________________
१०९
उद्देशक : ४, मूलं-१११, [भा. ४९०५] [भा.४९०५] कुवणयमादी बेदो, घंसण मणिमादियाण कट्ठादी।
पट्टावरादि पीसण, गोप्फण-घनुमादि अभिघातो ।। वृ-“कुवणओ" लगुडस्तेन आदिशब्दाद् उपल-लेष्टुकाभिर्वा घटादेः भेदः' भेदनम्, द्विधा त्रिधा वा च्छिद्रपातनमित्यर्थः, एतत् परम्पराभेदनमुच्यते । एवं घर्षणं मणिकादीनां मन्तव्यम्, यथामणिकारालकुटवेधान् कृत्वा मणिकान्घर्षन्ति आदिशब्दात्प्रवालादिपरिग्रहः । “कट्ठाइ" त्ति चन्दनकाष्ठं फलकादिकं वा यद् घर्षति तद्वा घर्षणम् । “पट्ट"त्ति गन्धपट्टकस्तत्र वराःपधानायेगन्धास्तदादीनांपेषणंमन्तव्यम् । गोफणा-चर्मदवरकमयी प्रसिद्धा, तयाधनु-प्रभृतिभिर्वा लेष्टुकमुपलं वा यत् प्रक्षिपति एषोऽभिघात उच्यते ।। अथवा[मा.४९०६] विहुवण-नंत-कुसादी, सिनेह उदगादिआवरिसणं तु ।
काओ तु बिंब सत्थे, खारोतु कलिंचमादीहिं॥ वृ-विधुवनं-वीजनक नन्तकं-वस्त्र कुशः-दर्भस्तप्रभृतिभिर्वीजयन् यत् प्राणिनोऽभिहन्ति एष वा अभिधात उच्यते । स्नेहो नाम उदकेन आदिशब्दाद् घृतेन तैलेन वा आवर्षणं करोति । कायो नाम द्विपदादीनां 'बिम्ब' प्रतिरूपमित्यर्थः तत् शस्त्रेण परम्पराकरणभूतेन पत्रच्छेद्यादिषु निवर्तयति । 'क्षारः' लवणं तमशुषिरे शुषिरेवा कलिञ्चादिभिः प्रक्षिपति। 'कलिञ्चः' वंशकर्परी।
एषु दोषानाह[भा.४९०७] एकेक्कातो पदातो, आणादीया य संजमे दोसा।
एवं तु अणट्टाए, कप्पइ अट्ठाए जयणाए । वृ-एकैकस्माद्भेदनादपदादाज्ञाभङ्गादयो दोषाः, संयमे आत्मनिच प्रागुक्तनीत्या विराधना, एवमेते दोषा अनर्थकं छेदनादिकं कुर्वतो भवन्ति । अथ अर्थः-प्रयोजनं तस्मिन् प्राप्ते यतनया छेदनादिकं करोति तदा कल्पते ॥ इदमेव द्वितीयपदं भावयति[भा.४९०८] असती अधाकडाणं, दसिगादिगछेदनं व जयणाए।
गुलमादि लाउनाले, कप्परभेदादि एमेव ।। कृयथाकृतानां वस्त्राणामभावेदशिकाश्छेत्तव्याः,आदिशब्दात्प्रमाणाधिकस्यवा वस्त्रदेश्छेदनं 'यतनया' यथा संयमा-ऽऽत्मविराधना न भवति तथा कर्त्तव्यम् । भेदनद्वारे-गुडादिपिण्डस्य भेदं कुर्यात्, अलाबु-तुम्बकंतस्य वा नालमधिकरणभया भिन्द्यात्, कपरं-कपालं तदादिनावा कार्यमुत्पन्नं ततो घटग्रीवादेर्भेदनम् "एवमेव यतनया कुर्यात् ।। [भा.४९०९] अक्खाण चंदने वा, विघंसणं पीसणं तु अगतादी।
वग्घातीनऽभिघातो, अगतादि पताव सुणगादी ।। वृ- घर्षणद्वारे-अक्षाः-प्रसिद्धाः तेषां विषमाणां समीकरणार्थम्, चन्दनस्य वा ग्लानादेः परिदाहोपशमनार्थं घर्षणं कर्त्तव्यम् । पेषणद्वारे-ग्लानादिनिमित्तमेव अगदादेः पेषणं विधेयम् । अभिघातद्वारे-व्याघ्रादीनामभिभवतांगोफणया धनुषा वाऽभिघातः कार्य, अगदादेर्वाप्रताप्यमानस्य शुनक-काकादयोऽभिण्तन्तो लेष्टुना भेषयितव्याः॥ [भा.४९१०] बितिय दवुझण जतणा, दाहे वा भूमि-देहसिंचनता।
पडिनीगा-ऽसिवसमणी, पडिमा खारोतु सेल्लादी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org