________________
उद्देशक : ४, मूलं- ११२, [भा. ५०५५ ]
सम्बन्धिनं सङ्घस्यादेशाद् वहेत्, यद्वा सर्वमपि सङ्घो मुञ्चेत्, न किमपि कारयेदित्यर्थः ॥ अथ देशदेशमाह
[भा. ५०५६ ] अट्ठारस छत्तीसा, दिवसा छत्तीसमेव वरिसं च । बावत्तरिं च दिवसा, दसभाग वहेज्ज बितिओ तु ॥
वृ- आशातनापाराञ्चके षण्मासानां दशमे भागेऽष्टादश दिवसा वर्षस्य तु दशमे भागे षट्त्रिंशद्दिवसा भवन्ति । प्रतिसेवनापाराञ्चिके संवत्सरस्य दशमे भागे षट्त्रिंशद्दिवसा द्वादशवर्षाणां दशमे भागे वर्षमेकं द्वासप्ततिश्च दिवसा भवन्ति । एतावन्तं कालं यद् वहेद् एषः 'द्वितीयः' देशदेश उच्यते ॥ उपसंहरन्नाह[भा.५०५७]
पारंचीणं दोण्ह वि, जहनमुक्कोसयस्स कालस्स । छांदसभागं, वहेज सव्वं व झोसिज्जा ॥
१३९
वृ- 'द्वयोरपि' आशातना-प्रतिसेवनापाराञ्चिकयोर्जघन्य उत्कृष्टश्च यः कालस्तस्य सम्बन्धिनं षड्भागं दशभागं वाऽनन्तरोक्तं वहेत् । यद्वा 'सर्वमपि अवशिष्यमाणं सङ्घः क्षपयेत्, प्रसादेन मुञ्चेदिति भावः ॥
मू. (११३) ततो अनवट्टप्पा पन्नत्ता, तं जहा- साहम्मियाणं तेन्नं करेमाणे, अन्नधम्मियाणं तेन्नं करेमाणे, हत्थादालं दलेमाणे ॥
वृ- अस्य सम्बन्धमाह[ भा. ५०५८]
पच्छित्तमनंतरियं, हेट्ठा पारंचियस्स अणवट्ठो । आयरियस्स विसोधी, भणिता इमगा उवज्झाते ॥
वृ- पूर्वसूत्रे पाराञ्चिकप्रायश्चित्तमुक्तम्, तस्य 'अधस्ताद्' अनन्तरितमनवस्थाप्यप्रायश्चित्तं भवति, अतः साम्प्रतं तदभिधीयते । यद्वा पूर्वसूत्रे आचार्यस्य शोधिर्भणिता, इयं पुनरुपाध्यायविषया सैवाभिधीयते । अनेन सम्बन्धेनायातस्यास्य व्याख्या- त्रयः 'अनवस्थाप्याः' तत्क्षणादेव व्रतेष्वनवस्थापनीयाः प्रज्ञप्ताः । तद्यथा-साधर्मिकाः साधवस्तेषां सत्कस्योत्कृष्टोपधेः शिष्यादेर्वा 'स्तैन्यं' चौर्यं कुर्वाणः । अन्यधार्मिकाः- शाक्यादयो गृहस्था वा तेषां सत्कस्योपध्यादेः स्तैन्यं कुर्वन् । तथा हस्तेनाताडनं हस्तातालः, सूत्रे च तकारस्य दकारश्रुतिरार्षत्वात्, तं "दलमाणे " ददत्, यष्टि-मुष्टि- लकुटादिभिरात्मनः परस्य वा प्रहरन्निति भावः । अथव “हत्थालंबं ” ति पाठः, हस्तालम्ब इव 'हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं " हत्थालंबं " ति पाठः, हस्तालम्ब इव ‘हस्तालम्बः' अशिवादिप्रशमनार्थमभिचारुकमन्त्रादिप्रयोगस्तं “दलमाणे” कुर्वन् । यद्वा “अत्थादानं दलमाणे” त्ति पाठः, तत्र 'अर्थादानम्' अर्थोपादानकारणमष्टाङ्गनिमित्तं ‘ददत्’ प्रयुञ्जानः । एष सूत्रसङ्क्षेपार्थः ॥ अथ विस्तरार्थं बिभणिषुराह
[ भा. ५०५९ ] आसायण पडिसेवी, अणवट्टप्पो वि होति दुविहो तु । एक्केक्को वि यदुविहो, सचरित्तो चेव अचरित्तो ॥
वृ- आशातनानवस्थाप्यः प्रतिसेव्यनवस्थाप्यश्चेत्यनवस्थायप्योऽपि द्विविधो भवति, न केवलं पाराश्चिक इति अपिशब्दार्थः । पुनरेकैकोऽपि द्विविधः सचारित्रोऽचारित्रश्चेति । एतौ द्वावपि भेदी पाराञ्चिकवद् वक्तव्यौ । अथाशातनानवस्थाप्यमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org