________________
१२६
बृहत्कल्प-छेदसूत्रम् -३-४/११२
गत्वा 'कुत्र तेषांशरीरम्?' इति पृच्छा कृता । गुरुभिश्च पूर्वमेव तदीयोवृत्तान्तः कथित आसीत्। "दायण"त्ति अकारप्रश्लेषात् ततस्तैराचार्यशरीरपरिष्ठापनाभूमिर्न दर्शिता । स चान्यतः श्रुत्वा गतो दन्तमञ्जनं कृतवान् । साधुभिश्च गुपिलस्थाने स्थितैः प्रतिचरणं कृतमिति ।।
अथ मुखानन्तकष्टान्तमाह[मा.४९९०] मुहनंतगस्स गहणे, एमेव य गंतु निसि गलग्गहणं ।
सम्मूढेणियरेण वि, गलए गहितो मता दो वि॥ वृ-एकेन साधुना मुखानन्तकमतीवोज्ज्वलं लब्धम्, तस्य च गुरुमिर्ग्रहणं कृतम् । तत्रापि 'एवमेव' पूर्वाख्यानकसशं वक्तव्यम् । नवरं तत् पुनर्मुखानन्तकं प्रत्यर्पयतोऽपि न गृहीतम् । ततो गुरुणा खगण एव मक्तंप्रत्याख्यातम् । निशायां विरहं लब्या मुखानन्तकं गृह्णासि' इति भणता गाडतरंगले ग्रहणं कृतम्। सम्मूढेनच 'इतरेणापि' गुरुणा स गलके ग्रहीतः । एवं द्वावपि मृतौ ।। उलूकाक्षष्टान्तमाह[भा.४९९१] अत्यंगए वि सिब्बसि, उलुगच्छी ! उक्खणामि ते अच्छी।
पढमगमो नवरि इहं, उलुगच्छीउ त्ति दोक्केति ॥ वृ- एकः साधुरस्तङ्गतेऽपि सूर्ये सीव्यन् अपरेण साधुना परिहासेन भणितः-उलूकाक्ष ! किमेवमस्तङ्गतेऽपि सूर्ये सीव्यसि? । सप्राह-एवं भणतस्तव द्वेअप्यक्षिणी उत्खनामि । अत्रापि सर्वोऽपि प्रथमाख्यानकगमो मन्तव्यः । नवरमिह स्वगणे प्रत्याख्यातभक्तस्य कालगतस्य रजोहरणाद् अयोमयी कीलिकामाकृष्य 'मां उलकाक्षं भणसि?' इति ब्रुवाणो द्वे अप्यक्षिणी उद्धृत्य तस्य दौकयति, "वैरं मया निमितम्' इति कृत्वा ।। शिखरिणीष्टान्तमाह[भा.४९९२] सिहरिणिलंभाऽऽलोयण, छंदिए सव्वाइते अउग्गिरणा ।
। भत्तपरिना अन्नहि, न गच्छती सो इहं नवरि।। वृ-एकेन साधुना उत्कृष्टा शिखरिणी लब्धा । साचगुरूणामालोचिता, तयाचगुरवः 'छन्दिताः' निमन्त्रिताः ।सा चतैः सर्वाऽप्यापीता। ततः स साधुः प्रद्वेषमुपगतोमारणार्थदण्डकमुद्रीणवान्। सगुरुभिःक्षामितोऽपियदा नोपशाम्यतितदा भक्तपरिज्ञाकृता।नवरमिह 'सः' आचार्योऽन्यस्मिन् गणे न गतः । तस्य च समाधिना कालगतस्य शरीरकं तेत दण्डकेन कुट्टितम् ॥
यत एते दोषास्ततो लोमस्तीव्रो न कर्तव्यः । प्रथा चाह[भा.४९९३] तिव्वकसायपरिणतो, तिब्बयरागाणि पावइ भयाइं।
मयगस्सं दंतमंजन, सममरणं ढोक्कनुग्गिरणा ।। वृ-तीव्राः उत्कटा ये कषायस्तेषु परिणतो जीवस्तीव्रतरकाणि भयानि प्राप्नोति । यथाप्रथम दृष्टान्तोक्तस्याचार्यस्य तीव्रलोभपरिणतस्य दन्तमञ्जनभयम्, द्वितीय दृष्टान्तोक्तयोस्तु शिष्याऽऽचार्ययोस्तीव्रक्रोधपरिणतयोः समकालंमरणम्, तृतीयहष्टान्तोक्तस्य दण्डकोद्गिरणम्। ईशाःस्वपक्षकषायदुष्टालिङ्गपाराञ्चिकाः कर्तव्याः॥ गतः प्रथमो मङ्गः अथद्वितीयभङ्गमाह[भा.४९९४] रायवधादि परिणतो,अहवा वि हवेज रायवहओ तु।
सो लिंगतो पारंची, जो विय परिकहती तंतु॥ वृ-राज्ञो राजामात्यस्य वा अपरस्य वा प्राकृतगृहस्यस्य वधाय परिणतः, अथवा राजवधक
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org