________________
११८
बृहत्कल्प - छेदसूत्रम् - ३-४/१११
साधुषु ये तरुणाः अनघबीजाः - अविनष्टबीजास्तेषां लक्षणादिभिर्ज्ञात्वा रोधः नियन्त्रणा कृता, शेषास्तु क्षुल्लक- स्थविरादयो विसर्जिताः । यद्वा "तरुण रोहे "त्ति पाठः, ते तरुणाः 'अवरोधे ' अन्तःपुरे तरुणस्त्रभि सार्धं बलाद् भोगान् भोजयितुमारेभिरे । राजपुरुषाश्च घोररूपधारिणो भणन्ति यदि भोगान्न भोक्ष्यध्वे ततो वयं मारयिष्यामः । तत्रैकः साधुः
"वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्यु सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम् ॥” इत्यादि परिभाव्य मर्तुमध्यवसितः, तस्यैवमनिच्छतो राजपुरुषैः शिरश्छिन्नम् । “एगेसिं पडिमदायणय'त्ति 'एकेषाम् आचार्याणामयमभिप्रायः, यथा मन्दरप्रकाशे प्रदेशे लेप्यप्रतिमाया लाक्षारसपूर्णायाः शीर्षं छित्त्वा दर्शितम्, ततः साधवो भणिताः यथैतस्य शिरश्छिन्नम् एवं भवतामपि शिरश्छेदो विधास्यते ।। इदमेव भावयति
[भा. ४९५०] तरुणीण य पक्खेवो, भोगेहि निमंतणं च भिक्खुस्स । भोत्तुं अनिच्छमाणे, मरणं च तहिं ववसियस्स ।।
वृ-तरुणीनां साधुभिः सहान्तःपुरे प्रक्षेपः कृतः, भोगैश्चैकस्य भिक्षोः प्रथमतो निमन्त्रणं कृतम्, तस्य च भोक्तुमनिच्छतो मरणं च तत्र व्यवसितस्य शिरश्छेदश्चक्रे ॥
[ भा. ४९५१]
दवण तं विससणं, सहसा साभावियं कइतवं वा । विगुरुव्विया य ललना, हरिसा भयसा व रोमंचो ॥
वृ- 'तत्' तथाविधं 'विशसनं' व्यपरोपणं 'स्वाभाविकं' साधोरेव 'कैतविकं वा' प्रतिमायाः क्रियमाणं सहसा ष्ट्वा 'विकुर्विताश्च' अलङ्कृत-विभूषिता ललना विलोक्य कस्यापि हर्षेण भयेन वा रोमाञ्च भवेत् । सकारोऽलाक्षणिकः । अत्रैव प्रायश्चित्तमाह
[मा. ४९५२] सुद्धल्लसिते भीए, पच्चक्खाणे पडिच्छ गच्छ थेर विदू । मूलं छेदो छम्मास चउर गुरु-लहु लहुग मासो ॥
वृ- यस्तावद् मरणमध्यवसितः स शुद्धः । द्वितीयः उल्लसितः - 'एतेनापि मिषेण स्त्रियं प्राप्स्यामः' इति बुध्या उद्धुषितरोमकूपः सञ्जातस्तस्य मूलम् । अपरः- यदि न प्रतिसेवे ततो मम शिरश्छिद्यते; एवं भीतस्य प्रतिसेवमानस्य च्छेदः । अपरचिन्तयति-अहमेवं मार्यमाणः समाधिं नासादयिष्यामि, असमाधिमरणेन च दुर्गतिङ्गमी, अतो भक्तप्रत्याख्यानं कृत्वा मरिष्ये; एवं सेवमानस्य षड्गुरवः । अपर इदमालम्बनं करोति - अहं जीवन् प्रतीच्छकानां वाचनां दास्यामि; तस्य षड्लघवः । अपर इदमालम्बनं करोति-अहं जीवन प्रतीच्छकानां वाचनां दास्यामि; तस्य चतुर्लघुकम् । अपरः परिभावयति-विद्वांसः-आचार्यस्तेषां वैयावृत्यकर्ता कोऽपि न विद्यते तदर्थं प्रतिसेवे; तस्य मासलघुकम् ॥ इदमेव व्याख्याति
[भा.४९५३] निरवहयजोणिथीणं, विउव्वणं हरिसमुल्लसिते मूलं ।
भय रोमंचे छेदो, परिन काहं ति छग्गुरुगा ॥
वृ-पञ्चपञ्चाशतो वर्षाणामुपरिष्टादुपहतयोनिका स्त्री भवति, तेषामारतो अनुपहतयोनिका, गर्भं गृह्णातीत्यर्थः । एवं निरपहतयोनिकस्त्रीणां 'विकुर्वणं' मण्डनं दृष्टवा यस्य हर्ष समुल्लसति ततश्चाब्रह्म प्रतिसेवमानस्य तस्य मूलम् । यस्य तु भयेन रोमाञ्च उत्पद्यते तस्य च्छेदः । परिज्ञा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org