________________
उद्देशक : ४, मूलं-११२, [भा. ५०३५]
१३५ कृ-'जिनकल्पिकप्रतिरूपी' 'अलेपकृतं मैक्षं ग्रहीतव्यम्, तृतीयस्यां पौरुष्यां पर्यटनीयम् इत्यादिका याशी जिनकल्पिकस्य चर्या तां कुर्वन् क्षेत्रा बहि स्थितः सन् ‘सः' पाराञ्चिकः एकाकी 'ध्यानसंयुक्तः श्रुतपरावर्तनकचित्तो द्वादश वर्षाणि विहरति ।। यस्य चाऽऽचार्यस्य सकाशे प्रतिपद्यते तेन यत् कर्तव्यं तदाह[भा.५०३६] ओलोयणंगवेसण, आयरितो कुणति सव्वकालं पि।
उपपन्ने कारणम्मिं, सव्वपयत्तेण कायव्वं ।। -आचार्य पाराश्चिकस्य 'सर्वकालमपि' यावन्तं कालं प्रायश्चित्तं वहति तावन्तं सकलमपि कालं यावत् प्रतिदिवसमवलोकनं करोति, तत्समीपं गत्वा तद्दर्शनं करोतीत्यर्थः । तदनन्तरं 'गवेषणं' 'गतोऽल्पक्लमतयाभवतां दिवसोरात्रिर्वा?' इतिपृच्छांकरोति । उत्पन्ने पुनः 'कारणे' ग्लानत्वलक्षणे सर्वप्रयत्नेन भक्त-पानाहरणादिकं स्वयमाचार्येण तस्य कर्तव्यम्॥ [भा.५०३७] जो उ उदेहं कुञ्जा, आयरिओ केणई पमाएणं ।
आरोवणा उ तस्सा, कायव्वा पुव्वनिद्दिठा॥ वृ- यः पुनराचार्य 'केनापि प्रमादेन' जनव्याक्षेपादिना 'उपेक्षां कुरुते' तत्समीपं गत्वा तच्छरीस्योदन्तं न वहति तस्याऽऽरोपणा 'पूर्वनिर्दिष्टा' ग्लानद्वाराभिहिता कर्तव्या, चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमिति भावः॥
यदुक्तम् "उत्पन्ने कारणे सर्वप्रयत्नेन कर्तव्यम्" तद् भावयति[भा.५०३८] आहरति भत्त-पानं, उव्वत्तणमाइयं पि से कुणति ।
___ सयमेव गणाहिवई, अह अगिलाणो सयं कुणति ॥ वृ-अथ स पाराञ्चिको ग्लानोऽभवत् ततस्तस्य 'गणाधिपति' आचार्य स्वयमेव भक्तंपानंच 'आहरति' आनयति, उद्वर्तनम् आदिशब्दात्परावर्तनोर्द्धकरणोपवेशनादिकंतस्य स्वयंकरोति। अथ जातः 'अग्लानः' नीरोगस्तत आचार्यं न किमपि कारयति किन्तु सर्वं स्वयमेव कुरुते॥
अधुना यदुक्तम् “ओलोयणं गवेसण" ति तद्व्याख्यानार्थमाह[भा.५०३९]उभयं पि दाऊण सपाडिपुच्छं, वोढुं सरीरस्स य वट्टमाणि। .
आसासइत्ताण तवोकिलंतं, तमेव खेत्तं समुति थेरा।। वृ-'स्थविराः' आचार्याः शिष्याणां प्रतीच्छकानां च 'उभयमपि' सूत्रमथंच, किंविशिष्टम् ? इत्याह-'सप्रतिपृच्छं' पृच्छा-प्रश्नस्तस्याः प्रतिवचनं प्रतिपृच्छा तया सहितं सप्रतिपृच्छम्, सूत्रविषयेऽर्थविषये च यद् येन पृष्टं तत्प्रतिवचनं दत्त्वा तत्सकाशमुपगम्य तदीयशरीरस्य "वट्टमाणि"ति वर्तमानेकाले भवावार्त्तमानी-वार्तेत्यर्थःस्तां वहन्ति, अल्पक्लाम्यतांपृच्छन्तीति भावः । सोऽपिचाऽऽचारागतं मस्तकेन वन्दे' इति फेटावन्दनकेन वन्दते। शरीररस्य चोदन्तमूत्वा यदि तपसा क्लाम्यति तत आश्वासयन्ति । आश्वास्य च तदेव क्षेत्रं' यत्र गच्छोऽवतिष्ठते तत् समुपगच्छन्ति स्थविराः ।।
अथ द्वावपि सूत्रार्थी दत्त्वा तत्र गन्तुं न शक्नोति ततः को विधिः? इत्याह[भा.५०४०] असहू सुत्तं दातुं, दो वि अदाउं व गच्छति पए वि।
संघाडओ से भत्तं, पानं चाऽऽनेति मग्गेणं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org