________________
१४३
उद्देशक : ४, मूलं-११२, [भा. ५०७५] [भा.५०७५] मन्झमिणमन-पानं, उवजीवऽनुकंपनाय सुद्धोउ।
पुट्ठमपुढे कहणा, एमेव य इहरहा दोसो॥ वृ-ततः स साधुर्मदीयमिदमन-पानम् ‘उपजीव' भुंक्ष्वेति ब्रुवाणो यदि ‘साधर्मिकोऽयम्' इत्यनुकम्पया ददाति तदा शुद्धः । शैक्षेण पृष्टोऽपृष्टो वा यदि एवमेव' अनुकम्पया धर्मकथां करोति तदाशुद्धः । इतरथा' अपहरणार्थ भक्त-पानंददतो धर्मवा कथयतो 'दोषः' चतुर्गुरुकं प्रायश्चित्तम् ।। अपहरणप्रयोगानेव दर्शयति[मा.५०७६] भत्ते पनवण निगृहणा य वावार झंपणा चेव।
पत्थवण-सयंहरणे, सेहे अव्वत्त वत्ते य॥ वृ-अपहरणार्थ भक्त-पानं ददातिधर्म वातस्य पुरतःप्रज्ञापयति । ततः सशैक्ष आवृत्तः सन् भणति-भवत एव सकाशेऽहं प्रव्रजामि किन्तुन शक्नोमि येनाऽऽनीतस्तत्पुरतः स्थातुम्, ततो मां गुपिले प्रदेशे निगूहत; ततोऽसौतं व्यापारयति-अमुकत्र निलीय तिष्ठेति। ततस्तं तत्र निलीनं साधुः पलालादिनाझम्पयति, स्थगयतीत्यर्थः । अथवाऽन्यैः सार्धमन्यंग्रामंप्रस्थापयति, एकाकिनं वा प्रेषयति-अमुकत्र ग्रामादौ व्रज, अहमप्यमुष्मि दिवसे तत्राऽऽगमिष्यामि।अथवा स्वयमेव गृहीत्वा तमपहरति। एतानिषट्पदानि भवन्ति, तद्यथा-भक्तप्रदानं१धर्मकथा२ निगूहनावचनं ३ व्यापारणं४ झम्पनं ५ प्रस्थापन-स्वयंहरणं ६ चेति। एतेषुषट्सुपदेषु शैक्षे व्यक्तेऽव्यक्तेच प्रायश्चित्तमिदं भवति॥ [भा.५०७७] गुरुओ चउलहु चउगुरु, छलहु छग्गुरुगमेव छेदो य।
भिक्खु-गणाऽऽयरियाणं, मलूं अणवट्ठ पारंची॥ वृ-भिक्षुर्यधव्यक्तशैक्षस्यापहरणार्थं भक्तं ददाति तदा मासगुरू, धर्मप्रज्ञापनायां चतुर्लघु, निगृहनवचने चतुर्गुरु, व्यापारणेषड्लघु, झम्पनेषड्गुरु, प्रस्थापने स्वयंहरणेवाच्छेदः। एवमव्यक्ते शैक्षे भणितम् । अव्यक्तो नाम-यस्याद्यापि श्मश्रु न सञ्जातम् । यस्तु व्यक्तः-सञ्जातश्मश्रुस्तत्र चतुर्लघुकादारब्धमूलं यावद्भिक्षोःप्रायश्चित्तम् । गणिनः-उपाध्यायस्य चतुर्लघुकादारब्धमनवस्थाप्ये तिष्ठति । आचार्यस्य चतुर्गुरुकादारब्धं पाराञ्चिके पर्यवस्यति ।।
एवं ससहाये शैक्षे भणितम्, यः पुनरसहायोऽभिधारयन् व्रजति तत्र विधिमाह[भा.५०७८] अभिधारंत वयंतो, पुट्ठो वच्चामऽहं अमुगमूलं ।
पनवण भत्तदाने, तहेव सेसा पदा नत्यि। वृ- कोऽपि शैक्ष एकाकी कमप्याचार्यमभिधारयन् प्रव्रज्याभिमुखो व्रजति । तेन क्वचिद् ग्रामेपथिवा साधुंध्ष्ट्वा वन्दनकंकृतम्। साधुना पृष्टः-क गच्छसि? सप्राह-अमुकस्याऽऽचार्यस्य पादमूले प्रव्रजनार्थं व्रजामि । एवमुक्ते यदि भिक्षुरव्यक्तशैक्षस्य भक्तदानं करोति मासगुरु, धर्मप्रज्ञापनायां चतुर्लघु; व्यक्तशैक्षस्य भक्तदाने चतुर्लघु, धर्मकथायां चतुर्गुरु । उपाध्यायाऽऽचार्ययोर्यथाक्रमंषड्लघुषड्गुरुकंच भवति, अधस्तनमेकैकंपदंहसतीति भावः । शेषाणि तु' निगूहन-व्यापारण-झम्पनादीनि पदानि न सन्ति, असहायत्वात्, तदभावात् प्रायश्चित्तमपि नास्तीति । एतेचापरे दोषाः__[भा.५०७९] आणादऽनंतसंसारियत्त बोहीय दुल्लभत्तं च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org