________________
१२०
वृहत्कल्प-छेदसूत्रम् -३-४/१११
सप्तमयोर्दिनयोर्यथाक्रमं षण्मासा लघवो गुरवश्च भवन्ति, ततो नवमे दिने च्छेदः, तत एकादशे मूलम्, तदनन्तरं त्रयोदशे दिवसेऽनवस्थाप्यम्, ततः पञ्चदशे दिवसेप्रतिसेवमानस्यपाराञ्चिकम्। अथ निरन्तरं प्रतिसेवते तदा द्वितीयदिवस एव मूलम् । एषा वृद्धिरभिहिता । "पुच्छा य तिविहम्मि"त्तिशिष्यः पृच्छति-'त्रिविधे' दिव्य-मानुष्य-तैरश्चलक्षणेमैथुनेकथमभिलाष उत्पद्यते? ॥ सूरिराह[भा.४९५९] वसहीए दोसेणं, दटुं सरिउं व पुव्वभुत्ताई।
तेगिच्छ सद्दमादी, असज्जणा तीसु वी जतणा ।। वृ-'वसतेयॊषेण' स्त्री-पशु-पण्डकसंसक्तिलक्षणेन, यद्वा स्त्रयम् आलिङ्गनादिकं वा दृष्टवा, गृहस्थकाले वा यानि स्त्रीभिसाधं भुक्तानि वाहसितानिवाललितानिवा तानि स्मृत्वा मैथुनभाव उत्पद्यते । एवमुत्पन्ने किं कर्तव्यम् ? इत्याह-"तेगिच्छ" इत्यादि, चिकित्सा कर्तव्या, सा च निर्विकृतिकप्रभृतिका । तामतिक्रान्तस्यशब्दादिका वायतना कर्तव्या।किमुक्तं भवति? - यत्र स्थाने स्त्रीशब्दरहस्यशब्दंवा शृणोति तत्र स्थविरसहितःस्थाप्यते, आदिशब्दाद् यत्रालिङ्गनादिकं पश्यति तत्रापि स्थाप्यते । “असज्जण"त्ति तस्यांशब्दश्रवणादिरूपायां चिकित्सायां सजन-सङ्गो गृद्धिरित यावत् सा तेन न कर्तव्या । एवं त्रिष्वपि दिव्यादिषु मैथुनेषु यतना मन्तव्या ।।
इदमेव सविशेषमाह[भा.४९६०] बिइयपदे तेगिंछ, निव्वीतियमादिगं अतिक्कते।
सनिमित्तऽनिमित्तो पुन, उदयाऽऽहारे सरीरे य ।। वृ-द्वितीयपदे निर्विकृतिका-ऽवमौदरिका-निर्बलाहारोर्ध्वस्थाना-5ऽचाम्ला-ऽभक्तार्थ-षष्ठाऽष्टमादिरूपां चिकित्सामतिक्रान्तस्य शब्दादिकाऽनन्तरोक्ता यतना भवति । एषा च सनिमित्तेऽनिमित्ते वा मैथुनाभिलाषे भवति । तत्र सनिमित्तो वसतिदोषादिनिमित्तसमुत्थः, अनिमित्तः पुनः कर्मोदयेन १ आहारतः २ शरीरपरिवृद्धितश्च ३ य उत्पद्यते । सर्वमेतद् यथा निशीथे प्रथमोद्देशके भणितं तथैव द्रष्टव्यम् ॥गतं मैथुनम् । अथ रात्रिभोजनमाह[भा.४९६१] रातो य भोयणम्मिं, चउरो मासा हवंतऽनुग्घाया।
. आणादिणो य दोसा, आवजण संकणा जाव। वृ-रात्रौ भोजने क्रियमाणेचत्वारोमासाः 'अनुद्धाताः' गुरवो भवन्ति आज्ञादयश्च दोषाः।ये चप्राणातिपातादिविषया आपत्ति-शङ्कादोषाः परिग्रहस्यापत्तिं शङ्कां च यावत् प्रथमोद्देशके "नो कप्पइ राओ वा वियाले वा असनं वा ४" इत्यादी रात्रिभक्तसूत्रे इहैवाभिहितास्ते सर्वेऽपि द्रष्टव्याः ॥अथ द्वितीयपदमाह[मा.४९६२] निरुवद्दवं च खेमंच, होहिति रन्नो य कीरतू संती ।
अद्धाणनिग्गतादी, देवी पूयाय अग्झियगं ॥ वृ-उपद्रवो नाम-अशिवं गलरोगादिकं वा, तस्याभावो निरुपद्रवम् । क्षेमं परचक्राद्युपप्लवाभावः । ततः 'निरुपद्रवं च क्षेमं च मदीये देशे भविष्यति' इति परिभाव्य राजा शान्ति कर्तुकामस्तपखिनो रात्रौ भोजयेत् । यद्वा राजपुत्रो वा नागरा वा ‘राज्ञः शान्ति क्रियताम्' इति कृत्वा ये रात्रौ न भुञ्जते सुतपखिनश्च ते रात्री भोजनीयाः, एष तस्या विद्याया उपचार इति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only