________________
११२
बृहत्कल्प-छेदसूत्रम् -१. तदनन्तरं सण्डासकं सम्प्रमाद्यं प्रेक्षितेषु प्रमार्जितेषु च भूप्रदेशेषु स्थण्डिले पुरीषं 'निसृजेत्' व्युत्सृजेत् । कथम् ? इत्याह-'यतनया' "दिसि पवन गाम सूरिए" त्यादिवक्ष्यमाणलक्षणया । तत् पुनरनापातासंलोकं स्थण्डिलमेभिर्वक्ष्यमाणैर्दशभि स्थानैर्विशुद्धं ज्ञातव्यम् ।। तान्येवाह[भा.४४३] अनावायमसंलोए, परस्स अनुवधातिए।
समे अज्झुसिरे यावि, अचिरकालकयम्मि य ।। [भा.४४४] विच्छिन्ने दूरमोगाढेऽनासन्ने बिलवजिए।
तसपाण-बीयरहिए, उच्चारादीणि वोसिरे ।। वृ-अनापातमसंलोकं १ परस्यानौपघातिक र समं ३ अशुषिरं ४ अचिरकालकृतं ५ विस्तीर्णं ६दूरमवगाढं ६ अनासन्नं ८ बिलवर्जितं ९ सप्राण-बीजरहितं १० यत् स्थण्डिलं तत्र 'उच्चारादीनि' उच्चार-प्रश्रवणप्रभृतीनि व्युत्सृजेत् ।।
एष एककः संयोगो दर्शितः । सम्प्रति द्विकादिसंयोगानुपदर्शयति[भा.४४५] एग-दु-ती-चउ-पंचग-छग-सत्तग-अट्ठ-नवग-दसगेहिं ।
संजोगा कायव्वा, भंगसहस्संचउव्वीसं ।। कृ-अमीषामनन्तरोदितानांदशानांपदानामेक-द्वि-त्रि-चतुः-पञ्च-षट् सप्ता-ऽष्ट-नव-दशकैः संयोगाः कर्तव्याः। तेषु च भङ्गाः स्वसङ्ख्यया 'चतुर्विंशं' चतुर्विंशत्यधिकं सहस्रम् ।
अथ कस्मिन् संयोगे कियन्तो भङ्गकाः ? उच्यते-इह भङ्गानामानयनाय करणमिदम्दशादयोऽङ्गा एकैकेन हीनास्तावत् स्थाप्यन्ते यावत् पर्यन्त एकः । ततस्ते यथाक्रममेमी राशिभिर्गुणयितव्याः, तद्यथा-दशक एककेन, नवकः पञ्चभि, अष्टकः पञ्चदशभिः, सप्तकस्त्रींशता, षट्को द्वाचत्वारिंशता, पञ्चकोऽपि द्वाचत्वारिंशता चतुष्कस्त्रशता, त्रिकः पञ्चदशभि, द्विकः पञ्चकेन, एकक एककेन।अमीषांचामीभिर्गुणाकारैर्गुणने जाताएककादिसंयोगेष्वियं भङ्गसङ्ख्या, तद्यथा-एककसंयोगे दश, द्विकसंयोगे पञ्चचत्वारिंशत्, त्रिकसंयोगे विशं शतम्, चतुष्कसंयोगे द्वेशते दशोत्तरे, पञ्चकसंयोगेद्वेशते द्विपञ्चाशदधिके, षट्कसंयोगेद्वेशतेदशोत्तरे, सप्तकसंयोगे विशंशतं, अष्टकसंयोगेपञ्चचत्वारिंशत्, नवकसंयोगेदश, दशकसंयोगे एकः; एकंच वसत्यादषु विविक्ते प्रदेशे स्थण्डिलमिति । सर्वभङ्गसङ्ख्या एकत्र मीलयित्वा रूपाधिका क्रियते ततश्चतुर्विंशं भङ्गसहस्रं भवति।
भंगानयने करणं, दसगातो ओसरंतो जावेको । एए उ गुणेयव्वा, इमेहिं रासीहिं जहकमसो ।। एक्कगपंचग पन्नर, तीसा बायाल पंच जा ठाणा । परतो बायालीसा, पडिलोममवेहि जावेको ।। एक्कगसंजोगादी, गुणिया लद्धा हवंति एमेते।
मिलिया रूवाहिकया, भंगसहस्सं चउव्वीसं ॥ सम्प्रत्येतानि दश शुद्धानि पदानि व्याख्यातव्यानि । ये च यत्र दोषास्ते तत्र कथनीयाः। तत्राऽऽपातवत् संलोकवच्च पूर्वं व्याख्यातम् । इदानीं परस्योपघातिकमाह
[भा.४४६] आया पवयण संजम, तिविहं उवघातियं मुणेयव्वं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org