तदा 'भजना' देशे देशेऽपरापरदण्डलक्षणा भवति।अथमृतस्तदातदेवाशीतिसहस्रदण्डः । एवं 'खुः' अवधारणे, लौकिकानां दण्डो भवति । लोकोत्तरिकाणां तु दण्डमतः परं वक्ष्यामि ।। [भा.५१०५] हत्येण व पादेण व, अणवठ्ठप्पो उ होति उग्गिन्ने ।
पडियम्मि होति भयणा, उद्दवणे होति चरिमपदं ।। वृ-हस्तेन वापादेन वा उपलक्षणत्वा यष्टि-मुष्टयादिना वा यः साधुःस्वपक्षस्य परपक्षस्य वा प्रहारमुद्गिरति सोऽनवस्थाप्यो भवति । पतिते तु प्रहारे भजना, यदि न मृतस्ततोऽनवस्थाप्य एव, अथापद्राणः-मृतः तदा 'चरमपदं' पाराश्चिकं भवति ।। अत्रेदं द्वितीयपदम्[भा.५१०६] आयरिय विनयगाहण कारणजाते व बोधिकादीसु।
करणं वा पडिमाए, तत्थ तु भेदो पसमणं च ॥ वृ- आचार्य क्षुल्लकस्य विनयग्राहणं कुर्वन् हस्तातालमपि दद्यात् । 'कारणजाते वा' गुरुगच्छप्रभृतीनामात्यन्तिके विनाशे प्राप्ते बोधिकस्तेनादिष्वपि हस्तातालं प्रयुञ्जीत । पश्चार्द्धन हस्तालम्बमाह-“करणंवा' इत्यादि, अशिव-पुररोधादौ तपशमनार्थ प्रतिमा पुत्तलकं करोति, तत अभिचारुकमन्त्रपरिजपन् 'तत्रैव' प्रतिमायां भेदं करोति, ततस्तस्योपद्रवस्य प्रशमनं भवति।।
एषा नियुक्तिगाथा अत एनां विवृणोति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org