________________
१३३
उद्देशक : ४, मूलं-११२, [भा. ५०२४] क्रियमाणेऽयमुपदेशो दीयते- 'देशव्रतानि' स्थूलप्राणातिपातविरमणादीनि गृहाण, तानि चेत् प्रतिपत्तुंन समर्थततः 'दर्शन' सम्यक्त्वं गृहाण। अथैवमप्यनुनीयमानो लिङ्गंमोक्तुंनेच्छति तदा रात्रौ तं सुप्तं मुक्त्वा पलायन्ते' देशान्तरं गच्छन्ति॥
गतः प्रमत्तपाराञ्चिकः । अथान्योन्यं कुर्वाणं तमेवाह[भा.५०२५] करणं तु अन्नमन्ने, समणाण न कप्पते सुविहिताणं ।
- जे पुन करेंति नाता, तेसिंतु विविंचणा भणिया ॥ वृ-तुशब्दस्य व्यवहितसम्बन्धतया अन्योन्यं' परस्परंपुनर्यत् 'करण' मुख-पायुप्रयोगेन सेवन तत् श्रमणानां सुविहितानां कर्तुं न कल्पते । ये पुनः कुर्वन्ति ते यदि ज्ञातास्तदा तेषां 'विवेचना' परिष्ठापना भणिता । इदमेव व्याचष्टे[भा.५०२६] आसग-पोसगसेवी, केई पुरिसा दुवेयगा होति ।
तेसिं लिंगविवेगो, बितियपदं रायपव्वइते ।। वृ-आस्यं मुखं आस्यमेवास्यकम्, पोसकः-पायुः, आस्यक-पोसकाभ्यां सेवितुं शीलमेषामित्यासक-पोसकसेविनः; केचित् 'पुरुषाः साधवः 'द्विवेदकाः' स्त्री-पुरुषवेदयुक्ता भवन्ति, नपुंसकवेदिन इत्यर्थः; तेषां लिङ्गविवेकः कर्तव्यः, लिङ्गपाराञ्चिकंदातव्यमित्यर्थः। द्वितीयपदमत्र भवति-योराजप्रव्रजितस्तस्यास्यक-पोसकसेविनोऽपि लिङ्गं नापहियते, परंयतनयासपरित्यज्यते। गतोऽन्योन्यं कुर्वाणः पाराञ्चिकः । सम्प्रति यो दुष्यादिर्यतः पाराश्चिकः क्रियते तदेतद् दर्शयति[भा.५०२७] विइओ उवस्सयाई, कीरति पारंचितो न लिंगातो।
अनुवरमं पुन कीरति, सेसा नियमा तु लिंगाओ। वृ- 'द्वितीयः' विषयदुष्ट उपाश्रयादेः पाराश्चिकः क्रियते, क्षेत्रत इत्यर्थः, 'न लिङ्गाद्' लिङ्गपाराञ्चिको न विधीयते । अथ ततो दोषान्नोपरमते तदाऽनुपरमन् लिङ्गतोऽपि पाराञ्चिकः क्रियते। शेषाः' कषायदुष्ट-प्रमत्ता-ऽन्योन्यसेवाकारिणो नियमाद् लिङ्गपाराञ्चिकाः क्रियन्ते। किमेत एव पाराञ्चिकाः? अस्तीति ब्रूमः । कीशः सः ? इति चेद् उच्यते[भा.५०२८] इंदिय-पमाददोसा, जो पुन अवराहमुत्तमं पत्तो।
सब्भावसमाउट्टो, जति य गुणा से इमे होंति॥ वृ. इन्द्रियदोषात् प्रमाददोषाद्वा पाराश्चिकापत्तियोग्याद् यः पुनः साधुः 'उत्तमम्' उत्कृष्टमपराधपदं प्राप्तः स यदि 'सद्भावसमावृत्तः' 'निश्चयेन भूयोऽहमेवं न करिष्यामि' इति व्यवसितस्तदा स तपःपाराश्चिकः क्रियते, यदि च "से" तस्येमे गुणा भवन्ति ।।
के पुनस्ते? इत्याह[भा.५०२९] संघयण-विरिय-आगम-सुत्त-ऽत्य-विहीए जो समग्गो तु ।
तवसी निग्गहजुत्तो, पवयणसारे अभिगतत्थो । वृ- संहननं-वज्रऋषभनाराचम्, वीर्य-धृत्या वज्रकुड्यसमानता, आगमः-जघन्येन नवमपूर्वान्तर्गतमाचाराख्यंतृतीयं वस्तुउत्कर्षतोदशमपूर्वमसम्पूर्णम्, तच्च सूत्रतोऽर्थतश्च यदि परिजितं भवति, एतैः संहननादिभिर्विधिना च-तदुचितसमाचारेण यः 'समग्रः' सम्पूर्ण । 'तपस्वी नाम' सिंहनिक्रीडितादितपःकर्मभावितः । 'निग्रहयुक्तः' इन्द्रिय-कषायाणां निग्रहसमर्थ । 'प्रवचन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org