________________
१२२
बृहत्कल्प-छेदसूत्रम् -३-४/१११
मा.४९६८] एत्थं पुन अधिकारो, अनुघाताजेसु जेसु ठाणेसु ।
उन्नारियसरिसाई, सेसाई विकोवणट्ठाए ।। वृ-'अत्र पुनः' प्रस्तुतसूत्रे हस्तकर्म-मैथुन-रात्रिभक्तविषयैः स्थानैः 'अधिकारः प्रयोजनम्। कैः? इत्याह-येषुयेषु स्थानेषु अनुद्धातानि' गुरुकाणि प्रायश्चित्तानिभणितानि तैरेवाधिकारः। 'शेषाणि' लघुप्रायश्चित्तसहितानि स्थानानि पुनरुच्चारितार्थसध्शानि शिष्याणां विकोपनार्थमुक्तानि ।।
मू. (११२) तओ पारंचिया पन्नत्ता, तंजहा-दुढे पारंचिए, पमत्ते पारंचिए, अन्नमन्त्रं करेमाणे पारंथिए।
वृ-अस्य सम्बन्धमाह[भा.४९६९] वुत्ता तवारिहा खलु, सोधी छेदारिहा अधइदानि ।
देसे सब्वे छेदो, सब्वे तिविहो तुमूलादी ।। वृ-तपोर्हा शोधिः खलु पूर्वसूत्रे प्रोक्ता, अथेदानी छेदार्हाऽभिधीयते । स च छेदो द्विधादेशतःसर्वतश्चादेशच्छेदः पञ्चरात्रिन्दिवादिकः षण्मासान्तः । सर्वच्छेदः मूलादि' मूला-ऽनवस्थाप्यपाराञ्चिकभेदात् त्रिविधः । अत्र सर्वच्छेदः पाराञ्चिकलक्षणोऽधिक्रियते ।। आह यद्येवं तर्हि[भा.४९७०] छेओ न होइ कम्हा, जति एवं तत्य कारणं सुणसु ।
अनुघाता आरुवणा, कसिणा कसिणेस संबंधो । वृ-छेद एव सूत्रेऽपि कस्मान्न भवति ?, "ततो छेदारिहा पन्नत्ता, तं जहा-दुढे छेदारिहे" इत्यादिसूत्रं किमर्थं न पठितम् ? इति भावः । सूरिराह-यद्येवं भवदीया बुद्धिस्ततोऽत्र कारणं शृणु-या किलादिसूत्रेऽनन्तरोक्तेऽनुद्धाताख्याऽऽरोपणा भणिता सा 'कृत्स्ना गुरुकेत्यर्थः, इयमपि पाराञ्चिकाख्याऽऽरोपणा कृत्स्नैव, अतः तृत्स्नाया आरोपणाया अनन्तरं कृत्स्नैवारोपणाऽभिधीयते।एष सम्बन्धः अनेन सम्बन्धेनायतस्यास्य व्याख्या-त्रयःपाराञ्चिकाःप्रज्ञप्ताः। तद्यथा-दुष्टः पाराश्चिकः, प्रमत्तः पाराश्चिकः, 'अन्योन्यं' परस्परं मुख-पायुप्रयोगतः प्रतिसेवनां कुर्वाणः पाराश्चिक इति सूत्रसमासार्थः ॥ अथ विस्तरार्थं भाष्यकृद् विभणिषुराह[भा.४९७१] अंचु गति-पूयणम्मि य, पारं पुनऽनुत्तरं बुधा बिंति ।
सोधीय पारमंचइ, न यावि तदपूतियं होति ।।। वृ-“अञ्च गति-पूजनयोः" इति वचनाद् अधुर्धातुर्गती पूजने चात्र गृह्यते । तत्र गत्यर्थो यथा-पारं-तीरंगच्छति येन प्रायश्चित्तेनासेवितेन तत्पाराश्चिकम् । अथ पारं किमुच्यते? इत्याह'पारंपुनः संसारसमुद्रस्यतीरभूतम् 'अनुत्तरं निर्वाणं 'बुधाः' तीर्थकृदादयो ब्रुवते,अनेनासेवितेन साधुर्मोक्षं गच्छतीति भावः । तद् यस्यापद्यते सोऽप्युपचारात् पाराञ्चिक उच्यते । यद्वा शोधेः 'पारं' पर्यन्तमञ्चति यत् तत् पाराञ्चिकम्, अपश्चिमं प्रायश्चित्तमित्यर्थः । पूजार्थो यथा-'न चापि' नैव तत्' प्रायश्चित्तपारगमनमपूजितं किन्तु पूजितमेव, ततो येन तपसा पारंप्रापितेन अञ्चयतेश्रीश्रमणसङ्घन पूज्यते तत् पाराञ्चिकं पाराञ्चितं वाऽभिधीयते । तद्योगात् साधुरपि पाराञ्चिकः। अथ तमेव भेदतः प्ररूपयति
[भा.४९७२] आसायण पडिसेवी, दुविहो पारंचितो समासेणं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org