________________
११०
बृहत्कल्प-छेदसूत्रम् -१वृ- यत्र वयममुमागच्छन्तं पश्यामो यत्र चाऽस्माकं ज्ञातिवर्गो निरन्तरम् ‘आचरति' विचारार्थमागच्छति तत्रास्माकं परिभवं कामयमानो दत्तसङ्केतो वा समागच्छति । किञ्च[मा,४३५] कलुस दवे असतीय व, पुरिसालोए हवंति दोसाओ।
पंडित्थीसु वियतहा, खद्धे वेउविए मुच्छा ।। कृ'द्रवे' पानीये कलुषे 'असति' अविद्यमानेवापुरुषालोके दोषाः प्रागुक्ताअवर्णादयो भवन्ति । तथा पण्ड:-नपुंसकः, पण्डेषु स्त्रीषु च संलोकमानेषु खद्धे वैकुर्विके वा सागारिके दृष्टे मूर्छा भवेत् । इयमत्र भावना-नपुंसकः स्त्रीवा सागारिकंस्वभावत एवातिस्थूलं लम्बंच यदिवा कषायितम् अथवा वातदोषेण वैकुर्विकं दृष्ट्वा तद्विषयाभिलाषमूमिापन्नातं साधुमुपसर्गयेत् तस्मात् त्रयाणामपि संलोको वर्जनीयः॥
गतं चतुर्थं स्थण्डिलम्, इदानीं तृतीयमापातवदसंलोकमधिकृत्य दोषानाह[भा.४३६] आयसमुत्था तिरिए, पुरिसे दव कलुस असति उड्डाहो।
आयोभय इत्थीसुं, अतिति निते य आसंका॥ वृ-तिर्यगापाते आत्मसमुत्या दोषाः, तद्यथा-स्त्रीणां नपुंसकानांचापाते मैथुनाशङ्कादयो दोषाः । सानां तिर्यस्पुरुषाणामापाते आत्मन उपघातः । तथा पुरुषे' मनुष्यपुरुषापाते द्रवे कलुषे असति वा प्रवचनस्योड्डाहः । तथा स्त्रीषु चशब्दानपुंसकेष्वागच्छत्सु गच्छत्सु च 'आत्मोभयविषया' आत्मोभयग्रहणंपरस्योपलक्षणंआत्म-परोभयविषया आशङ्का । साचप्रागेव भाविता॥ [भा.४३७] आवायदोस तइए, बिइए संलोयतो भवे दोसा।
तेदो विनस्थि पढमे, तहि गमणं तत्थिमा मेरा॥ वृ-तृतीयेस्थण्डिले आपातदोषः, द्वितीयेच संलोकतो दोषाभवन्ति ते वेदितव्याः। तेच 'द्वयेऽपि आपातदोषाः संलोकदोषाश्च प्रथम स्थण्डिलेन सन्तिततस्तत्र गमनं विधेयम्। तत्रेयं मर्यादा ।। तामेवाह[भा.४३८] कालमकाले सन्ना, कालो तइयाए सेसगमकालो।
पढमा पोरिसि आपच्छ पानगमपप्फिअन्नदिसि ।। वृ-द्विविधा संज्ञा, तद्यथा-काले काले च । तत्र काले तृतीयस्यां पौरुष्याम्, 'शेषकं' सर्वमपि प्रातः प्रभृतिकमकालः । तत्र तावदकालसंज्ञायां विधिरुच्यते 'कथं गन्तव्यम् ?'-तत्र यदिप्रथमायां पौरुष्यांभवेत् तदा पात्रमुद्राह्य पानकनिमित्तं व्रजति; अथ नोद्राहयति पात्रंततो लोको जानीयात्, यथा-एष बहिर्गमनिमित्तं पानीयं गृह्णाति, ततश्चतुर्थरसिकंन दद्यात् । अपि चोद्राहिते पात्रेऽयमधिको गुणः-कोऽपि श्राद्धो ग्रामान्तरं नगरान्तरं वा गन्तुकामः प्रधावितः श्रद्धायामुत्पन्नायां तं प्रतिलामयेत्, सोऽपि लाभो भवति शङ्काऽपि च नोपजायते, यथा-एष बहिर्गमनाय पानकनिमित्तं हिण्डते । सपुनः कीशंपानीयं गृह्णीयाद्? अत आह- 'अपुष्पितं' अच्छं सुगन्धं चतुर्धरसिकम्, न भवति तादृशं त उष्णोदकादि गृह्णीयात् । “अन्नदिसिमिति यस्यां दिशि संज्ञाभूमि तस्यां पानकस्य न गन्तव्यम्, यदि पुनस्तस्यां गच्छति ततोऽतिरिक्तं ग्रहीतव्यम् । यदि द्वौ जनौ तदा तथा गृह्णाति यथा तृतीयस्याप्युद्धरति, किं बहुना ? यावन्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org