________________
११९
उद्देशकः ४, मूलं-१११, [भा. ४९५३] भक्तप्रत्याख्यानं तां करिष्यामीति यः परिणतस्तस्य षड्गुरुकाः॥ [भा,४९५४] मा सीदेज पडिच्छा, गच्छो फिट्टेज थेर संघेछ।
गुरुणं वेयावचं, काहं ति य सेवतो लहुओ॥ वृ-'मा प्रतीच्छकाः सीदेयुः' इति बुध्धा यः सेवते तस्य षड्लघुकाः । यस्तु मां विना गच्छः स्फिटेत्' इत्यालम्बते तस्य चतुर्गुरु । 'स्थविरान् सङ्ग्रहीष्यामि' इति कृत्वा सेवमानस्य चतुर्लघु । 'गुरूणां वैयावृत्यं करिष्ये' इति हेतोः सेवमानस्य लघुमासः ।।
उक्ता प्रायश्चित्तस्य हानिः । अथ वृद्धिमाह[भा.४९५५] लहुओ उ होति मासो, दुब्भिक्खऽविसज्जणे य साहूणं ।
नेहानुरागरत्तो, खुड्डो चिय नेच्छए गंतुं। [भा.४९५६] कालेनेसनसोधि, पयहति परितावितो दिगिंछाए ।
अलभते चिय मरणं, असमाही तित्थवोच्छेदो॥ वृ-'इह दुर्भिक्षं भविष्यति' इति मत्वा सूरिभिरनागतमेव गच्छं गृहीत्वा निर्गन्तव्यम् । अथ स्वयं जसाबलपरिक्षीणास्ततः साधवो विसर्जनीयाः । अथ न विसर्जयन्ति तत आचार्यस्यासामाचारीनिष्पन्नो लघुको मासो भवति आज्ञादयश्च दोषाः । एते चापरे तत्र दोषा भवन्ति-स गच्छोदुर्भिक्षेभक्त-पानमलभमानः “दिगिंछाए"त्ति बुभुक्षया परितापितः सन् 'कालेन कालक्रमेण एषणाशुद्धिमपि प्रजहाति, मरणमपि चासमाधिना भक्तमलभमानस्य भवेत, तीर्थव्यवच्छेदश्च भवति, अतो विसर्जनीयः सर्वोऽपि गच्छः । तत्र च विसर्जिते किं भवति? इति अत आह"नेहानुराग" इत्यादि पूर्वगाथायाः पश्चार्द्धम् । स्नेहानुरागरक्तः कश्चित् क्षुल्लको नेच्छति गन्तुं परमनिच्छन्नपि प्रेषितः। ततोऽसौ गुरुस्नेहानुरागपरवशोदेशस्कन्धात्पलायित्वा प्रतिनिवृत्तः। सूरिभिरभिहितम् दुष्ठु त्वया कृतं यदेवं भूयः प्रत्यागतः। आचार्याश्च स्वयं केषुचिनिश्रागृहेषु यां भिक्षालभन्ते तस्याः संविभागंक्षुल्लकस्य प्रयच्छन्ति। ततः क्षुल्लकश्चिन्तयति-अहो! मया गुरवोऽपि क्लेशिताः। ततः स पृथग भिक्षां हिण्डितः। तत्रैका प्रोषितपतिका क्षुल्लकमुपसर्गयन्ती भणतियदि मया सार्धं तिष्ठसि ततो यथेष्टं ते भक्तं पूरयिष्यामीति ॥ एवं च[भा.४९५७] भिक्खं पिय परिहायति, भोगेहिं निमंतणाय साहुस्स।
गिण्हति एकंतरियं, लहुगा गुरुगा चउम्भासा॥ वृ-भैक्षमपि दुर्भिक्षानुभावेन परिहीयते भोगैश्च निमन्त्रणा तस्य साधोः समजनि ततः स चिन्तयति-यद्येनांप्रतिसेवितुं नेच्छामिततो भक्ताभावदसमाधिमरणेन प्रिये, अतः साम्प्रतं तावत् प्रतिसेवे, पश्चाद् दीर्घ कालं संयम पालयिष्यामि सूत्रार्थौ च ग्रहीष्यामि एतप्रत्ययं च प्रायश्चित्तं चरिष्यामि; एवं चिन्तयित्वा यतनां करोति । कथम्? इत्याह-"गिण्हई" इत्यादि, एकान्तरितं भक्तं गृह्णाति प्रतिसेवते च । तत्र प्रथमदिवसे प्रतिसेवमानस्य चत्वारो लधुमासाः । द्वितीये दिनेऽभक्तार्थेन स्थित्वा तृतीये दिने प्रतिसेवमानस्य चत्वारो गुरुमासाः ॥ _[भा.४९५८] पडिसेवंतस्स तहिं, छम्मासा छेदो होति मूलं च ।
अणवठ्ठप्पो पारंचिओ य पुच्छा यतिविहम्मि॥ - एवमेकान्तरितं भक्तं गृह्णतस्तां च 'तत्र' ताशे दुर्मिक्षे प्रतिसेवमानस्य पञ्चम
Jain Education International
For Private & Personal Use Only
For
www.jainelibrary.org