________________
११२
बृहत्कल्प-छेदसूत्रम् -३-४/१११ कज्जे ठिता वा जतनाए हीना, पावंति दोसं जतना इमा तू॥ वृ-अल्पश्चासौ गच्छो यस्तत्र प्रतिश्रये स्थितः,शाला च सा महती विस्तीर्णा घशालेत्यर्थः, ते च साधवो निष्कारणे 'तत्र' उपाश्रये स्थिता वर्तन्ते, अथवा कार्ये स्थिताः परं 'यतनया वक्ष्यमाणलक्षणयाहीनाः, ततो वेश्याप्रभृतिषुस्त्रीषुसमागच्छन्तीषु 'दोष कौतुकस्मृतिकरणादिकं प्राप्नुवन्ति ॥कारणे तु तत्र तिष्ठतामियं यतना[मा.४९२१] असिवादिकारणेहिं, अन्नाऽसति वित्थडाए ठायति ।
ओतप्पोत करिती, संथारग-वत्थ-पादेहिं॥ १-अशिवादिभिः कारणैः क्षेत्रान्तरेऽतिष्ठन्तस्तत्रअन्यस्यावसतेरभावे विस्तृतायामपिवसती तिष्ठन्ति । तत्र च संस्तारकैर्वस्त्र-पात्रैश्च भूमिका ओतप्रोतां कुर्वन्ति, मालयन्तीत्यर्थः ।।
इदमेव व्यनक्ति[भा.४९२२] भूमीए संथारे, अड्डवियड्डे करेंति जह दर्दु ।
ठातुमणा वि दिवसओ, न ठंति रत्तिं तिमा जतना ।। वृ-विस्तीर्णायां वसतौ तथा भूम्यां संस्तारकान् अर्दवितर्दान् कुर्वन्ति यथा तान् दृष्टवा स्थातुमनसोऽपि न तिष्ठन्ति। एषा दिवसतो यतना। रात्रौ पुनरियं यतना ।। [भा.४९२३] वेसत्थीआगमणे, अवारणेचउगुरुंच आणादी।
अनुलोमन निग्गमणं, ठाणं अन्नत्य रुक्खादी ।। वृ-वेश्यास्त्री यदि रात्रावागच्छति भणति च- अहमप्यत्र वसामि' इति ततः सा वारणीया। अथ न वारयन्ति ततश्चतुर्गुरुकम् आज्ञादयश्च दोषाः । “अनुलोमणे"त्ति अनुकूलैर्वचनैः सा प्रतिषेद्धव्या न खरपरुषैः, मा साधूनामभ्याख्यानं दद्याद्' इति कृत्वा ! “निग्गमने"त्तियदि सा वेश्या निर्गन्तुं नेच्छति ततः साधुभिर्निर्गन्तव्यम्, 'अन्यस्मिन्' शून्यगृहादि स्थाने स्थातव्यम्, तदभावे वृक्षमूलादावपि स्थेयम्, न पुनस्तत्रेति ॥ इदमेव व्यक्तीकरोति[भा.४९२४]पुढवी ओस सजोती, हरिय तसा उवधितेन वासं वा।
सावय सरीरतेनग, फरुसादी जाव ववहारो ।। दृ- यद्यपि बहि पृथिवीकायोऽवश्यायो वा, 'सज्योतिर्वा' साग्निका वा अन्या वसति, हरितकायस्त्रसप्राणिनो वा तत्र सन्ति तथापि निर्गन्तव्यम् । अथ बहिरुपधिस्तेनभयं वर्ष वा वर्षति श्वापदाः शरीरस्तेनका वा तत्र सन्ति ततः परुषवचनैरपि सा वेश्या भणितव्यानिर्गच्छास्मदीयात् प्रतिश्रयात् । आदिशब्दात् तथाप्यनिर्गच्छन्त्यां बन्धनादिकमपि विधीयते, यावद् व्यवहारोऽपि करणे उपस्थितायाः कर्तव्यः । इदमेव भावयति[भा.४९२५] अम्हेदानि विसहिमो, इड्मिपुत्त बलवं असहणोऽयं ।
नीहि अनिते बंधन, निवकढण सिरिधराहरणं ।। वृ-साधवो भणन्ति-वयं क्षमाशीला इदानीं विविधंविशिष्टं वा सहामहे, ततोयस्तत्राकारवान् साधुः सदयते-अयंतु 'ऋद्धिमत्पुत्रः' राजकुमारादि ‘बलवान्' सहस्रयोधी ‘असहनः' कोपनो बलादपि भवतीं निष्काशयिष्यति ततः स्वयमेव निर्गच्छ । यदि निर्गच्छति ततो लष्टम्, अथ न निर्गच्छति तदा सर्वेऽपि साधव एको वा बलवान् तां बघ्नाति, ततः प्रभाते मुच्यते । मुक्ता च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org