________________
११७
उद्देशक : ४, मूलं-१११, [भा. ४९४५] [मा.४९४५] संजमजीवितहेउं, कुसलेनालंबनेन वऽनेणं ।
भयमाणे तु अकिच्चं, हानी वड्डी व पच्छित्ते ।। वृ-'संयमजीवितहेतोः 'चिरकालं संयमजीवितेन जीविष्यामि' इति बुध्द्या ‘कुशलेन वा' तीर्थाव्यवच्छित्त्यादिलक्षणेनान्येनाप्यालम्बनेन 'अकृत्यम्' अब्रह्म ‘भजमानस्य' आसेवमानस्य प्रायश्चित्ते हानि वृद्धि, वक्ष्यमाणनीत्या भवति॥
आह-मैथुने कल्पिका सर्वथैव न भवति? इति अत आह[भा.४९४६] गीयत्थो जतनाए, कडजोगी कारणम्मि निदोसो ।
- एगेसिं गीत कडो, अरत्तऽदुट्ठो तुजतनाए॥ -गीतार्थ यतनया' अल्पतरापराधस्थानप्रतिसेवारूपया कृतयोगी' तपः कर्मणि कृताभ्यासः 'कारणे' ज्ञानादौ सेवते, एष प्रथमो भङ्गः, अत्रच प्रतिसेवमानः कल्पिकप्रतिसेवावानिति कृत्वा निर्दोषः । गीतार्थो यतनया कृतयोगी निष्कारणे, एष द्वितीयो भङ्गः, अत्र सदोषः । एवं चतुर्णा पदानांषोडश भङ्गाः कर्तव्याः। एकेषां पुनराचार्याणामिह पञ्चपदानि भवन्ति-गीतार्थ कृतयोगी अरक्तो अद्विष्टो यतनया सेवते, एष प्रथमो भङ्गः गीतार्थः कृतयोगी अरक्तोऽद्विष्टोऽयतनया, एष द्वितीयो भङ्ग एवं पञ्चभिः पदैात्रिंशद्भगाभवन्ति। अत्रापि प्रथमभङ्गे कल्पिका प्रतिसेवा मन्तव्या, न शेषेषु ॥आह-यदि तत्र कल्पिका तर्हि निर्दोष एवासौ, उच्यते[भा.४९४७] जति सव्वसो अभावो, रागादीणं हविज निघोसो।
जतणाजुतेसु तेसुतु, अप्पतरं होति पच्छितं ।। वृ-यदि 'सर्वशः' सर्वप्रकारेणैव रागादीनामभावो मैथुने भवेत्ततो भवेन्निर्दोषः,तच नास्ति, अतो न तत्र सर्वथा निर्दोषः, परं यतनायुतेषु 'तेषु' गीतार्थादिविशेषणविशिष्टेषु साधुष्वल्पतरं प्रायश्चित्तं भवति ।।अथ यदुक्तम्-“हानिर्वृद्धि प्रायश्चित्ते भवति" तत्र हानिंतावद् विवरीषुराह[भा.४९४८] कुलवंसम्मि पहीणे, रजं अकुमारगं परे पेल्ले।
तंकीरतु पक्खेवो, एत्य य वुद्धीए पाधन्नं ।। वृ-कश्चिद् नृपतिरनपत्यः समन्त्रिणाप्रोक्तः-यूयमपुत्रिणस्ततः कुलवंशेप्रक्षीणे राज्यमकुमारकं मत्वा परे राजानः प्रेरयेयुः ततः क्रियतामपरपुरुषप्रक्षेपः, स चोपायेन तथा कर्तव्यः यथा लोके अपयशः प्रवादो न समुच्छलति कुमारश्चोत्पद्यते, 'अत्र च' उफायनिरूपणे बुद्धेः प्राधान्यम्, तयैवासौ सम्यक परिज्ञायते नान्यथेति भावः । इदमेव सविशेषमाह[भा.४९४९] सामत्थ निव अपुत्ते, सचिव मुनी धम्मलक्ख वेसनता ।
अणहबियतरुणरोधो, एगेसि पडिमदायणता। वृ-'अपुत्रे' अपुत्रस्य नृपस्य सचिवेन सह "सामस्थणं" पर्या लोचनम्, यथा-कथं नाम कुमारः सम्भविता? । ततो मन्त्रिणा भणितम्-यथा परक्षेत्रेऽपरेण बीजमुप्तं क्षेत्रस्वामिन आभाव्यं भवति एवंतवान्तःपुरक्षेत्रेऽन्येनापि बीजंनिसृष्टं तवैवपुत्रोभवति।राज्ञा प्रतिपन्नतद्वचनम्। भूयोऽप्यमात्यः प्राह-ये मुनयोऽयशःप्रवादाल्लञ्जन्तेते धर्मलक्ष्येण धर्मकथाकारापणव्याजेन यद्वा "धम्मलखे"ति ‘राजा सान्तःपुरः श्रावको गृहेऽर्हतांप्रतिमाःशुश्रूषतेताःसाधवो वन्दितुमागच्छत' इत्येवंधर्मव्याजेन "वेसनय"त्ति प्रवेशनीयाः । एवममात्यवचनं प्रतिपद्य राज्ञा तथैव कृतम्। ततो राजगृहं प्रविष्टेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org