________________
१४०
बृहत्कल्प-छेदसूत्रम् -३-४/११३ [भा.५०६०] तित्थयर पवयण सुते, आयरिए गणहरे महिड्डीए।
एते आसादेंते, पच्छित्ते मग्गणा होइ ।। वृ-तीर्थकरः प्रवचनं श्रुतं आचार्यों गणधरो महर्द्धिकञ्चेति । एतानाशातयतः प्रायश्चित्ते मार्गणा भवति । अमीषां चाशातना पाराञ्चिकवद् भावनीया।। प्रायश्चित्तमार्गणा पुनरियम्[भा.५०६१] पढम-बितिएसुनवमं, सेसे एकेक चउगुरू होति ।
सव्वे आसादेतो, अनवट्ठप्पो उ सो होइ॥ वृ-प्रथम-द्वितीययोः' तीर्थङ्कर-सङ्घाशातनयोरुपाध्यायस्य 'नवमम्' अनवस्थाप्यं भवति । 'शेषेषु श्रुतादिषु प्रत्येकमेकैकस्मिन्आशात्यमाने चतुर्गुरवो भवन्ति ।अथ 'सर्वाणि' चत्वार्यपि श्रुतादी आशातयति ततोऽसौ अनवस्थाप्यो भवति॥
उक्त आशातनानावस्थाप्यः । अथ प्रतिसेवनानवस्थाप्यमाह[भा.५०६२] पडिसेवणअणवट्ठो, तिविधो सो होइ आनुपुवीए।
साहम्मि अन्नधम्मिय, हत्थादालं व दलमाणे ।। वृ-यः प्रतिसेवनानवस्थाप्यः सूत्रेसाक्षादुक्तःस आनुपूर्व्यात्रिविधीभवति-साधर्मिकस्तैन्यकारी अन्यधार्मिकस्तैन्यकारी हस्तातालं च ददत् ॥ तत्र साधर्मिकस्तैन्यं तावदाह[मा.५०६३] साहम्मि तेन उवधी, वावारण झामणा य पट्ठवणा।
सेहे आहारविधी, जा जहि आरोवणा भणिता॥ वृ-साधर्मिकाणाम् ‘उपधेः' वस्त्र-पात्रादिलक्षणस्य स्तैन्यं करोति । “वावारण"त्ति गुरुभिरुपधेरुत्पादनाय 'व्यापारणा' प्रेषणा कृता ततस्तमुत्पाद्य गुरूणामनिवेद्यापान्तराले स्वयमेवाधितिष्ठति । “झामणा य" त्ति उपकरं सद्भावेनासद्भावेन वा 'ध्यामितं दग्धं भवेत् तयाजेन श्रावकमभ्यर्थ्य वस्त्रादिकं गृहीत्वा स्वयमेव भुङ्क्ते । “पट्ठवण"ति केनाप्याचार्येण कस्यापि संयतस्य हस्तेअपराचार्यस्य ढौकनाय प्रतिग्रहःप्रेषितस्तमसावन्तरास्वयमेव स्वीकरोति। "सेहे"त्ति शैक्षविषयंस्तैन्यंकरोति। “आहारविहि"त्तिदानश्राद्धादिषुस्थापनाकुलेषु गुरुभिरननुज्ञातः 'आहारविधिम्' अशनादिकमाहारप्रकारंगृह्णाति। एतेषु स्थानेषुसाधर्मिकस्तैन्यं भवति। अत्र च या यत्रस्थाने आरोपणा' प्रायश्चित्तापरपर्याया भणिता सातत्र वक्तव्या। एष नियुक्तिगाथास पार्थः॥साम्प्रतमेनामेव विवरीषुराह[भा.५०६४] उवहिस्स आसिआवण, सेहमसेधे यदिट्टऽदिट्टे य ।
सेहे मूलं भणितं, अणवठ्ठप्पो य पारंची। वृ-इहोपधेः आसिआवणं स्तन्यमित्येकोऽर्थः, तच शैक्षो वा कुर्यादशैक्षो वा, उभावपि दृष्टं वास्तैन्यं कुर्यातामध्ष्टं वा । तत्र शैक्षेमूलंयावत्प्रायश्चित्तंभणितम्, उपध्यायस्याऽनवस्थाप्यपर्यन्तम्, आचार्यस्य पाराञ्चिकान्तम् ॥ एतदेव भावयति[भा.५१६५] सेहो त्ति अगीयत्थो, जो वा गीतो अणिविसंपन्नो ।
उवही पुन वत्थादी, सपरिग्गह एतरो तिविहो ।। वृ-शैक्ष इति पदेनागीतार्थो भण्यते, यो वा गीतार्थोऽपि 'अनृद्धिसम्पन्नः' आचार्यपदादिसमृद्धिमप्राप्तः सोऽपि शैक्ष इहोच्यते । उपधिपुनर्वस्त्रादिकः, आदिशब्दात् पात्रपरिग्रहः । सच
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org