________________
उद्देशकः ४, मूलं-११२, [भा. ४९७२]
१२३ एक्केवम्मिय भयणा, सचरित्ते चेव अचरित्ते॥ वृ-पाराञ्चिकः समासेन द्विविधः, तद्यथा-आशातनापाराञ्चिकः प्रतिसेविपाराञ्चिकश्च । पुनरेकैकस्मिन् द्विविधा भजना कर्तव्या । कथम् ? इत्याह-द्वावप्येतौ सचारित्रिणो वा स्यातामचारित्रिणौ वा ।। कथं पुनरेषा भजना? इत्याह[भा.४९७३] सव्वचरित्तं भस्सति, केनति पडिसेवितेन तु पदेनं।
कत्थति चिट्ठति देसो, परिणामऽवराहमासज्ज ।। वृ-केनचिदपराधपदेन पाञ्चिकापत्तियोग्येन प्रतिसेवितेन सर्वमपि चारित्रं भ्रश्यति, कुत्रापि पुनः चारित्रस्य देशोऽवतिष्ठते । कुतः ? इत्याह- परिणाम' तीव्र-मन्दादिरूपम् 'अपराधं च' उत्कृष्ट-मध्यम-जघन्यरूपमासाद्य चारित्रं भवेद्वान वा । इदमेव भावयति[भा.४९७४] तुल्लम्मि वि अवराधे, परिणामवसेण होति नाणत्तं ।
कत्थति परिणामम्मि वि, तुल्ले अवराहनाणत्तं ॥ वृ-तुल्येऽप्यपराधे परिणामवशेन' तीव्र-मन्दाद्यध्यवसायवैचित्र्यबलात् चारित्रपरिभ्रंशादी नानात्वं भवति, कुत्रचित् पुनः परिणामे तुल्येऽपि 'अपराधनानात्वं' प्रतिसेवनावैचित्र्यं भवति।। अथाशातनापाराञ्चिकं व्याचिख्यासुराह[भा.४९७५] तित्थकर पवयण सुते, आयरिए गणहरे महिड्डीए।
एते आसायंते, पच्छित्ते मग्गणा होइ ।। वृ-तीर्थकरप्रक्चनं श्रुतमाचार्यान्गणधरान्महर्द्धिकांश्च, एतान्यआशातयतितस्य प्रायश्चित्ते वक्ष्यमाणलक्षणा मार्गणा भवति ।। तत्र तीर्थकरं यथाऽऽशातयति तथाऽभिधीयते[भा.४९७६] पाहुडियं अनुमन्नति, जाणतो किं व भुंजती भोगे।
थीतित्थं पिय वुचति, अतिकक्खडदेसणा यावि ॥ दृ- 'प्राभृतिकां' सुरविरचितसमवसरण-महाप्रातिहार्यादिपूजालक्षणामर्हन् यद् अनुमन्यते तत्र सुन्दरम् । ज्ञानत्रयप्रमाणेन च भवस्वरूपंजानन् विपाकदारुणान् भोगान् किमितिभुङ्क्ते? मल्लिनाथादेश्चस्त्रियाअपियत्तीर्थमुच्यतेतद् अतीवासमीचीनम्। 'अतिकर्कशा' अतीवदुरनुचरा तीर्थकरैः सर्वोपायकुशलैरपि वा देशना कृता साऽप्ययुक्ता ।। [भा.४९७७] अनं व एवमादी, अवि पडिमासु वि तिलोगमहिताणं ।
पडिरूवमकुव्वंतो, पावति पारंचियं ठाणं॥ वृ-अन्यमप्येवमादिकंतीर्थकृतामवर्ण यो भाषते, तथा अपी' त्यभ्युच्चये, 'त्रिलोकमहितानां' भगवतां याः प्रतिमास्तास्वपि यद्यवर्णं भाषते, यथा-'किमेतासां पाषाणादिमयीनां माल्याऽलङ्कारादिपूजा क्रियते?' एवं ब्रुवन्, 'प्रतिरूपंवा विनयं वन्दन-स्तुति-स्तवादिकंतासामवज्ञाबुध्या अकुर्वन् पाराश्चिकं स्थानं प्राप्नोति ॥अथ प्रवचन-सङ्घस्तस्याशातनामाह[भा.४९७८] अक्कोस-तज्जणादिसु, संघमहिक्खिवति संघपडिनीतो।
अन्ने वि अस्थि संघा, सियाल-नंतिक्क-ढंकाणं ॥ वृ-यः सङ्घप्रत्यनीकः सः “अकोस-तज्जणाइसु"त्तिविभक्तिव्यत्ययाद् आक्रोश-तर्जनादिभिः सङ्घमधिक्षपति । यथा-सन्त्यन्येऽपि शृगाल-नान्तिक्क-ढङ्कप्रभृतीनां सङ्घाः, याशास्ते ता:
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only