________________
उद्देशक : ४, मूलं-१११, [भा. ४९२५] यदि नृपस्यान्तिके साधूनाकर्षति तदा करणे गत्वा कारणिकादीनां व्यवहारो दीयते । तत्र च श्रीगृहोदाहरणं कर्तव्यम्। यथा-यदि राज्ञः श्रीगृहे रत्नापहारं कुर्वन् कश्चिच्चौरः प्राप्यते ततस्तस्य कं दण्डं प्रयच्छथ ? । कारणिकाः प्राहु:-शिरस्तदीयं गृह्यते । साधवो भणन्ति-अस्माकमप्येषा रत्नापहारिणी अव्यापादिता मुधैव मुक्ता । ते प्राहु:-कानि युष्माकं रत्नानि? | साधवो भणन्तिज्ञानादीनि । कथं तेषामपहारः? । अनाचारप्रतिसेवनादपध्यानगमनादिनेति ।।
अथ सस्त्रीकः पुरुषः समागच्छेत् सोऽपि वारणीयः । तथा चाह[भा.४९२६] अहिकारो वारणम्मि, जत्तिय अप्फुन्न तत्तिया वसही।
अतिरग दोस भगिनी, रत्तिं आरद्धे निच्छुभणं ॥ वृ-यत्र केवला पुरुषमिश्रिता वा स्त्री समागच्छति तत्र सर्वत्रापि वारणायामधिकारः, सा कर्तव्योति भावः । अत एव चोत्सर्गतो घनशालायां न वस्तव्यं किन्तु यावद्भिः साधुभिः सा "अप्फुन्न"त्ति व्याप्ता भवति तावती' तावप्रमाणा वसतिरन्वेषणीया ।अथातिरिक्तायां वसतौ वसन्ति ततः ‘दोषाः' पूर्वोक्ता भवन्ति । कारणतस्तस्यामपि स्थितानां कश्चित्पुरुषः स्त्रीसहितः समागच्छतिस चानुकूलैर्वचोभिर्वारणीयः, वार्यमाणश्चब्रूयात्-‘एषामेभगिनी संरक्षणीया, साधूनां समीपे चाशङ्कनीया' इति च्छाना भणित्वा स्थितऽसौ, रात्रौ च प्रारब्धस्तां प्रतिसेवितुं ततः साधुभिर्वक्तव्यः-अरेनिर्लज्ज ! किमस्मानत्रस्थितान्न पश्यसियदेवमकार्य करोषि?; एवमुक्त्वा निष्काशनं तस्य कर्तव्यम्।। [भा.४९२७] आवरितो कम्मेहि, सत्तू विव उहितो थरथरंतो।
मुंचति य भेंडितातो, एक्ककं भे निवादेमि ।। वृ-अथासौ निष्काश्यमानोरुष्येद्रुष्टश्च कर्मभि' कषायमोहनीयादिभि आवृतः' आच्छादितः साधूनामुपरि शत्रुरिव रोषेण "थरथरंतो''त्ति भृशं कम्पमानः प्रहारं दातुमुत्थितः वाग्योगेन च 'भिण्डिकाः' बाडीमहता शब्देन मुञ्चति, यथा- "भेयुष्माकमेकैकं निपातयामि ।। [भा.४९२८] निग्गमनं तह चेवा, निद्दोस सदोसऽनिग्गमे जतणा।
सज्झाए झाणे वा, आवरणे सद्दकरणे वा॥ .वृ-एवं तस्मिन् विरुद्ध साते तस्या वसतेः सञ्जाते तस्या वसतेः साधुभिर्निर्गमनं तथैव' कर्तव्यं यथापूर्वं वेश्यास्त्रियामुक्तंयदिबहिर्निर्दोषम्।अथ सदोषंततः 'अनिर्गमे अनिर्गच्छतामियं यतना- स्वाध्यायो महता शब्देन क्रियते ध्यानं वा ध्यायते । यस्य स्वाध्याये ध्याने वा लब्धिर्न भवति सः 'आवरण' कर्णयोः स्थगनं विदधाति 'शब्दकरणं वा' महता शब्देन बोलोविधीयते॥ एवमपि यतमानस्य कस्यापि तत् प्रतिसेवनं दृष्ट्वा कर्मोदयो भवेत् । कथम्? इति चेद् उच्यते[भा.४९२९] वडपादव उम्मूलण, तिक्खम्मि व विजलम्मि वच्चंतो।
कुणमाणो वि पयत्तं, अवसो जह पावती पडणं । [भा.४९३०] तह समणसुविहिताणं, सव्वपयत्तेण वी जतंताणं ।
कम्मोदयपच्चइया, विराधना कासति हवेजा ॥ वृ-यथा वटपादपस्यानेकमूलप्रतिबद्धस्यापि गिरिनदीसलिलवेगेनोन्मूलनं भवति, "तिक्खम्मि [2018
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org