________________
पीठिका- [भा. ४४६]
११३ आराम वच्च अगनी, घायादऽसुती य अन्नस्थ ॥ वृ-इह पूर्वार्द्धपदानां पश्चार्द्धपदानां च यथाक्रम योजना | सा चैवम्-'औपघातिकम्' उपघातप्रयोजनकंस्थण्डिलं त्रिविधं ज्ञातव्यम्, तद्यथा-आत्मोपघातिप्रवचनोपघाति संयमोपघाति च । तत्राऽऽत्मोपघाति आरामः, तत्र हि संज्ञां व्युत्सृजतो ‘घातादि' पिट्टनादि । प्रवचनोपधाति 'वर्च' वक़गृहम्, तद्धि जुगुप्तिसमशुच्यात्मकत्वात्, ततस्तत्र संज्ञाव्युत्सर्गे ईदशा एते इति प्रवचनोपघातः । संयमोपघाति ‘अग्नि' अग्निस्थानम्, तत्र हि संज्ञाव्युत्सर्गे तेऽग्न्यारम्भिणः 'अन्यत्र' अस्थण्डिलेऽग्निस्थानं कुर्वन्ति त्यजन्ति वा तां संज्ञामस्थण्डिले ।।
सम्प्रति विषमे स्थण्डिले दोषानाह[भा.४४७] विसम पलोट्टणि आया, इयरस्स पलोट्टणम्मि छकाया ।
झुसिरम्मि विच्छुगादी, उभयकमणे तसादीया॥ वृ-विषमे स्थण्डिले साधुः प्रलोटेत-पतेदिति भावः, तत्र चाऽऽत्माविराध्येत । 'इतरस्य' पुरीषस्य प्रश्रवणस्य च प्रलोटने षट् काया विराध्यन्ते, तथाहि प्रतीतमेतत्-पुरीषं प्रश्रवणं वा प्रलोटत् षट्कायान् विराधयति, एषा संयमविराधना। झुषिरे दोषानाह-झुषिरेसंज्ञादिव्युत्सृजतो वृश्चिकादिभिरात्मनोविराधना, आदिशब्दात सांदिपरिग्रहः उभयं-संज्ञाप्रश्रवणतेनाऽऽक्रमणे 'त्रसादयः' त्रस-स्थावरप्राणा विराध्यन्ते, एषा संयमविराधना ।। अथ कीशं चिरकालकृतं स्थण्डिलम् ? अत आह[भा.४४८] जे जम्मि उउम्मि कया, पयावणादीहि थंडिला तेउ।
होंति इयरे चिरकया, वासावुत्थेय बारसगं ।। वृ-यानि स्थण्डिलानि यस्मिन् ऋतौ प्रतापनादिभि कृतानि तानि तस्मिन्नचिरकालकृतानि भवन्ति । यथा-हेमन्ते कृतानि हेमन्त एवाचिरकालकृतानि । 'इतराणितु ऋत्वन्तरव्यवहितानि चिरकालकृतानि, अस्थण्डिलानितानीति भावः। यत्र पुनरेकं वरात्रंसगोधनो ग्रामउषितस्तत्र 'द्वादशकं द्वादश संवत्सराणि स्थण्डिलम्, ततः परमस्थण्डिलं भवति ।। सम्प्रति विस्तीर्णमाह[भा.४४९] हत्थायामंचउरस, जहन्न उक्कोस जोयणबिछवं ।
चउरंगुलप्पमाणं, जहण्णयंदूरमोगाढं। वृ-जघन्यं विस्तीर्णं चतुरस्रं चतसृष्वपि दिक्षु हस्तायामम्, उत्कृष्टं योजनद्विषटकं' द्वादश योजनानि, तच चक्रवर्तिस्कन्धावारनिवेशे प्रतिपत्तव्यम् । दूरावगाढमाह-यत्राधस्तात् 'चतुरङ्गुलप्रमाणमचित्तं चत्वार्यङ्गुलान्यचित्ता भूमि तद् जघन्यं दूरमवगाढम्, अर्थात् पञ्चाङ्गुलप्रभृतिकमचित्तं यस्याधस्तात् तद् उत्कृष्टं दूरमवगाढम् ।। साम्प्रतमासन्नमाह[भा.४५०] दव्वासनं भवणाइयाण तहियं तुसंजमा-5ऽयाए।
आया-पवयण-संजमदोसा पुण भावमासन्ने । कृ-आसत्रंद्विविधम्-द्रव्यतोभावतश्च । तत्रद्रव्यासन्नं भवनादीनां निकटम, हस्तिपदप्रमाणः स्कन्धस्तस्य समन्ततो हस्तो वर्जयितव्यः । तत्र यदि द्रव्यासन्ने व्युत्सृजति ततः संयमे आत्मनिच विराधना । तत्र यद्गृहादीनामासनं तत् स्थण्डिलं परित्यज्यान्यत्र स्थण्डिलं कुर्युः,अथवापानीयेन | 18181
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org