________________
१०८
बृहत्कल्प-छेदसूत्रम् -३-४/१११ अट्ठाऽनट्ठाय पुनो, होति अनट्ठाय मासलहुँ।। वृ-यदशुषिरस्य शुषिरस्य वाछेदनं तदेकैकंद्विविधम्-अनन्तरंपरम्परंच ज्ञातव्यम्। पुनरेकैकं द्विधा-अर्थादनाच्च, सार्थकं निरर्थक चेत्यर्थः । अनर्थकं छेदनादिकं कुर्वतो मासलघु, असामाचारीनिष्पत्रमिति भावः ।। कथं पुनः छेदनमनन्तरं परम्परं वा सम्भवति? इत्याह[भा.४९०१] नह-दंतादि अनंतर, पिप्लमादी परंपरे आणा।
छप्पइगादि असंजमे, छेदे परितावणातीया । वृ. नखैर्दन्तैः आदिग्रहणात् पादेन वा यत् छिद्यते तदनन्तरं छेदनमुच्यते । पिष्पलकेन आदिग्रहणात् पाइल्लक-छुरिका-कुठारादिभिर्यत् छिद्यते तत्परम्परच्छेदनम्। एवमनन्तरं परम्परं वा छिन्दता तीर्थकर-गणधराणामाज्ञाभङ्गः कृतो भवति । तं छिन्दन्तं दृष्ट्वाऽन्येऽपि छिन्दन्ति इत्यनवस्था। एते तिष्ठन्तरश्छेदनादिकंसिट्टरं कुर्वन्तिन स्वाध्यायम् एवंशय्यातरादौचिन्तयति मिथ्यात्वम् । विराधना द्विविधा-संयमे आत्मनिच। तत्र वस्त्रादौ छिद्यमाने षट्पदिकादयो यद् विनाशमश्नुवते सोऽसंयमः, संयमविराधनेत्यर्थः । अथ छेदनं कुर्वतो हस्तस्य पादस्य वा छेदो भवति तत आत्मविराधना, तत्र च परिताप-महादुःखादिनिष्पन्नं पाराञ्चिकान्तं प्रायश्चित्तम् ।।
अथ शुद्धं शुद्धेन प्रायश्चित्तमाह[मा.४९०२] अझुसिर झुसिरे लहुओ, लहुगा गुरुगो य होति गुरुगाय।
' संघट्टण परतावण, लहु-गुरुगऽतिवायणे मूलं ॥
वृ-अशुषिरमनन्तरं छिनत्ति मासलघु, शुषिरमनन्तरं छिनत्ति चतुर्लघुकम्। अशुषिरं परम्परं छिदन्तोगुरुकोमासः, शुषिरंपरम्परं छिन्दतश्चतुर्गुरुकाः भवन्ति।शुषिरेबहुतरदोषत्वाद् गुरुतरम्, परम्परे शस्त्रग्रहणे संक्लिष्टतरं चित्तमिति कृत्वा गुरुतमं प्रायश्चित्तम् । एवं शुद्धपदे षट्कायविराधनाभावे मन्तव्यम् । अशुद्धपदे पुनरिदमपरं प्रायश्चित्तम्-“संघट्टण" इत्यादि, छेदनादिकं कुर्वन् द्वीन्द्रियान् सङ्कट्टयति चतुर्लघु, परितापयति चतुर्गुरु, उपद्रावयति षड्लघुः त्रीन्द्रियान् सट्टयति चतुर्गुरु, उपद्रावयति छेदः; पञ्चेन्द्रियान् सट्टयति षड्गुरु, परितापयति छेदः, पञ्चेन्द्रियमतिपातयति मूलम् । एवमिन्द्रियानुलोम्येन सविस्तरं यथा पीठिकायामुक्तं तथैवात्रापि मन्तव्यम् ॥अथवा द्वितीयोऽयमादेशः[मा.४९०३] अझुसिरऽनंतर लहुओ, गुरुगो अ परंपरे अझुसिरम्मि।
झुसिरानंतरे लहुगा, गुरुगा तु परंपरे अहवा॥ वृ-अशुषिरेऽनन्तरे लघुको मासः, अशुषिरे परम्परे गुरुको मासः । शुषिरेऽनन्तरे चतुर्लघु, शुषिरे परम्परे चतुर्गुरुकाः । अथवेति प्रायश्चित्तस्य प्रकारान्तरतायोतकः॥ एवं तावत् छेदनपदं व्याख्यातम् । अथ भेदनादीनि पदानि व्याख्यातुकाम इदमाह[भा.४९०४] एमेव सेसएसु वि, कर-पादादी अनंतरं होइ।
जंतु परंपरकरणं, तस्स विहाणं इमं होति ।। -'एवमेव' छेदनवत् 'शेषेष्वपि भेदनादिषुपदेषुप्रायश्चित्तंवक्तव्यम् ।नवरंकर-पादाभ्याम् आदिशब्दाद् जानु-कूपरादिभिशरीरावयवैः क्रियमाणं भेदनादिकमनन्तरंभवति॥यत्तु भेदनादेः परम्पराकरणं तस्य विधानमिदं भवति । तद्यथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org