________________
१४६
बृहत्कल्प-छेदसूत्रम् -३-४/११३
तदीयं लिङ्गं कृत्वेति भावः । एवं भुञ्जनं यदि कोऽपि 'आभोगयति' उपलक्षयति तदा चतुर्लघवः । एवमुपलक्ष्य यद्यसौ 'उद्धर्षणं निर्भर्त्सनं करोति ततश्चतुर्गुरुकाः । प्रवचनहीलां वा ते कुर्युः, यथा दुरात्मानोऽमी भोजननिमित्तमेव प्रव्रजिता इति ॥ अपि च
[ भा. ५०९०]
गिहवासे वि वरागा, धुवं खु एते अदिकल्लाणा । गलतो नवरि न वलितो, एएसिं सत्थुणा चेव ॥
वृ-गृहवासेऽप्येते वराकाः 'ध्रुवं' निश्चितमेव अध्ष्टकल्याणाः, एतेषां च 'शाखा' तीर्थकृता दुश्चरतरामाहारशुध्यादिचर्यामुपदिशता गलक एव नवरं न वलितः, शेषं तु सर्वमपि कृतमिति भावः ॥ गतमाहारविषयं स्तैन्यम् । अथोपधिविषयमाह
[मा. ५०९१] उवस्सए उवहि ठवेतुं गतम्मि भिच्छुम्मि गिण्हती लहुगा । गेहण कढण ववहार पच्छकड्डुड्डाह निव्विसए ।।
- 'उपाश्रये मठे 'उपधिम्' उपकरणं स्थापयित्वा कश्चिद् भिक्षुकः- बौद्ध भिक्षां गतः, तस्मिन् गते यदि तदीयमुपधिं गृह्णाति तदा चतुर्लघवः । स भिक्षुकः समायातः स्वकीयमुपकरणं स्तेनितं मत्वा तस्य संयतस्य ग्रहणं करोति चतुर्गुरवः । राजकुलाभिमुखमाकर्षति षड्गुरवः । व्यवहारं कारयितुमारब्धे च्छेदः । पश्चात्कृते मूलम् । उडुहनेऽनवस्थाप्यम् । निर्विषयाज्ञापने पाराञ्चिकम् । अथ सचित्तविषयं स्तैन्यमाह
[ मा. ५०९२]
सच्चित्ते खुड्डादी, चउरो गुरुगा य दोस आणादी । गेहण कण ववहार पच्छकडुड्डाह निव्विसए ।
वृ- सच्चित्तस्तैन्ये चिन्त्यमाने भिक्षुकादेः सम्बन्धिनं क्षुल्लकम् आदिशब्दाद् अक्षुल्लकं वा यद्यपहरति तदा चत्वारो गुरुकाः आज्ञादयश्च दोषाः । ग्रहणा-ऽऽकर्षण-व्यवहार- पश्चात्कृतोड्डाहनिविषयाज्ञापनादयश्च दोषाः प्राग्वद् मन्तव्याः ॥ अथैतेष्वेव प्रायश्चित्तमाह
[ भा. ५०९३]
[भा. ५०९४]
गेहणे गुरुगा छम्मास कड्डणे छेओ होइ ववहारे । पच्छाकडम्पि मूलं, उडुहण विरंगणे नवमं ॥ उद्दावण निव्विसए, एगमनेगे पदोस पारंची। अवम्पो दोय, दोउ पारंचितो होइ ॥
वृ-गाथाद्वयं गतार्थम् ॥
[भा. ५०९५ ] खुडं व खुड्डियं वा, नेति अवत्तं अपुच्छियं तेने ।
वत्तम्मि नत्थि पुच्छा, खेत्तं थामं च नाऊणं ॥
वृक्षुल्लको वा क्षुल्लिका वा योऽद्यापि अव्यक्तः स यस्य शाक्यादेः सम्बन्धी तमपृष्टवा यदि तं क्षुल्लकं क्षुल्लिकां वा नयति ततः 'स्तेनः' अन्यधार्मिकस्तैन्यकारी स मन्तव्यः, चतुर्गुरुकं च तस्य प्रायश्चित्तम् । यस्तु व्यक्तस्तत्र नास्ति पृच्छा, तामन्तरेणापि स प्रव्राजनीयः । किं सर्वथैव ? उत न? इत्याशङ्कयाऽऽह क्षेत्र स्थाम च ज्ञात्वा । किमुक्तं भवति ? -यदि विवक्षितं क्षेत्रं शाक्यादिभावितं राजवल्लभतादिकं वा तेषां तत्र बलं तदा पृच्छामन्तरेण व्यक्तोऽपि प्रव्राजयितुं न कल्पते, अन्यथा कल्पत इति । एवं तावल्लिङ्गप्रविष्टानां स्तैन्यमुक्तम् । अथ गृहस्थानां तदेवाहएमेव होति तेन्नं, तिविहं गारत्थियाण जं वृत्तं ।
[भा. ५०९६]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org