SearchBrowseAboutContactDonate
Page Preview
Page 1162
Loading...
Download File
Download File
Page Text
________________ उद्देशकः ४, मूलं-१११, [मा. ४९१५] १११ समणएणं अभिओगिया। रायानपत्तियति, भणिओअ-पेच्छ, दंसेमुते। राया आगतो, पासित्ता पालित्तायरियाणं रुट्ठो पच्चोसरिओ य । तओ सा आयरिएहिं चेड ति विगरणी कया । राया सुटुतरं आउट्टो ।। एवमागन्तुका अपि स्त्रीप्रतिमा भवन्ति । “जवणे"त्ति यवनविषये ईशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते ।। व्याख्यातं द्विविधमप्यचित्तम् । अथ सचित्तं व्याख्यायते, तदपि द्विविधम्-तत्रगतमागन्तुकं च । एतदुभयमपि व्याख्यानयति{भा.४९१६] पडिवेसिग-एक्कघरे, सचित्तरूवं तु होति तत्थगयं । सुन्नमसुन्नघरे वा, एमेव य होति आगंतुं॥ वृ-प्रातिवेश्मिकगृहे एकगृहे वा-एकत्रैवोपाश्रये कारणतः स्थितानां यत् स्त्रिया रूपं दृश्यते तत् तत्रगतं सचित्तं रूपं भवति । अथवा शून्यगृहमशून्यगृहं वा प्रविष्टेन या तत्र स्थिता स्त्री विलोक्यते तदपि तत्रगतम् । एवमेव चागन्तुकमपि सचित्तं स्त्रीरूपं भवति, प्रतिश्रये या स्त्री समागच्छति तदागन्तुकमिति भावः ।। अत्र तिष्ठतां दोषानुपदर्शयति[भा.४९१७] आलिंगनादी पडिसेवणं वा, दटुं सचित्ताणमचेदने वा । सद्देहि स्वेहि य इंधितो तू, मोहग्गि संदिप्पति हीनसत्ते॥ कृ-तेषां तत्रगतानामागन्तुकानांवा सचित्तानांस्त्रीरूपाणामालिङ्गनादीनि प्रतिसेवनां वाकुर्वतो दृष्ट्वा, अचेतनानि वा स्त्रीरूपाणि विलोक्य, प्रतिसेव्यमानाया वा स्त्रियः शब्दान् श्रुत्वा, तैः शब्द रूपैश्च 'इन्धितः प्रज्वालितः 'तुः पुनरर्थे मोहाग्नि कस्यापि हीनसत्त्वस्य भुक्तभोगिनोऽ. भुक्तभोगिनो वा सन्दीप्यते, ततः स्मृतिकरण-कौतुकदोषा भवेयुः ॥कथम् ? इत्याह. [भा.४९१८] कोतूहलं च गमनं, सिंगारे कुड्डछिद्दकरणे य। दिढे परिणय करणे, भिक्खुणो मूलं दुवे इतरे ।। वृ-कुतूहलं तस्योत्पद्यते-आसन्ने गत्वा पश्यामि, शृणोमि वा शब्दम्,एवं कुतूहले उत्पन्ने तत्र गमनं कुर्यात् शृङ्गारं वा गायन्तीं श्रुत्वा गच्छेत्, कुड्यस्य वा छिद्रं कृत्वा प्रलोकयेत्, दृष्टे च सोऽपितद्भावपरिणतोभवेत्-अहमप्येवं करोमीति, एतद्भावपरिणतःकश्चित्तदेवालिङ्गनादिकं करणं कुर्यात् । एतेषु स्थानेषु भिक्षोर्मूलं यावत् प्रायश्चित्तम्, 'इतरयोः' उपाध्यायाऽऽचार्ययोर्यथाक्रमं द्वे' अनवस्थाप्य-पाराञ्चिके चरमपदे भवतः ॥ इदमेव व्याचष्टे[भा.४९१९] लहुतो लहुगा गुरुगा, छम्मासा छेद मूल दुगमेव । दिढे य गहणमादी, पुव्वुत्ता पच्छकम्मंच॥ वृ-तत्रगतः शृणोति मासलघु, कुतूहलं तस्योत्पद्यते मासगुरु, व्रजतश्चतुर्लघुकाः, शृङ्गारं शृण्वतश्चतुर्गुरुकाः, कुड्यस्य छिद्रकरणे षण्मासा लघवः, छिद्रेण पश्यन्नास्ते षड्गुरवः, तद्भावपरिणते च्छेदः, आलिङ्गनादिकरणे मूलम्, एवं भिक्षोः प्रायश्चित्तमुक्तम् । उपाध्यायस्य मासगुरुकादारब्धमनवस्थाप्ये पर्यवस्यति । आचार्यस्य चतुर्लघुकादारब्धं पाराञ्चिके तिष्ठति अन्यच्च-आरक्षिकादिभिष्टे सति ग्रहणा-ऽऽकर्षणादयः पूर्वोक्ता दोषाः । या वा प्रतिमा सा कदाचिदालिङ्गयमाना भज्येत ततः पश्चात्कर्मदोषः॥ एष वसतिविषयो रूपदोष उक्तः । अथ विस्तरदोषमाह[मा.४९२०] अप्पो य गच्छो महती य साला, निक्कारणे ते य तहिं ठिता उ । Jain Education International For Private & Personal Use Only E www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy