________________
बृहत्कल्प-छेदसूत्रम् - ३-४/१११
वृ-स्नेहद्वारे - 'द्वितीयम्' अपवापदं प्रतीत्य स्नेहमुद्वरितं क्षारमध्ये प्रक्षिप्य परिष्ठापयेत् । द्रवंपानकं तस्योज्झनं यतनया विधेयम् । “दाहे "त्ति लूताया उष्णस्य वा गाढतरममितापे प्रतिश्रयभूमिकायामावर्षणं कुर्यात्, तृषाभिभूतं वा देहं सिञ्चेत्, ग्लानं भक्तप्रत्याख्यानिनं वा दाहाभिभूतं सिञ्चेत् । कायद्वारे - कश्चिद् गृहस्थः प्रत्यनीकस्तस्योपशमनीं प्रतिमां कृत्वा ततो यावदसावनुकूलो भवति तावद् मन्त्रं जपेत्, अशिवप्रशमनीं वा प्रतिमां विदध्यात् । क्षारद्वारेअनन्तरं परम्परं वा शुषिरेऽशुषिरे वा प्रसूतिशमनार्थं क्षारं प्रक्षिपेत् । तत्र शुषिरे दर्शयति-"खारो तु सिल्लादि ' ' त्ति सेल्लं-वालमयं सिन्दूरं तत्र क्षारः क्षेपणीयः, किं सञ्जातो न वा ? इति ॥ उपसंहरन्नाह[भा. ४९११] कम्मं असंकिलिट्टं, एवमियं वन्नियं समासेणं । कम्मं तु संकिलिडं, वोच्छामि अहानुपुवीए ॥
वृ- एवमिदमसंक्लिष्टं हस्तकर्म समासेन वर्णितम् । साम्प्रतं संक्लिष्टं हस्तकर्म यथानुपूर्व्या वक्ष्यामि ॥ तदेवाह - [मा. ४९१२]
११०
वसहीए दोसेणं, दङ्कं सरितुं व पुव्वभुत्ताई । एतेहि संकिलिट्ठे, तमहं वोच्छं समासेणं ॥
वृ- वसतेर्दोषेण वा स्त्रीणां वाऽऽलिङ्गनादिकं विधीयमानं दृष्टवा 'पूर्वभुक्तानि वा' स्त्रीभिः सार्धं हसित क्रीडितादीनि स्मृत्वा एतैः कारणैः 'संक्लिष्टं' हस्तकर्म यथोत्पद्यते तदहं वक्ष्ये समासेन || तत्र वसतिदोषं तावदाह[भा. ४९१३]
दुविहो वसहीदोसो, वित्थरदोसो य रूवदोसो य ।
दुविहो य रूवदोसो, इस्थिगत नपुंसतो चैव ॥
वृ- द्विविधो वसतिदोषो भवति, तद्यथा-विस्तरदोषश्च रूपदोषश्च । तत्र विस्तरदोषो धशालादिका विस्तीर्णा वसति, स पश्चाद् वक्ष्यते । रूपदोषो द्विधा स्त्रीरूपगतो नपुंसकरूपगतश्च। [ भा. ४९१४] एक्केको सो दुविहो, सचित्तो खलु तहेव अचित्तो । अचित्तो वि यदुविहो, तत्थगताऽऽगंतुओ चैव ॥
वृ- 'सः' स्त्रीरूपगतो नपुंसकरूपगतश्च दोष एकैको द्विविधः सचित्तोऽचित्तश्च, जीवयुतविषयोऽजीवयुतविषयश्चेत्यर्थः । अचित्तः पुनरपि द्विविधः तत्रगत आगन्तुकश्च ॥ उभयमपि व्याचष्टे
[भा. ४९१५ ]
कट्ठे पुत्ये चित्ते, दंतोवल मट्टियं व तत्थगतं । एमेव य आगंतुं, पालित्तय बेट्टिया जवणे ।।
- याः काष्ठकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा निर्वर्तिता स्त्रीप्रतिभा यद्वा दन्तमयमुपलमयं मृत्तिकामयं वा स्त्ररूपं यस्यां वसती वसति तत् तस्यां तत्रगतं मन्तव्यम्, तद्विषयो दोषोऽप्युपचारात् तत्रगत उच्यते । एवमेव चागन्तुकमपि मन्तव्यम् । आगन्तुकं नामयद् अन्यत आगतम् । ततो यथा तत्रगताः स्त्रीप्रतिमा भवन्ति तथाऽऽगन्तुका अपि भवेयुः । तथा चात्र पादलिप्ताचार्यकृता 'वेट्टिक "त्ति राजकन्यका दृष्टान्तः । स चायम्- पालित्तायरिएहिं रनो भगिनीसरिसिया जंतपडिमा कया । चंकमणुम्मेस-निमेसमयी तालविंटहत्था आयरियाणं पुरतो चिट्ठइ | राया वि अईव पालित्तगस्स सिनेहं करेइ । धिजाइएहिं पउद्वेहिं रनो कहियं भगिनी ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org