________________
पीठिका - [भा. ४३८]
१११
व्रजन्ति तावतां योग्यमरिक्तं तथा गृह्णाति यथैकस्योद्धरति । एवं पानीयं गृहीत्वा समागतो बहि प्रतिश्रयस्य पादौ प्रमार्ण्य दण्डकं स्थापयित्वा ऐर्यापथिकी प्रतिक्रम्य आलोच्य गुरोः पानकं दर्शयित्वाऽऽपृच्छति। गुरुमापृच्छय संज्ञाभूमिं व्रजामि' इति गच्छति । तत्र यद्यन्योऽपि कश्चिद्व्रजति तर्हि यथैकस्योद्धरति तावत्प्रमाणं मात्रके पानकं गृह्णाति । तच्चोद्ग्राहितं पात्रमन्यस्य समर्प्य दण्डकं प्रमार्ण्य आवश्यकीं कृत्वा व्रजति । यथोक्तविधेरकरणे सर्वत्र प्रायश्चित्तं मासलघु ॥ उक्तमेवार्थं स्पष्टतरमुपदर्शयति
[भा.४३९] अतिरेगगहणमुग्गाहियम्मि आलोय पुच्छियं गच्छे । एसा उ अकालम्भी, अणहिंडिय हिंडिए काले ||
वृ- पात्रे उद्राहिते एकजनातिरेकेण पानीयस्य ग्रहणं कर्त्तव्यम् । कृत्वा च गुरोः पुरत आलोच्य गुरुमापृच्छय संज्ञाभूमिं गच्छेत् । एषाऽकाले संज्ञा उक्ता । सम्प्रति कालसंज्ञा वक्तव्या'काले' काल संज्ञा अहिण्डिते हिण्डिते वा । इयमत्र भावना - तृतीयस्यां पौरुष्यां कालस्य प्रतिक्रमणे कृते यावन्नाद्यापि भिक्षावेला भवति तावत् संज्ञाभूमिं व्रजति; अथवा हिण्डिते समुद्दिष्टे भाजनेषु च प्रदत्तकल्पेषु यावन्नावगाहते चतुर्थपौरुषीकालस्तावद्गच्छति; अथोरसूरे भिक्षावेला चिरं वा हिण्डितस्ततोऽवगाढायामपि चरमपौरुष्यां गच्छति ।। तत्र को विधिः ? इत्याह
[भा. ४४०] कप्पेऊणं पाए, एक्क्क्स्स उ दुवे पडिग्गहगे । दाउंदो दो गच्छे, तिण्हट्ठ दवं च घेत्तूणं ॥
वृ- 'पात्राणि कल्पयित्वा' त्रीन् कल्पान् पात्राणां निर्लेपनाय दत्त्वा 'एकैकस्य' आत्मीयात्मीयसङ्घाटकस्य द्वौ द्वौ पतद्ग्रहको दत्त्वा द्वौ द्वौ । संज्ञाभूमिं गच्छेयाताम् । कथम् ? इत्याह-त्रयाणामर्थाय द्रवं गृहीत्वा । पानकं हि तावत्प्रमाणं ग्रहीतव्यं यावत् पश्चादेकस्योद्धरति । इयमत्र भावना ये ये सङ्घाटवन्तस्तेषां तेषामेको द्वौ पतद्रही धारयति, द्वितीयश्चान्येन समं याति, तेषु चागतेषु ये प्रागितरे स्थितास्ते व्रजन्ति, इतरे चागताः पात्राणि धारयन्ति, यावन्तश्च गच्छन्ति तावतां योग्यमेकातिरिक्तं पानकं मात्रके गृह्णन्ति ॥ कथं पुनस्ते गच्छन्ति ? इत्यत आह
[भा. ४४१] अजुलिया अतुरिया, विगहारहिया वयंति पढमं तु । निसिइत्तु डगलगहणं, आवडणं वच्चमासज्जा |
वृ- 'अयुगलिताः' न समश्रेणीकयुगलरूपतया स्थिताः 'अत्वरिताः' त्वरिरहिताः 'विकथारहिताः' स्त्री भक्तदिकथा अकुर्वाणाः 'प्रथमम्' अनापातासंलोकलक्षणं स्थण्डिलं व्रजन्ति । तत्र 'निषद्य' उपविश्य नोर्द्धस्थिता इत्यर्थः, ऊद्धर्वस्थितानां सम्यक्प्रत्युपेक्षणाऽसम्भवात् 'डगलग्रहणं कुर्वन्ति' ये भूमावसम्बद्धाः पुतनिर्लेपनाय लेष्टुकास्ते डगलकास्तानाददते, आदाय चैतेषां भूमावापतनं कुर्वन्ति येन वृश्चिकादिस्ततोऽपसरति । उक्तञ्च - "ते डगले टिट्टिवेइ ततो जो तत्थ विच्छुगादी सोऽवसरति" त्ति । तेषां च डगलकानां प्रमाणं 'वर्च' पुरीषमासाद्य प्रतिपत्तव्यम् । यो भित्रवर्चा सत्रीन् डगलकान् गृह्णाति, अन्यो द्वावेकं वा ॥
[भा.४४२ ] आलोइऊण य दिसा, संडासगमेव संपमजित्ता । पेहिय पमज्जिए य, जयणाए थंडिले निसिरे ।।
वृ- स्थण्डिलं गत्वा तत्र दिशामापात-संलोकवर्जनार्थमालोकं कुर्यात् । दिश आलोक्य
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International