________________
उद्देशक : ४, मूलं-११२, [भा. ५०८४]
१४५ गणे तावदास्ते यावदेकोऽपि गीतार्थो निष्पत्रः, पश्चात् तस्याऽऽत्मीया इच्छा, तत्र वा तिष्ठति पूर्वेषां वा सकाशे गच्छति । यस्तु निष्कारणेऽपहृतः स एकस्मिन् निर्माते नियमात् पूर्वेषामन्तिके गच्छति, न तस्याऽऽत्मीयेच्छेति भावः ।। गतं शैक्षद्वारम् । अथाऽऽहारविधिमाह[भा.५०८५] ठवणाघरम्मि लहुगो, मादी गुरुगो अनुग्गहे लहुगा।
अप्पत्तियम्मि गुरुगा, वोच्छेद पसज्जणा सेसे॥ वृ-दानश्राद्धादिकुलं स्थापनागृहं भण्यते, तस्मिन्यआचार्यअसन्दिष्टः अननुज्ञातोवाप्रविशति तस्य मासलघु । अथवा प्राघूर्णक-ग्लानार्थमहमिहाऽऽयातः' इति तेषां श्राद्धानां पुरतो मायां करोति ततो मायिनो मासगुरुकम्। एवमुक्ते यदि ते श्राद्धाः अनुग्रहोऽयम्' इति मन्यन्ते तदा चतुर्लघु । अथाप्रीतिकं कुर्वन्ति ततश्चतुर्गुरवः, यच्च तद्रव्यवच्छेदादिशेषदोषाणां 'प्रसजना' प्रसङ्गस्तनिष्पनं प्रायश्चित्तम् । इदमेव व्याचष्टे[भा.५०८६) अज्ज अहं संदिट्टो, पुट्ठोऽपुट्ठो वसाहती एवं ।
पाहुणग-गिलाणट्ठा, तंच पलोट्टेति तो बितियं ।। वृ-कश्चिदाचार्यैरसन्दिष्टः स्थापनाकुलेषु प्रविश्य पृष्टोऽपृष्टो वा इदं भणति-अद्याहं गुरुभिः 'सन्दिष्टः' प्रेषित इति, ततो मासलघु । यदि च पूर्वं सन्दिष्टः सङ्घाटकः प्रविष्ट आसीत् श्राद्धैश्च तस्यासन्दिष्टस्याग्रेइदंभणितं भवेत्-सन्दिष्टसकाटकस्य दत्तमिति; ततोब्रूयात्-प्राघूर्णकार्थं ग्लानाथ वा साम्प्रतमहमागत इति, एवं 'त' श्राद्धजनं मायया यदि प्रलोटयति प्राघूर्णकार्थं ग्लानार्थ वा साम्प्रतमहमागत इति, एवं 'तं' श्राद्धजनं मायया यदि प्रलोटयति ततो 'द्वितीय' मातगुरु॥
तेच श्राद्धा विपरिणमेयुः, विपरिणताश्चाऽऽचार्यादीनांप्रायोग्यंन दधुः ततः शुद्धंशुद्धेनाप्येतत् प्रायश्चित्तम्[भा.५०८७] आयरि-गिलाण गुरुगा, लहुगा य हवंति खमग-पाहुणए ।
गुरुगो य बाल-बुढे, सेसे सब्बेसुमासलहुं । वृ-आचार्यस्य ग्लानस्य च प्रायोग्यमददानेषु श्राद्धेषु चतुर्गुरवः । क्षपकस्य प्राघुणकस्य च योग्यमददानेषु चतुर्लघवः । बालवृद्धानां योग्येऽलभ्यमाने गुरुमासः । शेषाणाम्' एतद्व्यति रिक्तानां सर्वेषामपि प्रायोग्येऽलभ्यमाने मासलधु । गतं साधर्मिकस्तैन्यम् ।
अथाऽन्यधार्मिकस्तैन्यमाह[भा.५०८८] परधम्मिया विदुविहा, लिंगपविट्ठा तहा गिहत्या य।
तेसिं तिनं तिविहं, आहारे उवधि सच्चित्ते॥ कृ-परधार्मिका अन्यधार्मिका इत्येकोऽर्थः तेिचद्विविधाः-लिङ्गप्रविष्टा गृहस्थाश्च। लिङ्गप्रविष्टाः' शाक्यादयः, 'गृहस्थाः' प्रतीताः। तेषाम् उभयेषामपि स्तैन्यंत्रिविधम्-आहारविषयमुपधिविषयं सचित्तविषयं चेति ॥ तत्राऽऽहारविषयं तावदाह[भा.५०८९] भिक्खूण संखडीए, विकरणरूवेण भुंजती लुद्धो।
आभोगण उद्धंसण, पवयणहीला दुरप्पत्ती ।। वृ-भिक्षवः-बौद्धास्तेषां सङ्घयां कश्चिद् लुब्धो “विकरणसवेण" लिङ्गविवेकेन भुङ्क्ते, [20] 100
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org