SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ ११४ बृहत्कल्प - छेदसूत्रम् - ३-४/१११ व"त्ति विभक्तिव्यत्ययाद् यथा वा तीक्ष्णेन नदीपूरेण कृतप्रयत्नोऽपि पुरुषो हियते, 'विजले वा' कर्दमाकुले वा व्रजन् प्रयत्नं कुर्वाणोऽप्यवशः पतनं यथा प्राप्नोति, तथा श्रमणसुविहितानां सर्वप्रयलेनापि निर्विकृतिकविधान-वाचनाप्रदानादिना यतमानानां वसतिदोषेणानाचारदर्शनाद् मोहोदयः सञ्जायते । ततश्च 'कर्मोदयप्रत्ययिका' वेदमोहनीयकर्मोदयहेतुका कस्यचिदनगारस्य चारित्रविराधना भवेत् । एवमसावुदीर्णमोहो धृतिदुर्बलस्तमुदयमधिसोढुमशक्तो हस्तकर्म करोति तत्र प्रायश्चित्तमाह [ भा. ४९३१] पढमाए पोरिसीए, बितिया ततियाए तह चउत्थीए । मूलं छेदो छम्मासमेव चत्तारि या गुरुगा ।। वृ-प्रथमायां पौरुष्यां हस्तकर्म करोति मूलम्, द्वितीयायां छेदः, तृतीयायां षण्मासा गुरवः, चतुर्थ्या चत्वारो मासा गुरवः ।। एनामेव नियुक्तिगाथां व्याचष्टे [भा. ४९३२] निसि पढमपोरिसुब्भव, अदढधिती सेवने भवे मूलं । पोरिसिपोरिसिसहने, एक्केक्कं ठाणगं हसइ ॥ वृ-'निशि' रात्रौ प्रथमपौरुष्यां मोहोद्भवो जातः तस्यामेवाध्ढधृतिर्यदि हस्तकर्म सेवते तदा मूलम् । अथ प्रथमपौरुषीमधिसह्य द्वितीयायां सेवते छेदः । द्वे पौरुष्यावधिसह्य तृतीयायां सेवते षड्गुरवः । तिस्रः पौरुषीरधिसह्य चतुर्थ्या सेवमानस्य चतुर्गुरुकाः । एवं पौरुषीपौरुषीसहने एकैकं प्रायश्चित्तस्थानं हसति ।। [भा.४९३३] बितियम्मि वि दिवसम्मिं, पडिसेवंतस्स मासियं गुरुअं । छडे पच्चक्खाणं, सत्तमए होति तेगिच्छं ।। I वृ एवं रात्री चतुरो यामानधिसह्य द्वितीये दिवसे प्रथमपौरुष्यां प्रतिसेवमानस्य मासगुरुकम् । ततः परं सर्वत्रापि मासगुरुकम् । लघूनि तु प्रायश्चित्तानि अत्र न भवन्ति, अत एवेदं हस्तकर्मसेवनमनुद्धातिकमुच्यते । एवमसौ प्रतिसेव्य सङ्घाटिकस्यान्यस्य वा कस्याप्यालोचयेत् । स च प्रागुक्तहस्तकर्मकारकसाधुपञ्चकापेक्षया षष्ठः साधुस्तं प्रति ब्रवीति यत् कृतं तदकृतं न भवति, सम्प्रति भक्तप्रत्याख्यानमङ्गीकुरु । सप्तमके चैकित्स्यं भवति । इयमत्र भावना- सप्तमो ब्रवीति-अस्य मोहोदयस्य निर्विकृतिका ऽवमौदरिकादिरूपा चिकित्सा कर्तव्या ॥ तथा[मा. ४९३४] पडिलाभणऽट्ठमम्मिं, नवमे सही उवस्सए फासे । दसमम्मि पिता-पुत्ता, एक्कारसमम्मि आयरिए । - अष्टमे साधौ प्रतिलाभनाया उपदेशो भवति । नवमो ब्रूते - श्राद्धिका उपाश्रये समानीयते सा भवतः शरीरं स्पृशेत् । दशमे साधौ - पिता पुत्रौ युवां सज्ञातिकग्रामं गत्वा चिकित्सां कुरुतमित्युपदिशति । एकादशे सङ्घाटिकसाधौ आचार्या इत्युल्लेखेनोपदेशो भवति किमुक्तं भवति?एकादशी ब्रवीति-यदाचार्या आदिशन्ति तद् विधेहि । अयं शुद्धः ॥ शेषेषु प्रायश्चित्तमाह [ भा. ४९३५ ] छट्टो य सत्तमो या, अहसुद्धा तेसि मासियं लहुयं । उवरिल्ल जं भणंती, थेरस्स वि मासितं गुरुगं ॥ ▼ वृ षष्ठ- सप्तमौ ' यथाशुद्धी' न दोषयुक्तमुपदेशं ददाते, यतश्च गुरूणामुपदेशमन्तरेम स्वेच्छया भणतस्ततो मासिकं लघुकं तयोः प्रायश्चित्तम् । 'उपरितनाः' अष्टम नवम - दशमा यत् सदोषमुपदेशं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy