________________
१३८
बृहत्कल्प-छेदसूत्रम् -३-४/११२ निष्कासितोऽस्मि, ततआस्तामन्यत्, क्षेत्रेऽपियतीनामहमास्थानलभे,ततःश्रमप्रतिरुप्यहमिति। राजा प्राह-सत्त्वया कृतोऽतिचारः ? का वा तस्य विशोधि? एवं पृष्टे यत् कर्तव्यं तदाह[भा.५०५२] कहणाऽऽउट्टण आगमनपुच्छणं दीवणा यकजस्स।
वीसज्जियंतिय मए, हासुस्सलितो भणतिराया। दृ-कथनं राज्ञा पृष्टस्य प्रसङ्गतोऽन्यस्यापि यथा प्रवचनभावना भवति । ततः 'आवर्तनम्' आकम्पनम्, राज्ञो भक्तीभवनमिति भावः । तदननतरमागमनकारणस्यप्रश्नः-केन प्रयोजनेन यूयमत्राऽऽगताः स्थ ? । अत्रान्तरेयेन कार्येणागतस्तस्य दीपना प्रकाशना । ततो राजा "हासुस्सलिओ"त्ति हासेन युक्त उत्सृतः-हृष्टो हासोत्सृतः, हसितमुखःप्रहृष्टश्च सन्नित्यर्थः, भणति। यथा-मया विसर्जितं' मुत्कलितं निर्विषयाज्ञापनादिकं कार्यमिति॥
एवं च किं सातम् ? इत्याह[भा.५०५३] संघो न लभइ कजं, लद्धं कजं महानुभाएणं ।
तुब्भंति विसज्जेमि, सोविय संघो त्ति पूएति॥ कृ-निर्विषयत्वाज्ञापनमुत्कलनादिलक्षणकार्यसङ्खोनलभतेकिन्तुतेनपाराचिकेन महानुभागेन' सातिशयाचिन्त्यप्रभावेन लब्धम् । न च स एवं कार्यलाभेन गर्वमुद्वहति, यत आह-"तुमंति" इत्यादि, राजा प्राह-युष्माकंभणितेनाहंपूर्वग्राहं त्यक्त्वा तत् कार्य विसर्जयामि नान्यथा । 'सोऽपि च' पाराञ्चिको ब्रूते-कोऽहम् ? कियन्मात्री वा? गरीयान् सको भट्टारकः, तत्प्रभावादेवाह किञ्चिजानामि, तस्मात् सङ्घामाहूय क्षमयितवा यूयमेवं ब्रूत-मुत्कलितं मया युष्माकमिति । ततो राजाऽपि सईपूजयति॥ [भा.५०५४] अब्मस्थितो वरन्ना, सयं वसंघो विसज्जति तु तुट्ठो।
आदी मज्झऽवसाणे, स यावि दोसो धुओ होइ॥ वृ- राजा सझं ब्रूयात्-मया युष्माकं विसर्जितं कार्यम्, परं मदीयमपि कार्यमिदानीं कुरुतमुञ्चतास्य पाराश्चिकस्य प्रायश्चित्तम् । एवं राज्ञाऽभ्यर्थितोयदि वा स्वयमपितुष्टः सइः विसर्जयति' मुत्कलयति । किमुक्तं भवति?-यद् व्यूढं तद् व्यूढमेव, शेषं तु पुनर्देशतः सर्वतो वा प्रसादेन मुञ्चति । तस्य च पाराञ्चिकतपसस्तदानीमादिमध्यमवसानं वा भवेत्, त्रिष्वपि सङ्घस्यादेशात् 'स चापि' पाराञ्चिकपत्तिहेतुर्दोषः 'धुतः' कम्पितः, प्रसादेन स्फेटितो भवतीत्यर्थः । तत्र देशो देशदेशो वा प्रायश्चित्तस्य तेन वोढव्यः । अथ राजा तस्यापि मोचने निर्बन्धं करोति तदा तदपि मुच्यते । देशो नाम-षड्भागः, देशदेशः-दशभागः॥
तत्र देशे यावन्तो मासा भवन्ति तदेतत् प्रतिपादयति[भा.५०५५] एक्को य दोन्नि दोनि य, मासा चउवीस होति छडभागे।
देसं दोण्ह वि एयं, वहेज मुंचेज वा सव्वं ॥ वृ-इहाशातनापाराञ्चिकोजघन्यतः षण्मासान्उत्कर्षतोवर्षभवति इत्युक्तम्, तत्रषण्मासानां षष्ठे भागे एको मासो लभ्यते वर्षस्य तुषड्भागे द्वौ मासौभवतः । प्रतिसेवनापाराञ्चिको जघन्यतो वर्षम् उत्कर्षतो द्वादश वर्षाणि भवतीत्युक्तम्, तत्रापि वर्षस्य षड्भागे द्वौ मासौ द्वादशवर्षाणां षष्ठे भागे चतुर्विशतिमासा भवन्ति। एवंविधंदेशं 'द्वयोरपि' आशातना-प्रतिसेवनापाराञ्चिकयोः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org