________________
१४२
बृहत्कल्प - छेदसूत्रम् - ३-४ / ११३
[भा. ५०७०] लहुगा अनुग्गहम्मिं, गुरुगा अप्पत्तियम्मि कायव्वा । मूलं च तेनसद्दे, वोच्छेद पसज्जणा सेसे ॥
वृ- एवं तेन साधुना स्तैन्येन वस्त्रेषु गृहीतेषु यद्यप्यसौ श्राद्धोऽनुग्रहं मन्यते - "यथाऽपि तथाऽपि गृह्णताममी साधवः' इति तथापि चतुर्लघवः । अथाप्रीतिकं करोति ततश्चतुर्गुरवः प्रायश्चित्तं कर्तव्याः । अथासौ 'स्तेनोऽयं स्तेनोऽयम्' इति शब्दं जनम्ये विस्तारयति तदा मूलम् । यच्च शेषद्रव्याणां शेषसाधूनां वा व्यवच्छेदं “पसजण "त्ति प्रसङ्गतः करोति तन्निष्पन्नं प्रायश्चित्तम् ॥ अथ सतीं ध्यामनां दर्शयति
[ भा. ५०७१] सुव्वत्त झामिओवधि, पेसण गहिते य अंतरा लुद्धो । लहुगो अदेते गुरुगा, अनवट्ठप्पो व आदेसा ॥
वृ- अथ 'सुव्यक्तं ' सत्येनैव ध्यामित उपधि ततो गुरुभिस्तथैव प्रेषणं कृतम्, प्रेषितश्च सन् येनाचार्या निमन्त्रितास्तस्मादन्यस्माद्वा श्रावकाद् वस्त्रादिकमुपधिं गृहीत्वा अन्तरा 'लुब्धः' लोभाभिभूतो यदि गृह्णाति तदा लघुको मासः । आगतोऽपि यदि गुरूणां न प्रयच्छति तदा चतुर्गुरवः, सूत्रादेशाद्वाऽनवस्थाप्यो भवति ।। गतं ध्यामनाद्वारम् । अथ प्रस्थापनाद्वारमाह
[ भा. ५०७२] उक्कोस सनिजोगो, पडिग्गहो अंतरा गहण लुद्धो । लहुगा अंदेते गुरुगा, अणवट्टप्पो व आदेसा ।।
वृ- केनाप्याचार्येण कस्यापि संयतस्य हस्ते अपराचार्यस्य ढौकनहेतोः प्रतिग्रहः प्रेषितः, स च 'उत्कृष्टः ' उत्कृष्टोपधिरूपो यद्वा वृत्त समचतुरस्र - वर्णाढ्यतादिगुणोपेतः, तथा सह निर्योगेनपात्रकबन्धादिना यः स सनिर्योगः । एवंविधस्य प्रतिग्रहस्य 'अन्तरा' अपान्तराल एवासौ लुब्धः 'ग्रहणं' स्वीकरणं करोति तत्र चतुर्लघु । तत्र गतस्तेषां सूरीणां तं प्रतिग्रहं न प्रयच्छति चतुर्गुरवः, सूत्रादेशेन वाऽनवस्थाप्यो ऽसौ द्रष्टव्यः ॥ गतं प्रस्थापनाद्वारम्, अथ शैक्षद्वारमाह
[भा. ५०७३] पव्वावणिज्ज बाहिं, ठवेत्तु भिक्खस्स अतिगते संते। सेहस्स आसिआवण, अभिधारेंते व पावयणी ॥
वृ- कोऽपि साधुः 'प्रव्राजनीयं' सशिखाकं शैक्षं गृहीत्वा प्रस्थितः, तं च भिक्षाकाले क्वापि ग्रामे बहि स्थापयित्वा भिक्षार्थम् अतिगतः प्रविष्टः प्रविष्टे च सति तस्मिन् अपरः साधुस्तं शैक्षं हृष्ट्वा विप्रतार्य च तस्य "आसियावणं" अपहरणं करोति । साधुविरहितो वा एकाकी कमपि साधुमभिधारयन्- मनसि कुर्वन् शैक्षो स्वयमेवाऽऽत्मनो दिक्परिच्छेदं कुरुत इति सङ्ग्रहगाथासमासार्थः ॥ अथैनामेव विवृणोति
[ भा. ५०७४] सन्नातिगतो अद्धाणितो व वंदनग पुच्छ सेहो मि । सो कत्थ मज्झ कजे, छात- पिवासस्स वा अडति ॥
वृ-संज्ञाभूमिगत आदिशब्दाद् भक्तादिपरिष्ठापनिकार्थं निर्गतः कोऽपि साधुः शैक्षं दृष्टवान् अथवा 'आध्वनिकः' पथिकोऽसौ साधुस्ततः पथि गच्छन् शैक्षं दृष्टवान् । तेन च वन्दनके कृते सति साधुः पृच्छति कोऽसि त्वम् ? कुत आगतः ? क्व वा प्रस्थितः ? | शैक्षः प्राह- अमुकेन साधुना सार्द्धं प्रस्थितः प्रव्रजितुकामः शैक्षोऽसम्यहम् । साधुः पृच्छति स साधुः सम्प्रति क्व गतः ? शैक्षो भणति स मम कार्ये बुभुक्षितस्य पिपासितस्य वा भक्त पानार्थं पर्यटति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org