________________
१२७
उद्देशक : ४, मूलं-११२, [मा. ४९९४] एव स भवेत् विहितराजवध इत्यर्थः, एवमनेकविधः परपक्षदुष्टः । एष सर्वोऽपिलिङ्गपाराश्चिकः कर्तव्यः । 'योऽपिचआचार्यादिकः 'तं' राजवधकं परिकर्षति' वपियति सोऽपिलिङ्गपाराञ्चिको विधेयः ॥ अथ तृतीयभङ्ग उच्यते-परपक्षः स्वपक्षे दुष्टः स कथं भवति ? उच्यते-पूर्वं गृहवासे वसतो वादे पराजित आसीत्, स्कन्दकाचार्येण पालकवत्, वैरिको वा स तस्याऽऽसीत् ।
सपुनः कीशो भवेत् ? इत्याह[भा.४९९५] सन्नी व असन्नी वा, जो दुट्ठो होति तू सपरखम्मि ।
तस्स निसिद्धं लिंग, अतिसेसी वा वि दिनाहि ।। वृ-सच संजीवा असंज्ञी वा यःस्वपक्षे दुष्टो भवति तस्य लिङ्गं निषिद्धम्, प्रव्रज्या न दातव्येति भावः। अतिशयज्ञानी वा 'उपशान्तोऽयम्' इति मत्वा तस्यापि लिङ्गं दद्यात् ।।
अथ चतुर्थभङ्गः परपक्षः परपक्षे दुष्ट इति भाव्यते[भा.४९९६] रत्रो जुवरनोवा, वधतो अहवा वि इस्सरादीणं ।
. सो उसदेसिन कप्पइ, कप्पति अन्नम्मि अन्नाओ। वृ-यो राज्ञो वा युवराजस्य वा वधकःअथवाऽपिईश्वरादीनां घातकः ‘सतु' सपुनःस्वदेशे दीक्षितुंन कल्पते, किन्तु कल्पतेऽन्यस्मिन् देशेऽज्ञातो दीक्षितुम् ।। [भा.४९९७] इत्थ पुन अधीकारो, पढमिल्लग-बितियभंगदुद्धेहिं।
तेर्सि लिंगविवेगो, दुचरिमे वा लिंगदानं तु॥ वृ-अत्र पुनः प्रथम-द्वितीयभगदुष्टैरधिकारः, 'स्वपक्षः स्वपक्षे दुष्टः, स्वपक्षः परपक्षे दुष्टः' इत्याद्यभङ्गद्वयवर्तिभिरिति भावः । एतेषां लिङ्गविवेकरूपं पाराञ्चिकंदातव्यम् । अतिशयज्ञानी वा यदि जानाति 'न पुनरीशं करिष्यति' इति ततः सम्यगावृत्तस्य लिङ्गविवेकं न करोति । "दुचरिमे"ति तृतीय-चतुर्थलक्षणौ यौ द्वौ चरमभङ्गौ तयोः 'चा' विकल्पेन लिङ्गदानं कर्तव्यम् । किमुक्तंभवति? परपक्षः स्वपक्षेदुष्टः, परपक्षः परपक्षे दुष्टः' इतिभङ्गद्वये वर्तमानायधुपशान्ता इति सम्यग् ज्ञायन्ते ततो लिङ्गदानं कर्तव्यम्, अथ नोपशान्तास्ततो न प्रव्राज्यन्ते । प्रव्राजिता अपि तानि स्थानानि परिहार्यन्ते; एष वाशब्दसूचितोऽर्थः ।। अथ 'सर्षपनालादिदृष्टान्तप्रसिद्धा दोषा मा भूवन्' इति हेतोराचार्येण यथा सामाचारी स्थापनीया तथा प्रतिपादयन्नाह[भा.४९९८] सव्वेहि विघेत्तव्वं, गहणे य निमंतणेय जो तु विही ।
मुंजती जतनाए, अजतण दोसा इमे होति॥ वृ-सर्वैरपि साधुभिराचार्यप्रायोग्यं स्वस्वमात्रकेषुग्रहीतव्यम् । तथा ग्रहणे चनिमन्त्रणेचयो वक्ष्यमाणो विधि स सर्वोऽपि कर्तव्यः। एवं यतनया सूरयो भुञ्जते ।अयतनया तु भुजानानाम् 'इमे' वक्ष्यमाणा दोषा भवन्ति ।। एनामेव नियुक्तिगाथां भावयति[भा.४९९९] सब्वेहि वि गहियम्मी, थोवं थोवं तु के वि इच्छंति।
सव्वेसि न वि भुंजति, गहितं पि बितिज आदेसो ॥ वृ-सर्वैरपि आचार्यप्रायोग्ये गृहीते केचिदाचार्या इदमिच्छन्ति, यथा-तत एकैकस्य हस्तात् स्तोकं स्तोकं गृहीत्वा गुरुणा भोक्तव्यम्; एष प्रथम आदेसः । अपरे ब्रुवते-एकेनैव गुरुयोग्य ग्रहीतव्यम्, अथान्यैरपि गृहीतं ततस्तद्गृहीतमपितेषांसर्वेषांहस्तात् स्तोकस्तोकंन भोक्तव्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org