________________
उद्देशक : ४, मूलं - ११२ [भा. ५०४५]
१३७
वृतिष्ठतु यथासुखं महान् अनुभागः- अधिकृतप्रयोजनानुकूला अचिन्त्या शक्तिर्यस्य सः, तथा गुणशतानाम अनेकेषां गुणानाम् आकरः- निधानं गुणशताकरः सङ्घः । यत इदं गुरुकमपि कार्यं मां प्राप्य लघुकं भविष्यति, समर्थोऽहमस्य प्रोयजनस्य लीलयाऽपि साधने इति भावः ॥ एवमुक्ते सोऽनुज्ञातः सन् यत् करोति तदाह
[भा. ५०४६ ] अभिहाण - हेउकुसलो, बहूसु निराजितो विउसभासु । गंतूण रायभवने, भणाति तं रायदारहं ॥
वृ- 'अभिधान हेतुकुशल: ' शब्दाम्रागे तर्कमार्गे ऽतीव क्षुत्र इत्यर्थः, अत एव बहुषु विद्वत्सभासु 'नीराजितः' निर्वटितः इत्थम्भूतः स पाराश्विको राजभवेन गत्वा तं 'राजद्वारस्थं ' प्रतीहारं भणति ॥ किं भणति ? इत्याह
[भा. ५०४७] पडिहाररूवी ? भण रायरूविं, तमिच्छए संजयरूवि दङ्कं । निवेदयित्ता यस पत्थिवस्स, जहिं निवो तत्थ तयं पवेसे ॥
वृ- हे प्रतीहाररूपिन् ! मध्ये गत्वा 'राजरूपिणं' राजानुकारिणं भण, यथा त्वां संयतरूपी द्रष्टुमिच्छति । एवमुक्तः सन् 'सः' प्रतीहारस्तथैव पार्थिवस्य निवेदयति । निवेद्य च राजानुमत्या यत्र नृपोऽवतिष्ठते तत्र 'तकं' साधुं प्रवेशयति ॥
[भा. ५०४८] तं पूयइत्ताण सुहासनत्थं, पुच्छ्रिसु रायाऽऽगयकोउहल्लो । पहे उराले असुए कयाई, स चावि आइक्खइ पत्थिवस्स ॥
वृ- 'तं' साधुं प्रविष्टं सन्तं राजा पूजयित्वा 'शुभासनस्थं' शुभे आसने निषन्नभागतकुहूहलोऽप्राक्षीत् । कान् ? इत्याह-प्रश्नान् 'उदारान्' गम्भीरार्थान् कदाचिदप्यश्रुतान् “प्रतिहाररूपिन्" ! इत्येवमादिकान् । 'स चापि साधुरेवं पृष्टः पार्थिवस्याचष्टे ।। किमाचष्टे ? इत्याहजारिसग आयरक्खा, सक्कादीणं न तारिसो एसो । तुह राय ! दारपालो, तंपि य चक्कीण पडिरूवी ॥
[ भा. ५०४९]
- या शकाः खलु शक्रादीनाम्, आदिशब्दात् चमरादिपरिग्रहः, आत्मरक्षा न ताध्श एष तत्र राजन् ! द्वारपालस्तत उक्तम् "हे प्रतीहाररूपिन् !” । तथा त्वमपि याद्दशश्चक्रवर्ती ताध्शी न भवसि रत्नाद्यभावात्, अत्रान्तरे चक्रवर्तिसमृद्धिराख्यातव्या, किञ्च प्रताप शीर्यन्यायानुपालनादिना तत्प्रतिरूपोऽसि तत उक्तम् "राजरूपिणं ब्रूहि", चक्रवर्तिप्रतिरूपमित्यर्थः ।। एवमुक्ते राजा प्राह-त्वं कथं श्रमणानां प्रतिरूपी ? तत आह
[भा. ५०५० ] समणाणं पडिरूवी, जं पुच्छसि राय ! तं कहमहं ति । निरतीयारा समणा, न तहाऽहं तेन पडिरूवी |
वृ- यत् त्वं राजन् ! पृच्छसि 'अथ । कथं त्वं श्रमणानां प्रतिरूपी ? ' तदहं कथयामि यथां श्रमणा भगवन्तो निरतिचारा न तथाऽहं तेन श्रमणानां प्रतिरूपी, न तु साक्षात् श्रमण इति ॥ प्रतिरूपित्वमेव भावयति
[ भा. ५०५१] निज्जूढो मि नरीसर !, खेत्ते वि जईण अच्छिउं न लभे । अतियारस्स विसोधिं, पकरेमि पमायमूलस्स ॥
वृ-हे नरेश्वर ! प्रमादमूलस्यातिचारस्य सम्प्रति विशोधिं प्रकरोमि, तां च कुर्वन् 'निर्यूढोऽस्मि'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org