________________
१४४
बृहत्कल्प-छेदसूत्रम् -३-४/११३ साहम्मियतेनम्मिं, पमत्तछलणाऽधिकरणंच।। वृ-शैक्षमपहरत आज्ञाभङ्गादयो दोषा भवन्ति । अनन्तसंसारिकत्वं च भगवतामाज्ञाभङ्गाद् भवति । बोधेश्च दुर्लभत्वं जायते । साधर्मिकस्तैन्यं च कुर्वाणः प्रमत्तो लभ्यते । प्रमत्तस्य च प्रान्तदेवतया छलना भवति । यस्य च सम्बन्धी सोऽपहियते तेन समम् 'अधिकरणं' कलह उपजायते । एवं तावत् पुरुषविषया दोषा उक्ताः । अथ स्त्रीविषयांस्तानेवातिदिशति[भा.५०८०] एमेव य इत्थी, अभिधारेंतीए तह वयंतीए।
. वत्तऽव्वत्ताए गमो, जहेव पुरिसस्स नायव्यो ।। वृ-एवमेव स्त्रियाअपिशैक्षिकायाः अभिधारयन्त्यास्तथा “वयंतीए"तिससहायायाः प्रव्रजितुं व्रजन्त्या व्यक्ताया अव्यक्तायाश्च गमः स एव ज्ञातव्यो यथा पुरुषस्योक्तः ॥
अथ प्रावचनिकपदं व्याचष्टे[भा.५०८१] एवंतुसो अवधितो, जाघे जातो सयं तु पावयणी।
निक्कारणे य गहितो, वच्चति ताहे पुरिल्लाणं॥ वृ. “एवम्' अन्तरोक्तैः प्रकारैः सः' शैक्षोऽपहृतः सन् यदा स्वयमेव प्रावचनिको जातः, अन्यो वा निष्कारणेयः केनापिगृहीतःसआत्मनो दिक्परिच्छेदं कृत्वा भूयोऽपिबोधिलाभावाप्तये पूर्वेषामेवाचार्याणामन्तिके व्रजति ॥ [भा.५०८२] अन्नस्स व असतीए, गुरुम्मि अब्भुज्जएगतरजुत्ते।
धारेति तमेव गणं, जो यहडों कारणज्जाते ।। वृ- येन स शैक्षो निष्कारणेऽपहृतस्तस्य गच्छेऽपरः कोऽप्याचार्यपदयोग्यो न विद्यते ततोऽन्यस्याभावेयद्वा स गुरु-आचार्योऽभ्युद्यतस्यैकतरेणयुक्तः,अभ्युद्यतमरणम्अभ्युद्यतविहारं वा प्रतिपन्न इत्यर्थः, ततो यदि कोऽपि शिष्यस्तेषां निष्पन्नो नास्ति तदा तमेव गणमसौ धारयति यावत् कोऽपि तत्र निष्पन्न इति । यश्च कारणजाते केनाप्याचार्येण हृतः सोऽपि तमेव गणं धारयति ।। किं पुनस्तत कारणम् ? इत्याह[भा.५०८३] नाऊण य वोच्छेदं, पुव्वगते कालियानुजोगे च ।
अज्जाकारणजाते, कप्पति सेहावहारोतु॥ वृ- कोऽप्याचार्यों बहुश्रुतस्तस्य पूर्वगते किञ्चिद् वस्तु प्राभृत वा कालिकानुयोगेऽपि श्रुतस्कन्धोऽध्ययनं वा विद्यते तच्चान्यस्य नास्ति ततोयधन्यस्यनसङ्क्राम्यतेतदा व्यवच्छिद्यते। एवं पूर्वगते कालिकानुयोगेच व्यवच्छेदं ज्ञात्वा तं च सम्प्रस्थितं शैक्षं ग्रहण धारणासमर्थ विज्ञाय भक्तदान-धर्मकथादिभिर्विपरिणाम्य झम्पनादीन्यपि कुर्वाणः शुद्धः । यद्वा तस्याऽऽचार्यस्य नास्ति कोऽप्यार्याणां परिवर्तकस्ततस्तासामपि कारणजाते शैक्षमपहरेत् । एवं कल्पते शैक्षापहारः कर्तुम् ॥तस्य च कारणेऽपहृतस्य को विधिः? इत्याह[भा.५०८४] कारणजाय अवहितो, गणं धरेतो तु अवहरंतस्स ।
जाहेगो निष्फन्नो, पच्छा से अप्पणो इच्छा। वृ- यः कारणजातेऽपहृतः स तदीयं गणं धारयन् अपहरत एवाभाव्यो भवति । अथ येन कारणेनापहृतस्तत् कारणंन पूरयतितदा पूर्वेषामेवाभवतिनापहरतः। सच कारणापहतस्तस्मिन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org