________________
उद्देशक : : ४, मूलं- १११, [ भा. ४९३५ ]
११५
भणन्ति तेन त्रयाणामपि मासगुरुकम् । स्थविरस्यापि पितुः पुत्रेण संह सज्ञातग्रामं गच्छतो मासगुरुकम् ॥ अथामूनेव षष्ठादिसाधूनामुपदेशान् विवृणोति
[भा. ४९३६ ] संघाडगादिकहणे, जं कत तं कत इदानि पञ्चक्खा । अविसुद्ध दुडवणो न समति किरिया से कायव्वा ॥
वृ- सङ्घाटिकस्य आदिशब्दाद् अन्यस्य वा 'हस्तकर्म कृतं मया' इत्येवं कथने कृते सिस ब्रूयात् यत् कृतं तत् कृतमेव, इदानीं भक्तं प्रतयाचक्ष्व ?, किं ते भ्रष्टप्रतिज्ञस्य जीवितेन ? इति । सप्तमः प्राह- 'अविशुद्धो दुष्टव्रणः' रप्फकादिकः क्रियां विना न शाम्यति अतः क्रिया "से" तस्य कर्तव्या, एवं भवताऽप्यस्य मोहोदयव्रणस्य निर्विकृतिका ऽवमौदरिकादिका क्रिया विधेया येनोपशमो भवति ॥ [ भा. ४९३७]
पडिलाभणा उ सही, कर सीसे वंद ऊरु दोच्चंगे । सूलादिरुयोमज्जण, ओअट्टण सहिमानेमो ॥
घृ- अष्टमः प्राह- "सड्डी” श्राविका सा प्रतिलाभनां करोति, प्रतिलाभयन्त्यां चोर्यो पात्रके स्थिते यथाभावेनाभ्युपेत्य वा वालिते ऊरुमध्येन द्वितीयाङ्गादिकमवगलति, ततः सा श्राद्धिका करेण स्पृशति, "सीसे वंद" ति शीर्षेण वा वन्दमाना पादौ स्पृशेत्, ततः स्त्रीस्पर्शेन बीजनिसर्गो भवेत् । नवमः प्राह-‘“सूलाइरुय'त्ति शूलम् आदिग्रहणात् गण्डमन्यतरद्वा तदनुरूपं रुग्जातमकस्मादुत्पाद्यते ततः श्राद्धिका आनीयते, सा तत् शूलादिकमपमार्जयति “ओअट्टण "त्ति गाढ़तरमुद्वर्तयति एवं बीजनिसर्गो भवेत् ततः श्राद्धिकामानयामः ॥
[भा.४९३८] सन्दायपल्लि नेहिं (णं), मेहुणि खुहुंत निग्गमोवसमो ।
अविधितिगिच्छा एसा, आयरिकहणे विधिक्कारो ॥
वृ- यस्य मोहोदयः समुत्पन्नस्तस्य पितरं प्रति दशमो भणति - 'सज्ञातक पल्लि' सज्ञातकग्रामं “णं" इति एनं आत्मीयं पुत्रं नय, तत्र मैथुनिका - मातुलदुहिता तया सह "खुड़ंत "त्ति सोपहासवचनैर्भिन्नकथाभि परस्परं हस्तसङ्घर्षेण च क्रीडतो बीजनिर्गमो भवेत्, ततश्च मोहोपशमो भवति । एषा सर्वाऽप्यविधिचिकित्सा भणिता । यस्तु ब्रवीति - आचार्याणामेतदालोचय, ततस्ते यां चिकित्सामुपदिशन्ति सा कर्तव्या । एतदेकादशस्य साधोर्विधिकथनमुच्यते ॥
अत्रैव प्रकारान्तरमाह
[भा.४९३९] सारुवि गिहत्थ (मिच्छे), परतित्थिनपुंसगे य सूयणया । चउरो य हुंति लहुगा, पच्छाकम्मम्मि ते चेव ।
वृकश्चिद् ब्रूयात्- 'सारूपिकः' सिद्ध पुत्रः तद्रूपो यो नपुंसकस्तेन हस्तकर्म कार्यताम् । द्वितीयः प्राह-गृहस्थपुराणनपुंसकेन । तृतीयो भणति - मिथ्यादृष्टिनपुंसकेन । चतुर्थो ब्रवीतिपरतीर्थिकनपुंसकेन । एतेषां चतुर्णामपि "सूयणय”त्ति हस्तकर्मकरणे 'सूचनां' प्रेरणां कुर्वाणानां चत्वारो लघवस्तपः- कालविशेषिता भवन्ति । तत्र प्रथम द्वाभ्यामपि लघवः, द्वितीये तपसा लघवः, तृतीये कालने लघवः, चतुर्थे द्वाभ्यामपि गुरव इति । अथ ते हस्तकर्म कृत्वा पश्चात्कर्म कुर्वन्ति, उदकेन हस्तौ धावन्तीत्यर्थः, तत्रापि 'त एव' चतुर्लघवः ॥
[मा. ४९४०] एसेव कमो नियमा, इत्थीसु वि होइ आनुपुवीए ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org