________________
१२४
बृहत्कल्प-छेदसूत्रम् -३-४/११२ शोऽयमपीति भावः, एष आक्रोश उच्यते। तर्जनातु- हुं हुंज्ञातंभवदीयं सङ्घत्वम्' इत्यादिका।।
अथ श्रुताशातनामाह[भा.४९७९] काया वया य ते च्चिय, ते चेव पमायमप्पमादा य ।
मोक्खाहिकारियाणं, जोतिसविज्ञासु किं च पुनो। वृ-दशवैकालिकोत्तराध्ययनादौ यत्तएव,ट्कायास्तान्येवच व्रतानि तावेव प्रमादाऽप्रमादौ भूयोभूय उपवर्ण्यन्ते तद् अतीवायुक्तम् । मोक्षाधिकारिणां च साधूनांज्योतिषविद्यासु पुनः किं नाम कार्य येन श्रुते ताः प्रतिपाद्यन्ते? ।। अथाऽऽचार्याशातनामाह[भा.४९८०] इड्डि-रस-सातगुरुगा, परोवदेसुजया जहा मंखा ।
अत्तट्ठपोसणरया, पोसेंति दिया व अप्पाणं ।। दृ- आचार्याः स्वभावादेव ऋद्धि-रस-सातगुरुकाः, तथा मझा इव परोपदेशोद्यताः, लोकावर्जनप्रसक्ता इति भावः, 'आत्मार्थपोषणरताः' स्वोदरभरणैकचेतसः । इदमेव व्याचष्टेद्विजा इवाऽऽत्मानममी पोषयन्ति ॥अथ गणधराशातनामाह[भा.४९८१] अब्भुवनयं विहारं देसिंति परेसि सयमुदासीना।
उवजीवंति य रिद्धिं, निस्संगा मोत्ति य भणंति॥ वृ- गणधरा गौतमादयो 'अभ्युद्यतं विहारं' जिनकल्पप्रभृतिकं परेषामुपदिशन्ति स्वयं पुनरुदासीनास्तं न प्रतिधन्ते, 'ऋद्धिं वा' अक्षीणमहानसिक-चारणादिकां लब्धिमुपजीवन्ति "निस्सङ्गा वयम्' इति च भणन्ति ॥अथ महर्द्धिकपदं व्याख्यानयति[भा.४९८२] गणधर एव महिड्डी, महातवस्ती व वादिमादी वा।
तित्थगरपढमसिस्सा, आदिग्गहणेन गहिता वा ॥ -इह गणधर एव सर्वलब्धिसम्पन्नतया महर्द्धिक उच्यते, यद्वा महर्द्धिको महातपस्वी वा वादि-विद्या-सिद्धप्रभृतिको वा भण्यते, तस्य यद् अवर्णवादादिकरणं सा महर्द्धिकाशातना । गणधरास्तु तीर्थकरप्रथमशिष्या उच्यन्ते, आदिग्रहणेन वा ते गृहीता मन्तव्याः॥
अथैतेषामाशातनायां प्रायश्चित्तमार्गणामाह[भा.४९८३] पढम-बितिएसु चरिमं, सेसे एकेक चउगुरू होति ।
सव्वे आसादितो, पावति पारंचियं ठाणं ।। -"तित्थयर वयण सुयं" इति गाथाक्रमप्रमाण्यात्प्रथमः-तीर्थङ्करोद्वितीयः-सङ्कस्तयोर्देशतः सर्वतोवाऽऽशातनायां पाराञ्चिकम्। शेषेषु श्रुतादिषुएकैकस्मिन् देशतःआशात्यमानेचतुर्गुरुकाः प्रायश्चित्तं भवन्ति । अथ सर्वतस्तान्याशातयति ततस्तेष्वपि पाराश्चिकं स्थानं प्राप्नोति ॥ [भा.४९८४] तित्थयरपढमसिस्स, एक्कं पाऽऽसादयंतु पारंची।
अत्थस्सेव जिणिंदो, पभवो सो जेन सुत्तस्स ॥ वृ-'तीर्थकरप्रथमशिष्यं गणधरमेकमप्याशातयन् पाराञ्चिको भवति । कुतः ? इत्याह'जिनेन्द्रः तीर्थकरःस केवलस्यैवार्थस्य 'प्रभवः' प्रथम उत्पत्तिहेतुः, सूत्रस्य पुनः स एव गणधरो येन कारणेन 'प्रभवः' प्रथमतः प्रणेता, ततस्तमेकमप्याशातयतः पाराञ्चिकमुच्यते।।
उक्त आशातनापाराश्चिकः सम्प्रति प्रतिसेवनापाराञ्चिकमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org