________________
१३४
बृहत्कल्प-छेदसूत्रम् -३-४/११२
सारेऽभिगतार्थ' परिणामितप्रवचनरहस्यार्थ इति॥ किञ्च[भा.५०३०] तिलतुसतिभागमित्तो, वि जस्स असुभो न विज्जती भावो।
नितहणाइ अरिहो, सेसे निज्जूहणा नत्थि॥ वृ-यस्य गच्छानियूंढस्य तिलतुषत्रिभागमात्रोऽपि नियूढोऽहम्' इत्यशुभो भावो न विद्यते सनि!हणायाः 'अर्हः' योग्यः । शेषस्य एतद्गुणविकलस्य निर्वृहणा नास्ति, न कर्तव्येत्यर्थः।।
इदमेव व्याचष्टे[भा.५०३१] . एयगुणसंपजुत्तो, पार्वति पारंचियारिहं ठाणं ।
एयगुणविप्पमुक्के, तारिसगम्मी भवे मूलं ।। कृ-एतैः-संहननादिभिर्गुणैः सम्प्रयुक्तः पाराञ्चिकार्ह स्थान्प्राप्नोति।यःपुनरेतद्गुणविप्रमुक्तः 'ताशे' पाराञ्चिकापत्तिप्राप्तेऽपिमूलमेव प्रायश्चित्तं भवति॥अथपाराञ्चिकमेवकालतोनिरूपयति[भा.५०३२] आसायणा जहन्ने, छम्मासुक्कोस वारस तुमासे।
वासं बारस वासे, पडिसेवओ कारणे भतिओ। वृ-आशातनापाराश्चिको जघन्येन षण्मासान् उत्कर्षतश्च द्वादश मासन् भवति, एतावन्तं कालं गच्छानियूढस्तिष्ठतीत्यर्थः । प्रतिसेवनापाराञ्चिको जघन्येन संवतसरम् उत्कर्षतो द्वादश वर्षाणि नियूंढ आस्ते। “पडिसेवओ कारणे भइओ" त्तियः प्रतिषेवकपाराश्चिकः सः 'कारणे' कुलगणादिकार्ये 'भक्तः' विकल्पितः, यथोक्तकालादगिपि गच्छं प्रविशतीति भावः ।।
अथ तस्यैव गणनिर्गमनविधिमाह[भा.५०३३] इत्तिरियं निक्खेवं, काउं अन्नं गणं गमित्ताणं।
दव्वादि सुभे विगडण, निरुवस्सग्गट्ठ उस्सग्गो॥ वृ-इह यः पाराचिकं प्रतिपद्यते स नियमादाचार्य एव भवति, तेन च स्वगणे पाराञ्चिकं न प्रतिपत्तव्यम्, अन्यस्मिन् गणे गन्तव्यम् । तत इत्वरंगणनिक्षेपमात्मतुल्ये शिष्ये कृत्वा ततोऽन्यं गणं गत्वा 'द्रव्यादिषु' द्रव्य-क्षेत्र-काल-भावेषु 'शुभेषु' प्रशस्तेषु 'विकटनाम्' आलोचनां परगणाचार्यस्य प्रयच्छति। उभावपि च निरुपसर्गप्रत्ययं कायोत्सर्ग प्रकुरुतः।।
अथ किं कारणं स्वगणे न प्रतिपद्यते ? उच्यते[भा.५०३४] अप्पचय निब्भयया, आणाभंगो अजंतणा सगणे ।
परगणे न होंति एए, आणाथिरता भयं चेव ।। वृ-स्वगच्छ एव पाराञ्चिकप्रतिपत्तौअगीतार्थानामप्रत्ययो भवति-नूनमकृत्यमनेन प्रतिसेवितं येन पाराधिकः कृतः। ततस्तेषां निर्भयता भवति, नगुरूणां बिभ्यतीत्यर्थः । अबिभ्यतश्चाज्ञाभङ्गं कुर्वीरन्।अयन्त्रणा चस्वगणे भवति, शिष्यानुरोधादिना स्वयमेव भक्त-पानानयनादौ नियन्त्रणा वक्ष्यमाणान भवतीत्यर्थः । परगणे चैते दोषानभवन्ति । अपिच-तत्र गच्छताभगवतामाज्ञानुपालने 'स्थिरता' स्थैर्य कृतं भवति, भयं चात्मनः सआयते, ततः परगणं गत्वा तत्र पाराञ्चिकं पतिपद्य निरपेक्षः सक्रोशयोजनात् क्षेत्रा बहिर्ब्रजति । तस्य चेयं सामाचारी[भा.५०३५] जिनकप्पियपडिरूवी, बाहिं खेत्तस्स सो ठितो संतो।
विहरति बारस वासे, एगागी झाणसंजुत्तो।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org